________________ सिद्ध 531 - अभिधानराजेन्द्रः - भाग 7 सिद्ध . सौधर्मदेवेभ्यश्च समागत्योपदेशेन हेतुना च सिध्यतां प्रत्येकमुत्कृष्टमन्तरं सङ्ख्येयानि वर्षसहस्राणि जघन्यत एकः समयः, वेदद्वारेपुरुषवेदानामुत्कर्षतोऽन्तरं साधिकं वर्ष, स्त्रीनपुंसकवेदानां प्रत्येक सङ्ख्येयानि वर्षसहस्राणि, पुरुषेभ्य उदृत्य पुरुषत्वेन सिध्यता साधिकं वर्ष, शेषेषु चाष्टसु भङ्गकेषु प्रत्येकं सङ्ख्येयानि वर्षसहस्राणि, जधन्यतः सर्वत्राप्येकः समयः, तीर्थद्वारे-तीर्थकृतां पूर्वसहस्रपृथक्त्वम् उत्कर्षतोऽन्तरे, तीर्थकरीणामनन्तः कालः, अतीर्थकराणां साधिकं वर्ष, नोतीर्थसिद्धानां संख्येयानि वर्षसहस्राणि नोतीर्थसिद्धाः प्रत्येकबुद्धाः, जघन्यतः सर्वत्रापि समयः / उक्तं च- "पुव्वसहस्सपुहत्तं, तित्थकरानंतकाल तित्थगरी / नोतित्थकरा वासाहिगं तु सेसेसु संखसमा॥१।। एएसिंच जहन्नं समओ।" "संखसमंत्ति-सङ्ख्येयानि वर्षसहस्राणि, लिङ्गद्वारेस्वलिङ्गादिषु सर्वेष्वपि जघन्यत एकः समयोऽन्तरम् उत्कर्षतोऽन्यलिङ्गे गृहिलिङ्गे च प्रत्येकं संख्येयानि वर्षसहस्राणि, स्वलिङ्गे साधिकं वर्षम्, चारित्रद्वारे-पूर्वभावमपेक्ष्य सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणामुत्कृष्टमन्तरं साधिकं वर्ष, सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणां सामायिकपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातचारित्रिणां सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराय-यथाख्यातचारित्रिणां च किञ्चि-दूनाष्टादशसागरोपमकोटीकोट्यः, जघन्यतः सर्वत्राप्येकः समयः, बुद्धद्वारे-बुद्धबोधितानामुत्कर्षतोऽन्तरं सातिरेकं वर्ष, बुद्धबोधितानां स्त्रीणां प्रत्येकबुद्धानां च सङ्ख्येयानि वर्षसहस्राणि, स्वयम्बुद्धानां पूर्वसहस्रपृथक्त्वं, जघन्यतः पुनः सर्वत्रापि समयः / उक्तं च - "बुद्धेहिं बोहिया णं, वासहियं सेसयाण संखसमा। पुव्वसहस्सपुहुत्तं, होइ सयंबुद्ध समइयरं // 1 // " 'समइयर' मिति-इतरज्जघन्यमन्तरं समयः, ज्ञानद्वारे मतिश्रुतज्ञानिनामुत्कृष्टमन्तरं पल्योषमासंख्येयभागः, मतिश्रुतावधिज्ञानिनां साधिकं वर्ष, मतिश्रुतमनःपर्यायज्ञानिनां च संख्येयानि वर्षसहस्राणि जघन्यतः सर्वत्रापिसमयः, अवगाहनाद्वारेजघन्यायामुत्कृष्टायां चावगाहनायां यवमध्ये चोत्कृष्टमन्तरं श्रेण्यसंख्येयभागः, अजघन्योत्कृष्टायां साधिकं वर्ष, जघन्यतः पुनः सर्वत्रापि समयः, उत्कृष्टद्वारे--- अप्रतिपतित सम्यक्त्वसामरोपमासंख्येयभागः, संख्येयकालप्रतिपतितानाम-संख्येयकालप्रतिपतितानां च संख्येयानि वर्षसहस्राणि, अनन्तकालप्रतिपतितानां साधिकं वर्ष, जघन्यतः सर्वत्रापि समयः, उक्तं च-उवहिअसंखो भागो, अप्पडिवडियाण सेस संखसमा / वासमहियमणंते, समओ य जहन्नओ होइ ! // 1 // " अन्तरद्वारे-सान्तरं सिध्यतोमनुसमयद्वारे निरन्तरं सिध्यतां गणनाद्वारे एककानामनेकेषां च सिध्यतामुत्कुष्टमन्तरं संख्येयानि वर्षसहस्राणि, जघन्यतः पुनः सर्वत्रापि समयः / गतमन्तरद्वारम्॥ सम्प्रति भावद्वारम्तत्र सर्वेष्वपि क्षेत्रादिषु द्वारेषु पृच्छा, कतरस्मिन् भावे वर्तमानाः सिध्यन्तीति ? उत्तरंक्षायिके भावे, उक्तं च- 'खेताइएसु पुच्छा, वागरणं सव्वहिं खइए / गतं भावद्वारम्॥ सम्प्रत्यल्पबहुत्वद्वारम्-तत्र ये तीर्थकरा ये च जले ऊर्ध्वलोकादौ च चतुष्काः सिध्यन्ति ये च हरिवर्षादिषु सुषमसुषमादिषु च संहरणतो दश दश सिध्यन्ति ते परस्परं तुल्याः, तथैवोत्कर्षतो युगपदेकसमयेन प्राप्यमाणत्वात्, तेभ्यो विंशतिसिद्धाः स्तोकाः, तेषां स्त्रीषु दुष्षमायामेकतमस्मिन् विजये वा प्राप्यमाणत्वात्, तथा चोक्तम् "वीसगसिद्धा इत्थी, हलोगेगॅविजयादिसु अओ चउरो। दसगेहितो थोवा" तैस्तुल्या विंशतिपृथक्त्वसिद्धाः, यतस्ते सर्वाधोलौकिकग्रामेषु बुद्धीबोधितस्त्र्यादिषु वा लभ्यन्ते, ततो विंशतिसिद्धस्तुल्याः, यदुक्तम्-"वीसपुहुत्तं सिद्धा सव्वाहोलोगबुद्धीबोहियाइ अओ वीसगेहिं तुल्ला' क्षेत्रकालयोः स्वल्पत्वात् कादाचित्कत्वेन च सम्भवादिति तेभ्योऽष्टशतसिद्धाः संख्येयगुणाः, उक्त च-- "चउ दसगा तह वीसा, वीसपुहुत्ता य जे य अट्ठसया / तुल्ला थोवा तुल्ला, संखेजगुणा भवे सेसा 111||" गतमल्पबहुत्वद्वारम् / कृताऽनन्तरसिद्धप्ररूपणा। सम्प्रति परम्परसिद्धप्ररूपणा क्रियतेतत्र सत्पदप्ररूपणा पञ्चदशस्वपि क्षेत्रादिषु द्वारेष्वनन्तरसिद्धवदविशेषेण द्रष्टव्या, द्रव्यप्रमाणचिन्तायां सर्वेष्वपि द्वारेषु सर्वत्रैवानन्ता वक्तव्याः, क्षेत्रस्पर्शने प्रागिव, कालः पुनः सर्वत्रापि अनादिरूपोऽनन्तो वक्तव्यः, अत एवान्तरमसम्भवान्न वक्तव्यम् , तदुक्तं द्रव्यप्रमाणम्, कालमन्तरं चाधिकृत्य सिद्धप्राभूते- "परिमाणेण अणंता, कालोऽणाई अणंतओ तेसिं / नत्थि य अंतरकालो" त्ति, भावद्वारमपि प्रागिव, सम्प्रत्यल्पबहुत्वं सिद्धप्राभृतक्रमेणोच्यते-समुद्रसिद्धाः स्तोकाः तेभ्यो द्वीपसिद्धाः संख्येयगुणाः, तथा जलसिद्धाः स्तोकाः तेभ्यः स्थलसिद्धाः संख्येयगुणाः, तथा ऊर्ध्वलोकसिद्धाः स्तोकाः तेभ्योऽधोलोकसिद्धाः संख्येयगुणाः तेभ्योऽपि तिर्यग्लोकसिद्धाः संख्येगुणाः / उक्तं च"सामुद्ददीव जलथल, दुण्हं दुण्हंतुथोवसंखगुणा। उड्डअहतिरियलोए, थोवा संखागुणा संखा // 1 // " तथा लवणसमुद्रसिद्धाः सर्वस्तोकाः तेभ्यः कालोदसमुद्रसिद्धाः संख्येयगुणाः तेभ्योऽपि जम्बूद्वीपसिद्धाः संख्येयगुणाः तेभ्यो धातकीखण्डसिद्धाः संख्येयगुणाः तेभ्योऽपि पुष्करवरद्वीपार्द्धसिद्धाः संख्येयगुणाः, उक्तं च- "लवणे कालोए वा जंबूद्वीवे य धायईसंडे। पुक्खरवरे य दीवे, कमसो थोवा य संखगुणा ||1||" तथा जम्बूद्वीपे संहरणतो हिमवच्छिखरिसिद्धाः सर्वस्तोकाः 1, तेभ्यो हैमवतैरण्यवतसिद्धाः संख्येयगुणाः 2, तेभ्योऽपि महाहिमवद्रुक्मिसिद्धाः संख्येयगुणाः 3, तेभ्योऽपि देवकुरुत्तरकुरुसिद्धाः संख्येयगुणाः 4, तेभ्योऽपि हरिवर्षरम्यकसिद्धाः संख्येयगुणाः, क्षेत्रबाहुल्यात् 5, तेभ्योऽपि निषधनीलवत्सिद्धाः संख्येयगुणाः६, तेभ्योऽपि भरतैरावतसिद्धाःसंख्येयगुणाः स्वस्थानत्वात्७,तेभ्यो महाविदेहसिद्धाः संख्येयगुणाः सदाभावात् 8, सम्प्रति धातकीखण्डे क्षेत्रविभागेनोच्यतेधातकीखण्डे संहरणतो हिमवशिखरिसिद्धाः सर्वस्तोकाः-१, तेभ्यो महाहिमवद्रुक्मिसिद्धाः संख्येयगुणाः 2, तेभ्योऽपि निषधनीलवत्सिद्धाः संख्येयगुणाः 3, तेभ्याऽपि हैमवतैरण्यवतसिद्धा विशेषाधिकाः 4, तेभ्यो देवकुस्त्तरकुरुसिद्धाः संख्येयगुणाः 5, तेभ्योऽपि हरिवर्षरम्यकसिद्धा विशे