________________ सिद्ध ८४१-अभिधानराजेन्द्रः - भाग 7 सिद्ध संठाणमणित्थंथं, जरामरणविप्पमुक्काणं / / 8 / / जत्थ य एगो सिद्धो, तत्थ अणता भवक्खयविमुक्का / अण्णोण्णसमवगाढा, पुट्ठा सव्वे य लोगते || फुसइ अणंते सिद्धे, सव्वपएसेहिणियमसो सिद्धा। ते वि असखेज्जगुणा, देसपएसेहिं जे पुट्ठा // 10 // असरीरा जीवघणा, उवउत्ता दंसणे य णाणे य / सागारमणागारं, लक्खणमेयं तु सिद्धाणं // 11 // केवलणाणुवउत्ता, जाणंती सव्वभावगुणभावे / पासंति सव्वओ खलु, केवलदिट्ठी अणंताहिं // 12|| ण वि अस्थि माणुसाणं, तं सोक्खं णवि य सव्वदेवाणं / जं सिद्धाणं सोक्खं, अव्वाबाहं उवगयाणं // 13 // जं देवाणं सोक्खं, सव्वद्धापिंडियं अणतगुणं / ण य पावइ मुत्तिसुहं, णंताहि वग्गवम्गूहि // 14 // सिद्धस्स सुहो रासी, सव्वद्धापिंडिओ जह हवेज्जा। सोऽणंतवग्गभइओ, सव्वागासे ण माएजा // 15 // जह णाम कोइ मिच्छो, नगरगुणे बहुविहे वियाणंतो / न चएइ परिकहेउं, उवमाएँ तहिं असंतीए // 16 // इय सिद्धाणं सोक्ख, अणोवमं पत्थि तस्स ओवम्म / किंचि विसेसेणेत्तो, ओवम्ममिणं सुणह वोच्छं // 17 // जह सव्वकामगुणियं, पुरिसो भोत्तूण भोयणं कोइ / तण्हाछुहाविमुक्को, अच्छेञ्ज जहा अमियतित्तो // 18|| इय सव्वकालतित्ता, अतुलं निव्वाणमुवगया सिद्धा। सासयमव्वाबाह, चिटुंति सुही सुहं पत्ता / / 16 / / सिद्धा ति य बुद्ध त्ति, य पारयग त्ति य परंपरगय त्ति / उम्मुक्ककम्मकवया, अजरा अमरा असंगा य // 20 // णिच्छिण्णसव्वदुक्खा, जाइजरामरणबंधणविमुक्का। अव्वाबाहं सुक्खं, अणुहोंती सासयं सिद्धा // 21 // अतुलसुहसागरगया, अव्वाबाहं अणोवमं पत्ता / सव्वमणागयमद्धं, चिटुंति सुही सुहं पत्ता // 22 // 'कहिं इत्यादिश्लोकद्वयं, व प्रतिहताः- व प्रस्खलिताः सिद्धा | मुक्ताः ? तथा व सिद्धाः प्रतिष्ठिताव्यवस्थिता इत्यर्थः? तथा क्व बोन्दि-शरीरं त्यक्त्वा ? तथा क्व गत्वा 'सिज्झई ति-प्राकृतत्वात् 'से हु चाइ त्ति वुच्चई' त्यादिवत् सिध्यन्तीति व्याख्येयमिति / / 1 / / अलोके–अलोकाकाशास्तिकाये प्रतिहताः- खलिताः सिद्धा-मुक्ताः, प्रतिस्खलन चेहानन्तर्यवृत्तिमात्रं, तथा लोकाग्रे च-पञ्चास्तिकायात्मकलोकमूर्धनि च प्रतिष्ठिता- अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा इह-मनुष्यक्षेत्रे बोन्दि-तनुपरित्यज्य तत्रेति-लोकाग्रे गत्वा सिज्झइ' त्ति-सिध्यन्ति- निष्ठितार्था भवन्ति ॥२।किञ्ज- 'ज सठाणं' गाहा व्यक्ता, नवर प्रदेशघनमिनि विभागेन रन्ध्रपूरणादिति, 'तहिं त्ति- | सिद्धिक्षेत्रं 'तस्स' ति सिद्धस्येति // 3 // तथा चाह- 'दीहं वा' गाहा, दीर्घ वा पञ्चधनुःशतमानं ह्रस्वं वा-हस्तद्वयमानं, वाशब्दान्मध्यमं वा, यचरमभवे भवेत्संस्थानं ततः- तस्मात् संस्थानात् त्रिभागहीना त्रिभागेन शुषिरपूरणात् सिद्धानामवगाहना--अवगाहन्ते-अस्यामवस्थायामिति अवगाहना स्वावस्थैवेति भावः, भणिता-उक्ता जिनैरिति // 4 // अथावगाह-नामेवोत्कृष्टादिभेदत आह- "तिण्णि सये' त्यादि, इयं चं पञ्चधनुःशतमानानां 'चत्तारिये' त्यादि तु सप्तहस्तानाम् ‘एगा ये' त्यादि द्विहस्तमानानामिति / इयं च त्रिविधाऽप्यूज़मानमाश्रित्यान्यथा सप्तहस्तमानानां च उपविष्टानां सिद्ध्यतामन्यथाऽपि स्यादिति। आक्षेपपरिहारौ पुनरेवमत्र-ननु नाभिकुलकरः पञ्चविंशत्यधिकपञ्चधनुः शतमानः प्रतीत एव, तद्भार्याऽपि मरुदेवी तत्प्रमाणैव, 'उच्चत्तं चेव कुलगरेहिं सम' मिति वचनात्, अतस्तदवगाहना उत्कृष्टावगाहनातोऽधिकतरा प्राप्नोतीति कथं न विरोधः ? अत्रोच्यतेयद्यप्युचत्वं कुलकरतुल्य तद्योषितामित्युक्तं, तथापि प्रायिकत्वादस्य स्त्रीणां च प्रायेण पुम्भयो लघुतरत्वात् पञ्चेवधनुःशतान्यसावभवत्, वृद्धकाले वा सङ्कोचात् पञ्चधनु:- शतमाना सा अभवद, उपविष्टा वाऽसौ सिद्धेति न विरोधः। अथवा- बाहुल्यापेक्षमिदमुत्कृष्टावगाहनामानं, मरुदेवी त्वाश्चर्यकल्पेत्येवमपि न विरोधः, ननुजघन्यतः सप्तहस्तोच्छ्रितानामेव सिद्धिः प्रागुक्ता, तत्कथं जघन्यावगाहना अष्टाङ्-गुलाधिकहस्तप्रमाणा भवतीति? अत्रोच्यते, सप्तहस्तोच्छ्रितेष सिद्धिरिति तीर्थङ्करापेक्षं, तदन्ते तु द्विहस्ता अपि कूर्मपुत्रादयः सिद्धाः अतस्तेषां जघन्याऽवसेया, अन्येत्वाहुः सप्तहस्तमानस्य संवर्तिताङ्गोपाङ्गस्य सिद्ध्यतो जघन्यावगाहना स्यादिति // 7 // 'ओगाहणाए' गाहा व्यक्ता, नवरम् 'अणित्थंथं' मि अमुं प्रकारमापन्नमित्थमित्थं तिष्ठतीति इत्थंस्थम् न इत्थंस्थम् अनित्थंस्थं न केनचिल्लौकिकप्रकारेण स्थितमिति / / अथैते किं देशभेदेन स्थिता उतान्यथेत्यस्यामाशङ्कायामाह- 'जत्थ य' गाहा, यत्र च-यत्रैव देशे एकः सिद्धोनिवृत्तस्तत्र देशे अनन्ताः किम ? - 'भवक्षयविमुक्ता' इतिभवक्षयेण विमुक्ता भवक्षयावमुक्ताः , अनेन स्वेच्छया भवावतरणशक्तिमत्सिद्धवयवच्छेदमाह / अन्योऽन्यसमवगाढाः तथाविधाचिन्त्यपरिणामत्वाद्धर्मास्ति-कायादिवदिति, स्पृष्टाः- लग्नाः सर्वे च लोकान्ते, अलोकेन प्रतिस्खलितत्वाद्, अत एव 'लोयग्गे य पइट्ठिया' इत्युक्तमिति // 6 // तथा 'फुसई' गाहा, स्पृशत्यनन्तान्सिद्धान् सर्वप्रदेशैरात्मसम्बन्धिभिः 'णियमसो' त्ति-नियमेन सिद्धः, तथा तेऽप्यसंख्येयगुणा वर्तन्ते देशैः प्रदेशैश्च ये स्पृष्टाः,केभ्यः? - सर्वप्रदेशस्पृष्टेभ्यः, कथम् ?-सर्वात्मप्रदेशैस्तावदनन्ताः, स्पृष्टाः, एकसिद्धावगाहनायामनन्तानामवगाढत्वात्, तथैकैकदेशेनाप्यनन्ताः एवमेकैकप्रदेशेनाप्यनन्ता एव नवर देशो-व्यादिप्रदेशसमुदायः प्रदेशस्तुनिर्विभार्गोऽश इति। सिद्धश्चासख्येयदेशप्रदेशात्मकः, ततश्च मूलानन्तकमसंख्येयैर्देशानन्तकैरसंख्यैरेव च प्रदेशानन्तकैर्गुणितं यथोक्तमेव भवतीति // 10 // अथ सिद्धानेव लक्षणत आह-'असरीरा' गाहा, उक्ताथा, संग्रहरूपत्वाचास्या न पुनरुक्तत्वमिति / / 11 / / 'उवउत्ता दसणे यणाणे य' त्तियदुक्तं, तत्र ज्ञानदर्शनयोः सर्वविषयतामुपदर्शयन्नाह-"केव