________________ सिद्ध 832- अभिधानराजेन्द्रः - भाग 7 सिद्ध षाधिकाः 6, तेभ्योऽपि भरतैरावतसिद्धाः संख्येयगुणाः 7, तेभ्योऽपि महाविदेहसिद्धाः संख्येयगुणाः 8, तथा पुष्करवरद्वीपाढे हिमवच्छिखरिसिद्धाः, सर्वस्तोकाः 1, तेभ्योऽपि महाहिमवद्रुक्मिसिद्धाः संख्येयगुणाः 2, तेभ्योऽपि निषधनीलवसिद्धाः संख्येयगुणाः३, तेभ्योऽपि हैमवतैरण्यवतसिद्धाः संख्येयगुणाः 4, तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः संख्येयगुणाः 5, तेभ्योऽपि हरिवर्षरम्यकसिद्धाः विशेषाधिकाः 6, तेभ्योऽपि भरतैरावतसिद्धाः संख्येयगुणाः 7, स्वस्थानमिति कृत्वा, तेभ्योऽपि महाविदेहसिद्धाः संख्येयगुणाः, क्षेत्रबाहुल्यात्, स्वस्थानाच्च 8, सम्प्रति त्रयाणामपि समवायेनाल्पबहुत्वमुच्यते-सर्वस्तोका जम्बूद्वीपे हिमवच्छिखरिसिद्धाः 1, तेभ्योऽपि हैमवतैरण्यवतसिद्धाः संख्येयगुणाः 2, तेभ्योऽपि महाहिमवद्रुक्मिसिद्धाः संख्येयगुणाः 3, तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः संख्येयगुणाः 4, तेभ्योऽपि हरिवर्षरम्यकसिद्धाः संख्येयगुणाः 5, तेभ्योऽपि निषधनीलवत्सिद्धाः संख्येयगुणाः 6, तेभ्योऽपिधातकीखण्डहिमवच्छिखरिसिद्धाः विशेषाधिकाः, स्वस्थाने तु परस्परं तुल्याः 7, ततो धातकीखण्डमहाहिम-वद्रुक्मिपुष्करवस्वीपार्द्धहिमवच्छिखरिसिद्धाः संख्येयगुणाः, स्वस्थाने तु चत्वारोऽपि परस्परंतुल्यांक, ततो धातकीखण्डनिषधनीलवत्सिद्धाः पुष्करवरद्वीपार्द्धमहाहिमवद्रुक्मिसिद्धाश्च संख्येयगुणाः स्वस्थाने तु परस्परं तुल्यां , ततो धातकीखण्डहैमवतैरण्यवतसिद्धा विशेषाधिकाः 10, तेभ्योऽपि पुष्करवरद्वीपार्द्धनिषधनीलवत्सिद्धाः संख्येयगुणाः 11, ततो धातकीखण्डदेवकुरुत्तरकुरुसिद्धाः संख्येयगुणाः 12, तेभ्योऽपि धातकीखण्ड एव हरिवर्षरम्यकसिद्धा विशेषाधिकाः 13 ततः, पुष्करवरद्वीपार्द्धहैमवतैरण्यवतसिद्धाः संख्येयगुणाः 14, तेभ्योऽपि पुष्करवरद्वीपार्द्ध एव देवकुरूत्तरकुरुसिद्धाः संख्येयगुणाः 15, तेभ्योऽपि तत्रैव हरिवर्षरम्यकसिद्धा विशेषाधिकाः 16, तेभ्योऽपिजम्बूद्वीपभरतेरावतसिद्धाः संख्येयगुणाः 17, तेभ्योऽपि धातकीखण्डसत्कभरतैरावतसिद्धाः संख्येयगुणाः 18, तेभ्योऽपि पुष्करवरद्वीपार्द्धभरतैरावतसिद्धाः संख्येयगुणाः 16, तेभ्योऽपि जम्बूद्वीपेविदेहसिद्धाः संख्येयगुणाः 20, ततो धातकीखण्डविदेहसिद्धाः संख्येयगुणाः 21, ततोऽपि पुष्करवरद्वीपार्द्ध विदेहसिद्धाः संख्येयगुणाः 22, इदंच क्षेत्रविभागेनाल्पबहत्वंसिद्धप्राभृतटीकातो लिखितम् / गतं क्षेत्रद्वारम् // अधुना कालद्वारम्- तत्रावसर्पिण्या संहरणत एकान्तदुषमासिद्धाः सर्वस्तोकाः, इतो दुष्षमासिद्धाः संख्येयगुणाः तेभ्यः सुषमदुष्षमासिद्धा असंख्येयगुणाः कालस्यासंख्येयगुणत्वात्, तेभ्योऽपि सुषमासिद्धा विशेषाधिकाः, तेभ्योऽपि सुषमसुषमासिद्धा विशेषाधिकाः, तेभ्योऽपि दुष्षमसुषमासिद्धाः संख्येयगुणाः, उक्तं च- "अइदूसमाइ थोव संख असंखा दुवे विसेसहिया। दूसमसुसमा संखागुणा उ ओसप्पिणीसिद्धा / / 1 / / '' एवमुत्सर्पिण्यामपि द्रष्टव्यम्, तथा चोक्तम्- "अइदूसमाइ थोवा, संखअसंखा उ दुन्नि संविसेसाः। दूसमसुसमा संखा-गुणा उ उस्सप्पिणीसिद्धा / / 1 / / " सम्प्रत्युत्सर्पिण्यवसप्पिण्योः समुदायेनाल्प बहुत्वमुच्यते-तत्र द्वयोरप्यत्सप्पिण्यवसर्पिण्योरेकान्त दुष्षमासिद्धाः सर्वस्तोकाः, तत उत्सपिण्यां दुषमासिद्धा विशेषाधिकाः, ततोऽवसर्मिण्यां दुष्षमासिद्धाः