________________ सिद्ध 843 - अभिधानराजेन्द्रः - भाग 7 सिद्ध खिनस्तिष्ठन्तीति योगः सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थकमिति चेत्, नैवं दुःखामावमात्रमुक्तिसुखनिरासेन वास्तव्यसुखप्रति-पादनार्थत्वादस्य, तथाहि अशेषदोषक्षयतः शाश्वतमव्याबाधसुखं प्राप्ताः सुखिनः सन्तः तिष्ठन्ति, न तु दुःखाभावमात्रान्विता एवेति // 16 // साम्प्रतं वस्तुतः सिद्धपर्यायशब्दान् प्रतिपादयन्नाह- "सिद्ध य त्ति' गाहा, सिद्धा इति च तेषां नाम कृतकृत्यत्वाद् , एवं बुद्धा इति केवलज्ञानेन विश्वावबोधात्, पारगता इति च भवार्णवपारगमनात् 'परंपरगय' त्ति पुण्यबीजसम्यक्त्वज्ञानचरणक्रमप्राप्त्युपाययुक्तत्वात् परम्परया गताः परम्परगता उच्यन्ते, उन्मुक्तकर्मकववाः सकलकर्मवियुक्तत्वात, तथा अजरा वयसोऽभावाद् अमराआयुषोऽभावात्, असङ्गाश्च सकलक्लेशाभावादिति // 20 // 'निच्छिण्ण' गाहा 'अतुल' गाहा घ्यक्तार्थे एवेति // 21 // 22 // औ०। तथा किंचजं संठाण तु इह, भवं चयंतस्य चरमसमयम्मि / आसी य पएसघणं, तं संठाणं तर्हि तस्स // यदेव तुशब्दस्य व्यवहितस्यैवकारार्थत्वात् संस्थानमिह-मनुष्यभवे भवं-संसारं मनुष्यभवं वा त्यजतः, सतश्च चरमसमये आसीत् देशधनं तदेव सस्थानं तत्र तस्य भवति / तच्च मनुष्यभवशरीरापेक्षया त्रिभागहीनं- त्रिभागोनं रन्ध्रापूरणात् / तथा चाहदीहं वा हस्सं वा, जं चरमभवे हवेज संठाणं / तत्तो तिमागहीणा, सिद्धाणोगाहणा भणिया // दीर्घ वा पञ्चधनुःशतप्रमाणं ह्रस्वं वा हस्तद्वयप्रमाणं वाशब्दादमध्यम वा विचित्रं यच्चरमभवे संस्थानं ततस्तस्मात् संस्थानात् त्रिभागहीना सिद्धानाम् अवगाहन्ते अस्यामित्यवगाहना स्वावस्यैव भणिता तीर्थकरगणधरैः / कस्मात् त्रिभागहीनेति चेत्, उच्यते-इह देहत्रिभाग, शुषिरं ततो योगनिरोधकाले तथाविधप्रयत्नभावतः शुषिरापूरणात् विभागहीनो जातः, नच वाच्यम् संहरणं तावत् प्रदेशानां सम्भवति ततःप्रयत्नविशेषः प्रदेशमात्रोऽपि कस्मान्नावतिष्ठते इति तथाविधसामर्थ्याभावात् योगनिरोधकाले अद्यापि सकर्मकात् तथा जीवस्वाभाच्याच / उक्तं च- "संहारसंभवातो, पएसमेत्तम्मि किन्न संवाइ। सामत्थाईसामत्थाभावतओ भवे सिद्धे" तदवस्थ एव भवति, आह च-- देहतिभागो सुसिरं तप्पूरणतो तिभागहीणो उ / सो जोगनिरोहोचिय, जातो वि तओ य तदवत्थो" नच सिद्धस्य सतः प्रदेश संहारसम्भवः प्रयत्नाभावादप्रयत्नस्य गतिरेव कथमिति चेत् / उच्यते-समाहितमेतदसङ्गत्वादिति हेतुभिरिति, उक्तं च-"सिद्धो वि देहरहितो, सपयत्ताभावतो न संहरइ / अप-यत्तस्स किह गई, नणु भणियमसंगयादीहिं / / " आ० म०१ अ०। साम्प्रतमुक्तानुवादेनैव संस्थानलक्षणं सिद्धानाम भिधातुकाम आहओगाहणा य सिद्धा, भवत्तिभागेण हुंति परिहीणा। संठाणमणित्थंथं, जरामरणबिप्पमुक्काणं // अवगाहनया सिद्धाः भवत्रिभागेन भगवतः शरीरत्रिभागेन परिहीना भवन्ति ततस्तेषां जरामणविप्रमुक्तानां संस्थाननित्थंस्थं वेदितव्यम्। इत्थं प्रकारमात्रमित्थम् तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थंस्थं न केनचिदपि लौकिकेन प्रकारेण स्थितमिति भावः / इयमत्र भावना योगनिरोधकाले देहविभागस्य शुषिरस्य प्रदेशैरापूरणात् पूर्वसंस्थानान्यश्चव्यवस्थानतोऽनियताकारं संस्थानमनियताकारत्नादेव च तदनित्थंस्थमुच्यते, ननु सर्वथा तदभावतः सिद्धादिगुणेष्वपि यः सिद्धानां से न दीहे न हस्से' इत्यादिवचनेन दीर्घत्वहस्वत्वादीनां प्रतिषेधः सोऽप्यनित्थंस्थः स्वसंस्थानत्वादवसेयो न पुनः सर्वथा तेषामभावतः / उक्तं च"सुसिरपडिपूरणातो, पुव्वागारं तहा ववत्थातो। सठाणमणित्थंथं, जं मणिय अणिययागारं / / 1 / / एत्तो चिय पडिसेहो, सिद्धादगुणेसु दीहयाईणं / जमणित्थ(थं)त्थं पुव्वा-गारावेक्खाएँ नामावो // 2 // आह किमेते सिद्धा देशभेदेन स्थिता उत नेति, उच्यतेनेति ब्रूमः / कुत इति चेत् उच्यते-यस्मात् / जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का। अन्नोन्नसमोगाढा, पुट्ठा सव्वे य लोगते // यत्रैव चशब्दस्येवकारार्थत्वाद्देशे एकः सिद्धो-निवृत्तस्तत्रानन्ता भवक्षयविमुक्ता भवक्षयेण विमुक्ताः, अनेन स्वेच्छया भवावतरणशक्तिमत्सिद्ध्यव्यवच्छेदमाह "अन्नान्नसमोगाढा, पुट्ठा सव्वे य लोगते" अन्योन्यसमवगाढास्तथाविधतत्पारणामवत्त्वात् धर्मास्तिकायादिवत, 'पुट्ठा सव्वे य लोगते' इति-स्पृष्टा-लग्नाः सर्वे लोकान्तेवा, पाठान्तरम् 'पुट्ठोसव्वेहिं लोगंतो' स्पृष्टः सर्वैः लोकान्तः लोकाग्रे च प्रतिष्ठिता' इति वचनात् / तथाफुसइ अणते सिद्धे, सव्वपएसेहि सव्वतो सिद्धा। ते वि असंखेज्जगुणा, देसपएसेहिजे पुट्ठा // ये असंख्येयगुणा वर्तन्ते ये देशप्रदेशैः स्पृष्टाः / केभ्योऽसंख्येयगुणा इति चेत् उच्यते-सर्वप्रदेशस्पृष्टभ्यः / कथ-मिति चेत्, उच्यते-इह एकस्य सिद्धस्य यदवगाहना क्षेत्रकस्मिन् अपि परिपूर्ण क्षेत्रे अवगादास्तेऽपि प्रत्येकमनन्ता एवं द्वित्रिचतुः-पञ्चादिप्रदेशहान्या ये अवगाढास्तेऽपि प्रत्येकमनन्ताः। तथा तस्य मूलक्षेत्रस्य एकैकं प्रदेश परित्यज्य यऽपि अवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुःपञ्चादिप्रदेशहान्या ये अवगाढा-स्तेऽपि प्रत्येकमनन्ताः / एवं च सति प्रदेशपरिवृद्धिहानिभ्यां ये समवगाढास्तेपरिपूर्णक्षेत्रावगाढे-भ्योऽसंख्येयगुणा भवन्ति। असंख्येयप्रदेशात्मकैकसिद्धावगाहक्षेत्रे प्रदेशपरिवृद्धिहानिभ्यां प्रतिप्रदेशमनन्तानां सिद्धानामवगाहनात् / उक्तं च- "एगक्खेत्ते गंत्ता, पएसिपरिवड्डिहाणि ततो / होति असंखेज्जगुणा, संखपएसो जमवगाहो" ||1|| साम्प्रतं सिद्धानेव लक्षणतः प्रतिपादयतिअसरीरा जीवघणा, उवउत्ता दंसणे य नाणे य। सागारमणागारं, लक्खणमेयं तु सिद्धाणं // अविद्यमानशरीराः अशरीराः; औदारिकादिपवविधशरी