________________ सिद्ध 542- अभिधानराजेन्द्रः - भाग 7 सिद्ध ल' गाहा, केवलज्ञानोपयुक्ताः सन्तः न त्वन्तः करणोपयुक्ताः भावतस्तदभावात्, जानन्ति 'सर्वभावगुणभावान्' समस्तवस्तुगुणपर्यायान्, तत्र गुणाः- सहवर्तिनः पर्यायास्तुक्रमवर्तिन इति, तथा पश्यन्ति सर्वतः खलु-सर्वत एवेत्यर्थः केवलदृष्टिभिरनन्ताभिः-कवलदर्शनरनन्तैरित्यर्थः, अनन्तत्वात् सिद्धानामनन्तविषयत्वाद्वा दर्शनस्य केवलदृष्टिभिरनन्ता-भिरित्युक्तम्, इह चादी ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थमिति // 12|| अथ सिद्धानां निरुपमसुखतां दर्शयितुमाह- ‘ण वि अत्थि' गाहा व्यक्ता, नवरम् 'अव्वाबाह' ति-विविधा आबाधा व्याबाधा तन्निषेधादव्याबाधा तामुपगतानां प्राप्तानामिति // 13 // कस्मादेवमित्याह-'जं देवाणं गाहा, यतो यस्माद्देवानाम्-अनुत्तरसुरान्तानां सौख्यम्-त्रिकालिकसुखं सद्धिया-अतीतानागतवर्तमानकालेन पिण्डितम्-गुणितं सर्वाद्धापिण्डित्तं, तथाऽनन्तगुणमिति, तदेवं प्रमाणं किलासद्भावकल्पनयैकैकाकाशप्रदेशे स्थाप्यत इत्येवं सकललोकालोकाकाशानन्तप्रदेशपूरणेनानन्तं भवति, न च प्राप्नोति मुक्तिसुखम्-नैव मुक्तिसुखसमानतां लभते, अनन्तानन्तत्वात्सिद्धसुखस्य, (किंविधं देवसुखमिति 'यग्गवग्ग' शब्दे षष्ठे भागे गतम्।) औ० / खण्डखण्डैः खण्डितं सिद्धसुखं तदीयानन्तानन्ततमखण्डसमतामपि न लभत इत्यर्थः, ततो नास्ति तन्मानुषादीनां सुखं यत्सिद्धानामिति प्रकृतम् // 14 // सिद्धसुखस्यैवोत्कर्षणाय भङ्गयन्तरेणाह- "सिद्धस्स' गाहा, सिद्धभ्य-मुक्तस्य सम्यन्धी सुख:- सुखानां सत्को राशिः- समूहः सुखसङ्घात इत्यर्थः, सर्वाद्धापिण्डितः सर्वकाल-समयगुणितो यदि भवेद, अनेन चास्य कल्पनामात्रतामाह, सोऽनन्तवर्गभक्तः- अनन्तवर्गापवर्तितः सन्समीभूत एवेति भावार्थः, सर्वाकाशे' लोकालोकरूपे न मायात्, अपमत्र भावार्थः- इह किल विशिष्टाहादरूपं सुखं गृह्यते, ततश्च यत आरम्भ शिष्टानां सुखशब्दप्रवृत्तिस्तमालादमवधीकृत्य एकैकगुण्वृद्धित्तारतम्येन लावदसावालादो विशिष्यते यावदनन्तगुणवृद्ध्या निरतिशयनिष्ठां गतः, ततश्चासावत्वन्तोपमातीतैकान्तिकौत्सुक्यविनिवृत्तिरूपः स्तिमिततममहोदधिकल्पश्चरमाबाद एव सदा सिद्धानां भवति, तस्माचारात्प्रथमाचोर्ध्वमथान्तरालवर्तिनो ये तारतम्येनाहादविशेषास्ते सर्वाकाशप्रदेशराशेरपि भूयांसो भवन्तीत्यतः किलोक्तम् –'सव्यागासे ण माएज' त्ति अन्यथा प्रति-नियतदेशावस्थितिः कथं तेषामिति सूरयोऽभिदधतीति // 15 // अस्य च वृद्धोक्तस्याधिकृतगाथाविवरणस्वायं भावार्थः- य एते सुखभेदास्ते सिद्धसुखपर्यायतया व्यप्रदिष्टाः, तदपेक्षया तस्या क्रमेणोत्कृष्यमाणस्यानन्ततमस्थानवर्तित्वेनोपचारात्, तद्राशिश्च किलासद्भावस्थापनया सहस्रं समयराशिस्तु शतं, सहस्रं च शतन गुणितं जालं लक्षं, गुणनं च कृतं सर्वसमयसम्बन्धिनां सुखपर्यायाणां मीलनार्थम्। तथाऽनन्तराशिः किल दश, तद्धर्गश्च शतं, तेनापवर्तितं लक्षं जातं सहस्रमेय, अतः पूज्यैरुक्तम्- 'समीभूत एये त्ति भावार्थ इति। यचेह सुखराशेर्गुणनपवर्तनं च तदेवं सम्भावयामः- यत्र