________________ सिद्ध 526 - अमिधानराजेन्द्रः - भाग 7 सिद्ध ट्ठसयं / वंचामयाए वीसं, दसगं दसगं च सेसेसु // 1 // " गतिद्वारे'देवगतेरागतानामष्टशतं, शेषगतिभ्य आगताः प्रत्येक दश दश, उक्तं च सिद्धप्राभृते-'सेणाण गई दसदसगं' भगवांस्त्वार्यश्यामः पुनरेवमाहनरकगतेरागता दश, तत्रापि विशेषचिन्तायां रत्नप्रभापृथिव्याः शर्कराप्रभावा या बालुकाप्रभायाश्च पृथिव्या आगताः प्रत्येकं दश दश, षङ्कप्रभायाः पृथिव्या आगताश्चत्वारः, तथा तिर्यग्गतेरागताः सामान्यतो दश, विशेषचिन्तायां पुनः पृथिवीकायेभ्योऽप्कायेभ्यश्चागताः प्रत्येक चत्वारश्चत्वारः, वनस्पतिकायेभ्य आगताः षट्, पञ्चेन्द्रियतिर्यग्योनिपुरुषेभ्य आगता दश, पञ्चेन्द्रियतिर्यगयोनिस्त्रीभ्योऽप्यागता दश; तथा सामान्यतो मनुष्यगतेरागता विशतिः; विशेषचिन्तायां मनुष्यपुरुषेभ्य आगता दश, मनुष्यस्त्रीभ्य आगता विंशतिः, तथा सामान्यतो देवगतेरागता अष्टशतं, विशेष-चिन्तायामसुरकुमारेभ्यो नागकुमारेभ्यो यावत् स्तनितकुमारेभ्यः प्रत्येकमागता दश दश, असुरकुमारीभ्यः प्रत्येकमागताः पञ्च पञ्च, व्यन्तरदेवेभ्व आगता दश, व्यन्तरीभ्य आगता पञ्च, ज्योतिष्कदेवेभ्य आगता दशज्योतिष्कदेवीभ्य आगता विंशतिः, वैमानिकदेवेभ्य आगता अष्टशतं, वैमानिकदेवीभ्य आगता विंशतिः, तथा च प्रज्ञापनाग्रन्थः- "अणंतरागया णं भंते ! नेरइया एगसमएणं केवइया अंतकिरिअंपकरेंति ? गोअमा !, जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं दस, रयणप्प-भापुढविनेरइयावि एवं चेव, जाव वालुयप्पभापुढविनेरइया, अणंतरागया णं भंते ! पंकप्पमापुढविनेरइया एगसमयेणं केवइया अतंकिरिअं पकरेंति ? गोअमा ! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं चत्तारि, अणंतरागयां णं भंते ! असुरकुमार एगसमए णं केवइया अंतकिरिअं पकरेंति? गोअमा ! जहन्नेणं एक्को वा दो वि तिन्नि वा, उक्कोसेणं दस, अणंतरागयाणं भंते! असुरकुमारीओ एगसमएणं केवइयाओ अंतकिरियं पकरेंति ? गोअमा! जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं पञ्च, 1 एवं जहा असुरकुमारा सदेवीया तहा० जाव थणियकुमारा, अणंतरागया णं भंते ! पुढविकाइया एगसमएणं केवइया अंतकिरिअं पकरेंति ? गोअमा ! जहन्नेणं इक्को वा दो वा तिन्नि वा उक्कोसेणं चत्तारि, एवं आउक्काइया वि, वणस्सइकाइया पंचें-दियतिरिक्खजोणिया दस, पंचेदियतिरिक्खजोणिणीओ वि दस, मणुस्सा दस, मणुस्सीओ वीसं, वाणमंतरा दस वाणमंतरीओ पञ्च, जोइसिया दस, जोइसिणीओ वीसं, देमाणिया अट्ठसयं, वेमाणिणीओ बीस'' मिति | तत्त्वं पुनः केवलिनो बहुश्रुता वा विदन्ति / वेदद्वारेपुरुषाणामष्टशतं, स्त्रीणां विंशति, दश नपुंसकाः, उक्तं च 'अट्ठसयं पुरिसाणं, वीसं इत्थीण दस नपुंसाणं' तथा इह पुरुषेभ्य उद्धृता जीवाः केचित्पुरुषा एव जायन्ते केचित् स्त्रियः केचिन्नपुंसकाः, एवं स्त्रीभ्योऽप्यद्धृतानां भङ्गत्रयम्, एवं नपुंसकेभ्योऽपि, सर्वसङ्ख्यया भङ्गा नव / तत्र ये पुरुषभ्य उद्धृताः पुरुषा एव जायन्ते तेषामष्टशतं, शेषेषु चाष्टसु भङ्गेषु / दश दश, तथा चोक्तं सिद्धप्राभृते- 'सेसा उ अट्ठ भंगा, दसगं दसगं तु होइ एक्ककं, / तीर्थद्वारे-तीर्थकृतो युगपदेकसमयेन उत्कर्षतश्चत्वारः, / सिध्यन्ति, दश