संख्येयगुणाः, तेभ्योऽपि द्वयोरपि दुष्षमसुषमासिद्धाः संख्येयगुणाः, ततोऽवसर्पिण्यां सर्वसिद्धाः संख्येयगुणाः, तेभ्योऽप्युत्सर्पिणीसर्वसिद्धा विशेषाधिकाः, गतं कालद्वारम्।। सम्प्रति गतिद्वारं तत्र मानुषीभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततो मानुषेभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि नैरयिकेभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिस्त्रीभ्योऽनन्तरागता सिद्धाः संख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिकेभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि देवीभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि देवेभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, उक्तं च- "मणुई मणुया नारय, तिरिक्खिणी तह तिरिक्ख देवीओ। देवाय जहाकमसो, संखेज्जागुणा मुणेयव्वा।।१॥" तथा एकेन्द्रियेभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततः पश्चेन्द्रियेभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तथा वनस्पतिकायभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततः पृथिवीकायेभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, ततोऽप्यप्कायेभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि त्रसकायेभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, उक्तं च"एगिदिएहि थोवा, सिद्धाः पञ्चेन्द्रिएहि संखगुणातरुपुढविआउतसका-इएहि संखागुणा कमसो | // 1 // " तथा चतुर्थपृथिवीतोऽनन्तरागताः सिद्धाः सर्वस्तोकाः, तेभ्यस्तृतीयपृथिवीतोऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि द्वितीयपृथिवीतोऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि पर्याप्तबादरप्रत्येकवनस्पतिभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि पर्याप्तबादरपृथिवीकायेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि पर्याप्तबादराप्कायेभ्योऽनन्तरागताः सिद्धाःसंख्येयगुणाः, तेभ्योऽपि भवनपतिदेवीभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि व्यन्तरीभ्योऽनन्तरागताः सिद्धा संख्येयगुणाः, तेभ्योऽपि व्यन्तरदेवेभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि ज्योतिष्कदेवेभ्योऽनन्तरागताः सि द्धाः संख्येयगुणाः, तेभ्योऽपि ज्योतिष्कदेवीभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि मनुष्यस्त्रीभ्योऽप्यनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि मनुष्येभ्योऽन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि प्रथमनरकपृथिवीतोऽन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिस्त्रीभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि तिर्यगयोनिकेभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि अनुत्तरोपपातिकदेवेभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि वेयकेभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽप्यच्युतदेवलोकादनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि आरणदेवेभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः एवमधोमुखंतावन्नेयं यावत् सनत्कुमारादनन्तरागताः सिद्धाः संख्येयगुणाः, तत ईशानदेवीभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, ततोऽपि सौधर्मदेवीभ्योऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि