________________ सिद्ध 544- अभिधानराजेन्द्रः - भाग 7 सिद्ध ररहिता इत्यर्थः / जीवाश्च ते घनाश्च शुषिरापूरणात् जीवघनाः उपयुक्ता | दर्शने ज्ञाने चा। केवलज्ञानदर्शनयोर्विशेषविषयतामुपदर्शयतिकेवलनाणुवउत्ता, जाणंता सव्वभावगुणभावे। पासंति सव्वतो खलु, केवलपिट्ठीहिणंताहिं।। केवलज्ञानेनोप्रयुक्ता जानन्ति-अवगच्छन्ति सर्वभावगुणभावान् सर्वपदार्थगुणपर्यायान्। प्रथमो भावशब्दः पदार्थवचनो द्वितीयः पर्यायवचनः, गुणपर्यायभेदस्त्वयम्-सहवर्तिनो गुणाः, क्रमवर्तिनः पर्यायाः। तथा पश्यन्ति सर्वतः खलु' खलुशब्दस्यावधारणार्थत्वात् सर्वत एव केवलदृष्टिभिरनन्ताभिः केवलदर्शनैरनन्तत्वात् सिद्धानामिहादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिद्धयन्तीति ज्ञापनार्थम्। आहकिमेते युगपज्जानन्ति पश्यन्ति च आहोश्चित् अयुगपदिति / उच्यते अयुपगत्। कथभेतदवसीयत इति चेत्, यत आहनाणम्मि दंसणम्मि य, एत्तो यं एगयरम्मि उवउत्ता। सव्वस्स केवलिस्स हु, जुगवं दो नत्थि उवओगो॥ ज्ञाने दर्शने च एत्तो त्ति-अनयोरेकतरस्मिन्नुपयुक्ताः, किमिति यतः सर्वस्य केवलिनः सतो युगपद्एकस्मिन् काले द्वौ नस्त उपयोगौ, तत् क्षायोपशमिकसंवेदने तथा दर्शनात् / अत्र बहु वक्तव्यं तच्च नन्द्यध्ययनटीकातोऽवसेयमिति। साम्प्रतं निरुपमसुखभाजस्ते इत्युपदर्शयन्नाह--- न वि अस्थि माणुणाणं, तं सोक्खं न वि य सव्वदेवाणं। यं सिद्धाणं सोक्खं, अव्वाबाहं उवगयाणं / / नैवास्ति मानुषाणां-चक्रवादीनामपि तत्सौख्यं, न चैव देवानामनुत्तरसुरपर्यन्तानामपि यत् सिद्धानां सौख्यम् 'अव्यावाधामुपगताना, विविधा आबाधा व्याबाधा न व्याबाधा अव्याबाधा तामुपसामीप्येन गतानां प्राप्तानाम्। यथा नास्ति तथा भङ्गयोपदर्शयतिसुरगुणसुहं समत्तं, सय्वद्धा पिडियं अणंतगुणं / न य पावइ मुत्तिसुहं, ऽणताहि वि वग्गवग्गूहि // सुरगणसुखं समस्तं देवसंघातसुख समस्तं सम्पूर्णमतीतानागतवर्तमानकालोद्भवमित्यर्थः / पुनः सर्वाद्धापिण्डितं समयैर्गुणितं ततः पुनरप्यनन्तगुणम् / किमुक्तं भवति-सद्धिासमयगुणितं सत् यत् प्रमाणं भवति तावत्प्रमाणं किलासंकल्पनं वा एकैकस्मिन्नाकाशप्रदेशे स्थाप्यते, इत्येवं सकललोकाकाशानन्तप्रदेशपूरणलक्षणे नानन्तगुणकारेण गुणितमिति। एवं प्रमाणस्य सतः पुनर्वर्गो विधीयते / तस्याऽपि वर्गितस्य भूयो वर्गः एवमनन्तैर्वर्गवगैर्वर्गितं तथापि तथा प्रकर्षगतमुक्तिसुखं न प्राप्नोति। तथा चैतदभिहितार्थानुवाद्येवाहसिद्धस्स सुहोरासी, सव्वद्धापिंडितो जह हवेजा। णो णंतवम्गमइतो, सव्वागासे न माइग्जा | सिद्धसम्बन्धे, सुखानां राशिः सुखराशि:- सुखसङ्घात इत्यर्थः सवाद्धापिण्डितः सर्वकालसमयगुणितः / आ० म० 1 अ० / औ० / दर्श० / कर्म० / प्रति० / पं० सू० / साम्प्रतमेवंरूपस्यापि सतोऽस्य निरुपमतां प्रतिपादयति-- जहनाम कोइ मिच्छो, नगरगुणे बहुविहे वि याणंतो। न चपइ परिकहेउं, ओमाइ तर्हि असंतीए / यथानाम कश्चिन म्लेच्छो नगरगुणान् सदननिवासादीन् बहुविधान् - अनेकप्रकारान् अरण्यगतः सन् अन्यम्लेच्छेभ्यो न शक्रोति परिकथयितुम्, कुतो निमित्तादित्यत आह- उपमायां तत्रासत्यां तद्विषये उपमाया अभावादिति भावः एष गाथाक्षरार्थः / भावार्थः कथानकादवसेयः, तचेदम्- "एगो महारण्णवासी मिच्छो रण्णे-चिट्ठइ / इतो य एगो राया आसेण अवहरितो तं अडविं पवेसितो तेण दिह्रो / सक्कारेऊण राजपयं नीतो। रण्णा वि सो नगरमाणीतो पच्छा उवगारि त्ति गारवमुवचरित्ता जह राया तह चिट्ठइ / धवलघराइ वि भोगेणं विभासा। कालेण रणं सरिउमाढत्तो आरण्णिगा पुच्छंति केरिसं नगरं ति, सो वि याणति वितत्थोवमाभावा न सक्कइ नगरगुणा परिकहेउंएष दृष्टान्तः अयमर्थोपनयःइय सिद्धाणं सोक्खं, अणोवम नत्थि तस्स ओवम्म / किंचि विसेसेणेत्तो, सारिक्खमिणं सुणह बोच्छं / इति--एवमुक्तेन प्रकारेण सिद्धानां सौख्यमनुपमं वर्तते / किमित्यत आह-यतो नास्ति तस्य औपम्यम् उपमीयमानता उपमानासम्भवात्। तथाऽपि चात्मनः प्रतिपत्तये किंचिद्विशेषेण 'एत्तो' त्ति... आर्षत्वादस्य सादृश्यमिदं वक्ष्यमाणलक्षणं शृणुत तदहं वक्ष्ये इति / प्रतिज्ञातमवे निर्वाहयतिजह सव्वकामगुणियं, पुरिसो भोत्तण भोयणं कोइ। तण्डाछुहाविमुक्को, अच्छेज्ज जहा अमियतित्तो / / यथेत्युदाहरणोपन्यासार्थः सर्वकामगुणितं सकलसौन्दर्यसंस्कृतं भोजनं भुज्यते इति भोजनं कृद्रहुलमिति वचनात् कर्मण्यनट, कश्चित् पुरुषो भुक्त्वा तृट्क्षुद्विमुक्तः सन्यथा आसातः अमृततृप्तः आबाधारहितत्वात् इह च रसनेन्द्रियमधिकृत्येष्टविषये प्राप्ता औत्सुक्यविनिवृत्तेः सुखदर्शनं सकलेन्द्रियार्थावाप्तया शेषौत्सुक्यनिर्वृत्त्युपलक्षणणार्थः / अन्यथा बाधान्तरसम्भवतः सुखाभावः स्यात् सर्वबाधाविगमेन वात्र प्रयोजनम् / उक्तं च "वेणुवीणामृदङ्गादि-समायुक्तेन हारिणा। ग्लाघ्यस्मरकथाबद्ध-गीतेन स्तिमितः सदा // 1 // कुट्टिमादौ विचित्राणि, दृष्ट्वा रूपाण्यनुत्सुकः / लोचनानन्ददायीनि, लीलावन्ति स्वकानि हि // 2 // अम्लानगुरुकर्पूर-गन्धमाघ्राय निस्पृहः / नानारससमायुक्तं, मुक्त्वाऽन्नमिह मात्रया // 3 // पीत्वोदकं च तृप्तात्मा, स्वादयन् स्वादिमं शुभम् / मृदुकूलासमाक्रान्त-दिव्यपर्यङ्कसंस्थितः // 4|| सहसाम्भौदसंशब्द-श्रुतेर्भयघनं भृशम् / इष्टभार्यापरिष्वक्त-स्तवनान्तेऽथवा नरः // 5 // औत्पातिकव्याख्यातो वेचित्र्यमिति न पुनरुक्तिः।