प्रत्येक बुद्धाश्चत्वारः स्वयम्बुद्धा, अष्टशतमतीर्थकृतां विंशतिः स्त्रीणां, द्वे तीर्थकयौँ / लिङ्गद्वारे-गुहिलिङ्गे चत्वारः, अन्यलिङ्गदश, स्वलिङ्गे अष्टशतम्, उक्तं च- 'चउरो दस अट्ठसयं, गिहन्नलिङ्गे सलिङ्गे य' / चारित्रद्वारे--सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणां सामायिकच्छेदोषस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणिणां च प्रत्येकमष्टशतं, सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणां सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्प-राययथाख्यातचारित्रिणां च दशकम् 2, उक्तं च"पच्छाकडं चरितं, तिगं चउक्कं च तेसिमट्ठसयं / परिहारिएहि सहिए, दसगं दसगं च पंचगडे // 1 // ' बुद्धद्वारे प्रत्येकबुद्धानां दसकं, बुद्धबोधितानां पुरुषाणामष्टशतं, बुद्धबोधितानां स्त्रीणां विंशतिः, नपुंसकानां दशकं, बुद्धीभिबोंधितानां स्त्रीणां विंशतिः, बुद्धीभिर्बोधितानामेव सामान्यतः पुरुषादीनां विंशतिपृथक्त्वम्, उक्तं च सिद्धप्राभृतटीकायाम्- 'बुद्धीहिं चेव बोहियाणं पुरिसाईणं सामन्नेण वीसपुहत्तं सिज्झइ' त्ति, बुद्धी च मल्लिस्वामिनीप्रभृतिका तीर्थकरी सामान्यसाध्व्यादिका वा वेदितव्या, यतः सिद्धप्राभृतटीकायामेवोक्तं"बुद्धीओ वि मल्लीपमुहाओ अन्नाओ य सामन्नसाहुणीपमुहाओ बोहंति ति"ज्ञानद्वारेपूर्वभावमपेक्ष्य मतिश्रुतज्ञानिनो युगपदेकसमयेनोत्कर्षतश्चत्वारः सिध्यन्ति, मतिश्रुतमनः-पर्यायज्ञानिनो दश, मतिश्रुतविधिज्ञानना मतिश्रुतावधिमनः पर्यायज्ञानिनां वा अष्टशतम् / अवगाहनाद्वारे-जघन्यायामवगाहनायां युगपदेक-समयेनोत्कर्षतश्चत्वारः सिध्यन्ति, उत्कृष्टाया द्रौ, अजघन्योत्कृष्टायामष्टशतं, यवमध्येऽ-- ष्टौ, उक्तं च- "उक्कोसगाहणाए, दो सिद्धाहोंति एकसमएणं / चत्तारि जहन्नाए, अट्ठसयं मज्झिमाए उ ||1|" अत्र टीकाकारेण व्याख्या कृतागाथापर्यन्तवर्तिनस्तुशब्द-स्याधिकार्थसंसूचनात् 'जवमज्झे अट्ठ' इति उत्कृष्टद्वारे येषां सम्यक्त्वपरिभ्रष्टानामनन्तः कालोऽगमत् तेषामष्टशतं, सङ्ख्यातकालपतितानामसंख्यातकालपतितानां च दशकं दशकम्, अप्रतिपतितसम्यक्त्वानां चतुष्टयम्, उक्तं च-"जेसिं अणंतकालो, पडिवाओ तेसिँ होइ अट्ठसयं अप्पडिवडिए चउरो, दसगं दसगंच सेसाणं / / 1 / / " अन्तरद्वारे-एको वा सान्तरतः सिध्यति बहवो वा, तत्र बहवो यावदष्टशतम्। अनुसमयद्वारे-प्रतिसमयमेको वा सिध्यति, बहवो वा? तत्र बहूनां सिध्यतामियं प्ररूपणाएकादयो द्वात्रिंशत्पर्यन्ता निरन्तरमुत्कर्षतोऽष्टौ समयान् यावत् प्राप्यन्ते / इयमत्र भावना-प्रथमसमये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत्, सिध्यन्तः प्राप्यनते, द्वितीयसमये जघन्यत एको द्वौ वा उत्कृर्षतो द्वात्रिंशद् एवं तृतीयसमयेऽपि, एवं चतुर्थसमयेऽपि एवं यावदष्टमेऽपि समये जघन्यत एको द्वौ वा उत्कृर्षतो द्वात्रिंशत्ततः परमवश्यमन्तरम्। तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्तः, सप्त समयान् यावत्प्राप्यन्ते, भावना प्राग्वत्, परतो नियमादन्तरं, तथा एकोनपञ्चाशदादयः षष्टिपर्यन्ता निरन्तरं सिध्यन्तः उत्कर्षतः षट् समयान् यावदवाप्यन्ते, परतोऽवश्यमन्तरं, तथा एक