________________ सिद्ध ८३०-अभिधानराजेन्द्रः - भाग 7 सिद्ध षष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तरमुर्कषः सिध्यन्त उत्कर्षतः पञ्च समयान् यावत्प्राप्यन्ते, ततः परमन्तरं, तथा त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तरं सिद्ध्यन्तः उत्कर्षतः चतुरः समयान् यावत्प्राप्यन्ते, तत ऊर्ध्वमन्तरं, तथा पञ्चाशीत्यादयः षण्णवतिपर्यन्ता निरन्तरं सिध्यन्तः उत्कर्षतस्त्रीन् समयान् यावदवाप्यन्ते, परतोऽवश्यमन्तरम्। तथा सप्तनवत्यादयो व्युत्तरशतपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतो द्वौ समयौ यावदवाप्यन्ते, परतो नियमादन्तरं, तथा व्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिध्यन्तो नियमादेकमेव समयं यावदवाप्यन्ते, न द्विवादिसमयानिति / एतदर्थसंग्राहिका चेयं गाथा"बत्तीसा अड्याला, सट्ठी बावत्तरी य बोद्धव्वा / चुलसीई छन्नउई, दुरहियमळुत्तरसयं च।।१।।" अत्राष्ट-सामायिकेभ्य आरभ्य द्विसामायिकपर्यन्ता निरन्तरं सिद्धाः एकैकस्मिश्च विकल्पे उत्कर्षतः शतपृथक्त्वं संख्यापरिमाणं, गणनाद्वारमल्पबहुत्वद्वारं च प्रागिव द्रष्टव्यं, तथा च सिद्धप्राभृतेऽपि द्रव्यप्रमाणचिन्तायामेतयोरियोः सत्पदप्ररूपणोक्तैव गाथा भूयोऽपि परावर्तिता- "संखाएँ जहन्नेणं एको उक्कोसएण अट्ठसयं / सिद्धा णेगा थोवा, एक्कगसिद्धा उ संखगुणा // 1 // " तदेवमुक्तं द्रव्यप्रमाणम् / सम्प्रति क्षेत्रप्ररूपणा कर्तव्या-तत्र पूर्वभावमपेक्ष्य सत्पदप्ररूपणायामेव कृता / सम्प्रति प्रत्युत्पन्ननयमतेन क्रियते- तत्र पञ्चदशस्वप्यनुयोगद्वारेषु पृच्छा, इह सकलकर्मक्षयं कृत्वा कुत्र गतो भगवान् सिध्यति ? उच्यते-ऋजुगत्या मनुष्यक्षेत्रप्रमाणे सिद्धिक्षेत्रे गतः सिध्यति, यदुक्तम्- "इह बोन्दि चइत्ता णं, तत्थ गंतूण सिज्झइ" ||1|| गतं क्षेत्रद्वारम् / सम्प्रति स्पर्शनाद्वारम्-- स्पर्शना, च क्षेत्रावगाहादतिरिक्ता यथा परमाणोः, तथाहि- परमाणोरेकस्मिन् प्रदेशेऽवगाहः सप्तप्रादेशिकी च स्पर्शना / उक्तं च --"एगपएसोगाद, सत्तपएसाय से फुसणा'' सिद्धानां तु स्पर्शना एवमवगन्तव्या "फुसइ अणंते सिद्धेः सव्वपएसेहिं नियमसो सिद्धो / ते उ असंखेज्जगुणा, देसपएसेहिं जे पुट्ठा / / 1 // " गतं स्पर्शनाद्वारम् / सम्प्रति कालद्वारम् - तत्र चेय परिभाषासर्वेष्वपि द्वारेषु यत्र यत्र स्थानेऽष्टशतमेकसमयेन सिध्यदुक्तं तत्र तत्राष्टौ समया निरन्तरं कालो वक्तव्यः, यत्र यत्र पुनर्विंशतिर्दश वा तत्र तत्र चत्वारः समयाः, शेषेषु, स्थानेषु द्वौ समयौ, उक्तं च- "जहिं अट्ठसयं सिज्झइ, अट्ठ उ समया निरंतरं कालो। वीसदसएसु चउरो, सेसा सिझंति दो समए // 1 // " सम्प्रति एतदेव मन्दविनेयजनानुग्रहाय विभाव्यते, तत्र क्षेत्रद्वारे-जम्बूद्वीपे धातकीखण्डे पुष्करवरद्वीपे च प्रत्येकं भरतैरावत-महाविदेहेषूत्कर्षतोऽष्टौ समयान् यावन्निरन्तरं सिध्यन्तः प्राप्यन्ते, हरिवर्षादिष्वधोलोके च चतुरश्चतुरः समयान, नन्दनवने पण्डकवने लवणसमुद्रे च द्वौ द्वौ समयौ, कालद्वारेउत्सर्पिण्यामवसिपिण्यां च प्रत्येकं तृतीयचतुर्थारकयोरष्टावष्टौ समयान्, शेषेषु चारकेषु चतुरश्चतुरः समयान, गतिद्वारे-देवगतेरागता उत्कर्षतोऽष्टौ समयान, शेषगतिभ्य आगताश्चतुरः