किलानन्तराशिना गुणितेऽपि सति अनन्तवर्गेणानन्तानन्तकरूपेणातीव महास्यरूपेणापवर्तिते किञ्चिदेवशिष्यते, स राशिरतिमहान्, ततश्च सिद्धसुखराशिमहानिति बुद्धिजन नार्थ शिष्यस्य तस्यैव वा, गणितमार्गे व्युत्पत्तिकरणार्थमिति / अन्ये पुनरिमां गाथामेव व्याख्यान्ति-सिद्धसुखपर्यायराशिः नमःप्रदेशाग्रगुणितनभःप्रदेशाग्रेप्रमाणंः, तत्परिमाणात्वात् सिद्धसुखपर्यायाणां, सर्वाद्धापिण्डितः- सर्वसमयसम्बन्धी सङ्कलितः सन्, स चानन्तैः; अनन्तश इत्यर्थः, वगैः वर्गमूलैर्भक्तः- अपवर्तितः; अत्यन्तं लघुकृत इत्यर्थः; यथा किल सर्वसमयसम्बन्धी सिद्धसुखराशिः पञ्चषष्टिः सहस्राणि पञ्च शतानि षत्रिंशच्चेति (65536) स च वर्गेणापवर्तितः सन् जोते द्वे शते षट्पञ्चाशदधिके (256) सोऽपि स्ववर्गापवर्तितो जाताः षोडशः ततश्चत्वारः ततो द्वावित्येवमतिलघूकृतोऽपि सर्वाकाशे न मायाद्, एतदेवाह- 'सव्वायासे न माएज्ज' त्ति- अथ सिद्धसुखस्यानुपमतां दृष्टान्तेनाह- 'जह' गाहा, पूर्वार्धं व्यक्तं न चएह' त्ति-न शक्रोति परिकथयितुंनगरगुणानरण्यमागतोऽरण्यवासिम्लेच्छेभ्यः कुत इत्याह उपमायां त्वत्र नगरगुणेष्वरण्ये वाऽसत्यामिति, कथानकं पुनरेवम्"म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः / अन्यदा तत्र भूपालो, दुष्टाश्वेन प्रवेशितः / / 1 / / म्लेच्छेनासौ नृपो दृष्टः, सत्कृतश्च यथोचितम् / प्रापितश्च निजं देशं, सोऽपि राज्ञा निजं पुरम् // 2 // ममायमुपकारीति, कुतो राज्ञाऽतिगौरवात् / विशिष्टभोगभूतीनां, भाजनं जनपूजितः / / 3 / / ततः प्रासादशृङ्गेषु, रम्येषु काननेषु च / वृतो बिलासिनीसाथै-र्भुङ्क्ते भोगसुखान्यसौ / / 4 / / अन्यदा प्रावृषः प्राप्तौ, मेघाडम्बरमण्डितम् / व्योम दृष्ट्वा ध्वनि श्रुत्वा, मेघानां स मनोहरम् / / 5 / / जातोत्कण्ठो दृढं जातो-ऽरण्यवासगमं प्रति / विसर्जितश्च राज्ञाऽपि, प्राप्तोऽरण्यमसौ ततः // 6 // पृच्छन्त्यरण्यवासास्तं, नगरं तात ! कीदृशम् ? / स स्वभावान् पुनः सर्वान्, जानात्येव हि केवलम् / / 7 / / न शशाक तकां तेषां, गदितुं स कृतोद्यमः। वने वनेचराणां हि, नास्ति सिद्धोपमा यतः // 8 // " 16 / अथ दान्तिकमाह- 'इय' गाहा, इति- एवम्-अरण्ये नगरगुणा इवेत्यर्थः, सिद्धानां सौख्यमनुषमं वर्तते, किमित्याह-यतो नास्ति तस्यौपम्यं, तथापि बालजनप्रतिपत्तये किञ्चिद्विशेषेणाह'एत्तो' त्ति आर्षत्वादस्य-सिद्धिसुखस्य इतो वाऽनन्तरम् औपम्यम्उपमानम् इदम्-- वक्ष्यमाणं शृणुत वक्ष्ये इति / / 17 / / 'जग' गाहा, 'यथे' त्युदाहरणोपन्यासार्थः सर्वकामगुणितं- सञ्जातसमस्तकमनीयगुणं, शेष व्यक्तम्, इह च रसनेन्द्रियमेवाधिकृत्येष्ट-विषयप्राप्त्या औत्सुक्यनिवृत्त्या सुखप्रदर्शनं सकलेन्द्रियार्थावाप्त्याऽशेषौत्सुक्यनिवृत्युपलक्षणार्थम्, अन्यथा बाधान्तरसम्भवात् सुखार्थाभाव इति / / 8 / / 'इय' गाहा, 'इय' एवं सर्वकालतृप्ताः सश्वद्भावत्वात् अतुलं निर्वाणमुपागताः सिद्धाः सर्वदा सकलौत्सुक्यनिवृत्तेः, यतश्चैवमतः शाश्वतम् - सर्वकालभापि अर्याबाध' व्यायाध वर्जितं सुखं प्राप्ताः सु