________________ सिद्ध 836 - अभिधानराजेन्द्रः - भाग 7 सिद्ध सत्तरयणीओ उक्कोसेणं पंचधणुस्सए सिज्झंति / जीवा णं भंते ! सिज्झमाणा कयरम्मि आउए सिझंतिः, गोयमा ! जहण्णेणं साइरेगट्ठवासाउए उक्कोसेणं पुवकोडियाउए सिझंति / अत्थि णं भंते ! इमीसे रयणप्पहाए पुढवीए अहे सिद्धा परिवसंति? णो इणढे समठे, एवं०जाव अहे सत्तमाए। अस्थि णं मंते ! सोहम्मस्स कप्पस्स अहे सिद्धा परिवसंति? णो इणढे समढे, एवं सव्वेसिं पुच्छा, ईसाणस्स सणंकुमारस्स० जाव अबुयस्स गेविजविमाणाणं अणुत्तरविमाणाणं / अस्थि णं भंते ! ईसीपब्भाराए पुढवीए अहे सिद्धा परिवसंति? णो इणट्टे समढे, से कहिं खाइ णं भंते ! सिद्धा परिवसंति ? गोयमा! (औ०) ईसीपब्माराए णं पुढवीए सीयाए जोयणमि लोगते, तस्स जोयणस्स जे से उवरिल्ले गाउए तस्स णं गाउअस्स जे से उवरिल्ले छभागिए तत्थ णं सिद्धा भगवंतो सादीया अपज्जवसिया अणेगजाइजरामरणजोणिवेयण-संसारकलंकलीभावपुणब्मवगमवासवसहीपवंचसमइकंता सासयमणागयमद्धं चिट्ठति / (सू० 434) 'से णं पुव्वामेव सन्निस्से' त्यादि, अस्यायमर्थः- स-केवली णमित्यलङ्कारे, पूर्वमेव-आदावेव योगनिरोधावस्थायाः संज्ञिनो मनोलब्धिमतः पञ्चेन्द्रियस्येति स्वरूपविशेषणं, यतः संज्ञी पञ्चेन्द्रिय एव भवति, 'पजत्तस्स' ति-मनः पर्याप्त्या पर्याप्तस्य, तद्वन्यस्य मनोलब्धिमतोऽपि मनसोऽभाव एवेति पर्याप्तस्येत्युक्तं स च मध्यमादिमनोयोगोऽपि स्यादित्याह- 'जहण्णजोगिस्स' ति जघन्यमनोयोगवतः 'हेट्ठ' त्ति अधो यो मनोयोग इति गम्यते, जघन्यमनोयोगसमानो यो न भवतीत्यर्थः, मनोयोगश्च मनोद्रव्याणि तद्व्यापारश्चेति, जघन्यमनोयोगाधोभागवर्तित्वमेव दर्शयन्नाह- 'असंखेज्जगणुपरिहीणं' ति असंख्यातगुणेन परिहीणो यः स तथा तं जधन्यमनोयोगस्यासंख्येयभागमात्रं मनोयोगं निरुणद्धि ततः क्रमेणानया मात्रया समये समये तं निरुन्धानः, सर्वमनोयोगं निरुणद्धि, अनुत्तरेणाचिन्त्येन अकरणवीर्येणेति, एतदेवाह- 'पढम मणोजोगं निरंभइ' त्ति प्रथम-शेषवागादियोगापेक्षया प्राथम्येन आदितो मनोयोगं निरुणद्धीति / उक्तं च"पञ्जत्तमेत्तसन्नि-स्स जत्तियाई जहन्नजोगिस्स ! होति मणोदव्वाई, तव्वावारो य जम्मत्तो / / 1 / / तदसंखगुणविहीणं, समए समए निरुभमाणो सो। मणसो सव्वनिरोह, करे असंखेज्जसमएहिं / / 2 / / " ति, एवमन्यदपि सूत्रद्वयं नेयम्, 'अजोगयं पाउणइ' त्ति अयोगतां प्राप्नोतीति, 'ईसिंहस्सपंचक्खरुच्चारणद्धाए' त्ति 'ईसिं ति-ईषत्स्पृष्टानि हस्वानि यानि पञ्चाक्षराणि तेषां यदुचारणं तस्य याऽद्धा-कालः सा तथा तस्याम्, इदं चोचारण न विलम्बितं द्रुत वा, किन्तु मध्यममेव गृह्यते, यत आह- "हस्सक्खराई मज्झेण, जेण कालेण पंच भण्णंति / अच्छइ सेलेसिगओ, तत्तियमेत्तं तओ कालं ||1||" शैलेशोमेरुस्तस्येव स्थिरतासाम्याद्या अवस्था या शैलेशी अथवा शीलेशःसर्वसंवररूपचारित्र-प्रभुस्तस्येयमवस्था योगनिरोधरूपेति शैलेशी ता प्रतिपद्यते, ततः 'पुव्वरइयगुणसेढीयं च णं' ति--पूर्व-शैलेश्यवस्थायाः प्राग रचिता गुणश्रेणीक्षपणोपक्रमविशेषरूपा यस्य तत्तथा, गुणश्रेणी चैवम्- सामान्यतः किल कर्म बह्वल्पमल्पतरमल्पतमं चेत्येवं निर्जरणाय रचयति, यदा तु परिणामविशेषात्तत्र तथैव रचिते कालान्तरवेद्यमल्पं बहु बहुतरं बहुतमं चेत्येवं शीघ्रतरक्षपणाय रचयति तदा सा गुणश्रेणीत्युच्यते, स्थापना चैवम्- 'कम्म' ति वेदनीयादिकं भवोपग्राहि 'तीसे सेलेसिभद्धाए' त्ति-तस्यां शैलेश्यद्धायां शैलेशीकाले क्षपयन्निति योगः, एतदेव विशेषेणाह'असंखेज्जाहिं गुणसेढीहिं' ति-असंख्याताभिर्गुणश्रेणीभिः शैलेश्यवस्थाया असंख्यातसमयत्वेन गुणश्रेण्यप्यसंख्यातसमया ततः तस्याः प्रतिसमयभेदकल्पनया असंख्याता गुणश्रेणयो भवन्ति, अतोऽसंख्याताभिः गुणश्रेणीभिरित्युक्तम्, असंख्यातसमयैरिति हृदयम्, 'अणति कम्मसे खवयंतो' त्ति-अनन्तपुद्गलरूपत्वादनन्तास्तान् कर्माशान् भवोपग्राहिकर्मभेदान् क्षपयन्निर्जरयन् 'वेयणिज्जाउयणामगोए' तिवेदनीयं सातादि आयुः-- मनुष्यायुष्कं नाममनुष्यगत्यादि गोत्रम् -उच्चै गर्गोत्रम् ‘इचेते' ति-इत्येतान् ‘चत्तारि' त्ति चतुरः 'कम्म से' तिकाशान् -मूलप्रकृतीः 'जुगवं खवेइ' ति-योगपद्येन निर्जरयतीति। एतचैता भाष्यगाथा अनुश्रित्य व्याख्यातम्, यदुत'तदसंखेजगुणाए, सेढीए विरइयं पुरा कम्मं / समए समए खवयं, कम्मं सेलेसिकालेणं // 1 // सव्वं खवेइ तं पुण, निल्लेवं किंचिदुवरिमे समए / किंचिच होइ चरमे, सेलेसीए तयं वोच्छं / / 2 / / मणुयगइजाइतसबा-यरं च पज्जत्तसुभगमाएजं / अन्नयरवेयणिज्जं, नराउमुच्चं जसो नामं / / 3 / / संभवओ जिणनाम, नराणुपुव्वी य चरिमसमयम्मि। सेसा जिणसंताओ, दुचरिमसमयम्मि निट्ठति // 4 // " इति।'सव्वाहिं विप्पयहणाहिं ति-सर्वाभिः-अशेषाभिः-विशेषेणविविध प्रकर्षतो हानयः- त्यागा विप्रहाणयो व्यक्त्यपेक्षया बहुवचनं ताभिः, किमुक्तं भवति ?-सर्वथा परिशाटनं नतु यथा पूर्व सङ्घातपरिशाटाभ्यां देशत्यागतः 'विप्पजहित्त' ति विशेषेण प्रहायपरित्यज्य ‘उज्जूसेढिपडिवन्ने' त्ति ऋजुः- अवका श्रेणिः-आकाशप्रदेशपतिस्ताम् ऋजुश्रेणिं प्रतिपन्नः-आश्रितः 'अफुसमाणगइ' त्ति अस्पृशन्ती सिद्ध्यन्तरालप्रदेशान् गतिर्यस्य सोऽस्पृशगतिः, अन्तराल-प्रदेशस्पर्शन हि नैकेन समयेन सिद्धिः, इष्यते च-तत्रैक एव समयः, य एव चायुष्कादिकर्मणां क्षयसमयः स एव निर्वाणसमयः, अतोऽन्तराले समयान्तरस्याभावादन्तरालप्रदशानामसंस्पर्शनमिति / सूक्ष्मश्चायमर्थः केवलिगभ्यो भावत इति, 'एगेणं समएणं' ति-कुत इत्याह- 'अविगहेणं' ति-अविग्रहेण-वक्ररहितेन वक्र एव हि समयान्तरं लगति प्रदेशान्तरं च स्पृशतीति, 'उड्ढे गंता' ऊर्ध्वं गत्वा 'सागारोवउत्ते, ति-ज्ञानोपयोगवान् सिध्यति कृतकृत्यतां लभते इति / गतमानुषाङ्गि कम् / अथ प्रकृतमाह- किं च प्रकृतम् ? से जे इमे गामागर० जाव सन्निवेसेसु मणुया हवंति सव्वकामवि