समयानिति, वेदद्वारपश्चात्कृतपुरुषवेदा अष्टौ समयान् पश्चात्कृतस्त्रीवेदनपंसकवेदाः प्रत्येक चतुरश्चतुरः समयान् पुरुषवेदेभ्य उदृत्य पुरुषा एव सन्तः सिध्यन्तोऽष्टौ समयान्, शेषेषु चष्टिसु भङ्गेषु चतुरश्चतुरः समयानिति, तीर्थद्वारेतीर्थकरतीर्थे तीर्थकरीतीर्थे वाऽतीर्थकरसिद्धा उत्कर्षतोऽष्टौ समयान्, तीर्थकराः तीर्थकर्यश्च द्वौ द्वौ समयौ, लिङ्गद्वारेस्वलिङ्गेऽष्टौ समयान् , अन्यलिङ्गे चतुरः समयान, गृहिलिङ्गे-दौ समयौ, चारित्रद्वारे अनुभूतपरिहारविशुद्धिकचारित्राश्चतुरः समयान्, शेषा अष्टवष्टौ समयान, बुद्धद्वारे-स्वयम्बुद्धा द्वौ समयौ, बुद्धबोधिता अष्टौ समयान्, प्रत्येकबुद्धा बुद्धीबोधिताः, स्त्रियो बुद्धिबोधिता एवं च सामान्यतः पुरुषादयः प्रत्येकं चतुरश्चतुरः समयान् ज्ञानद्वारे-मतिश्रुतज्ञानिनो द्वौ समयौ, मतिश्रुतमनः पर्याय-ज्ञानिनश्चतुरस्समयान्, मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनः पर्यायज्ञानिनो वाऽष्टावष्टौ समयान, अवगाहनाद्वारेउत्कृष्टायां जधन्यायां चावगाहनायां द्रौ द्वौ समयौ, यवमध्ये चतुरः समयान्, उक्तं च सिद्धप्राभृतटीकायाम्- 'जवमज्झाए य चत्तारि समया' इति, अजघन्योत्कृष्टायां पुनरवगाहानायामष्टौ समयान, उत्कृष्टद्वारे, अप्रतिपतितसम्यक्त्वा द्वौ समयौ, संख्येयकालप्रतिपतिता असंख्येयकालप्रतिपतिताश्चतुरश्वतुरस्समयान, अनन्तकालप्रतिपतिता अष्टौ समयान्। अन्तरादीनि चत्वारिद्वाराणि नेहावतरन्ति / गतं मौलं पञ्चमं काल इति द्वारम् / / सम्प्रति षष्ठमन्तरद्वारम्- अन्तरं नाम सिद्धिगमनविरहकालः, स च सकलमनुष्यक्षेत्रापेक्षया सत्पदप्ररूपणायामेवोक्तः, यथा जघन्यत एकसमय उत्कर्षतः षण्मासा इति, ततः इह क्षेत्रविभागताः सामान्यतो विशेषतश्चोच्यते- तत्र जम्बूद्वीपे धातकीखण्डे च प्रत्येकं सामान्यतो वर्षपृथकुत्वमन्तरं, जघन्यत एकसमयः, विशेषचिन्तायां जम्बूद्वीपविदेहे धातकीखण्डविदेहयोश्वोत्कर्षतः प्रत्येकं वर्षपृथक्त्वमन्तरे जघन्यतः एकः समयः, तथा सामान्यतः पुष्करवरद्वीपे विशेषचिन्तायां च तत्रत्ययोयोरपि विदेहयोः प्रत्येकमुत्कर्षतः साधिकं वर्षमन्तरं जघन्यत एकः समयः / उक्तं च"जम्बूद्वीपे धायइ-ओहविभागे य तिसु विदेहेसुं / वासपुहत्तं अंतरपुक्खरमुभयं पि वासहियं / / 1 / / " कालद्वारेभरतेष्वैरावतेषु च जन्मत उत्कृष्टमन्तरं किञ्चिदूना अष्टादश सागरोपमकोटीकोट्यः, संहरणतः संख्येयानि वर्षसहस्राणि, जघन्यतः पुनरुभय-त्राप्येकः समयः, गतिद्वारे-निरयगतेरागत्योपदेशतः सिध्यतामुत्कृष्ट-मन्तरं वर्षसहस्रं हेतुमाश्रित्य प्रतिबोधसम्भवेन सिध्यतां संख्येयानि वर्षसहस्राणि, जघन्यतः, पुनरुभयत्राप्येकः, समयः, तिर्यग्योनिकेभ्य आगत्योपदेशतः सिध्यतां वर्षशतपृथक्त्वं हेतुमाश्रित्य प्रतिबोधतः सिध्यता संख्येयानि वर्षसहस्राणि, जधन्यतः पुररुभयत्राप्येकः समयः तिर्यग्योनिकस्त्रीभ्यो मनुष्येभ्यो मनुष्यस्त्रीभ्यः सौधर्मेशानवर्जदेवेभ्यो देवीभ्यश्च पृथक् पृथक् समागत्योपदेशतः सिध्यतां प्रत्येकमुत्कर्षतोऽन्तरं सातिरेक वर्ष हेतुमाश्रित्य प्रतिबोधतः सिध्यतां संख्येयानि वर्षसहसाणि, जघन्यतः पुनरुभयत्राप्येकः समयः, तथा पृथिव्यब्वनस्पतिभ्यो गर्भव्यूत्क्रान्तेभ्यः प्रथमद्वितीयनरकपृथिवीभ्यामीशानदेवेभ्यः