________________ सिद्ध ५२८-अभिधानराजेन्द्रः - भाग 7 सिद्ध प्पभापुढविनेरइएहितो तित्थयरत्तं लभेजा। पंकप्पभापुढविनेरइया णं भंते ! पंकप्पभापुढविनेरइएहिंतो अणंतरं उव्यट्टित्ता तित्थयरत्तं | लभेजा ? गोअमा ! णो इणढे समढे अंतकिरियं पुण करेजा। धूमप्पभापुढविनेरइएणं पुच्छा, गोअमा! नो इसट्टेसमटे, विरई पुण लभेजा, तमापुढविपुच्छा, गोयमा ! नो इणढे समठे, विरयाविरई लभेजा, अहे सत्तमाए पुच्छा, गोयमा ! नो इणटे समढे, संमत्तं पुण लभेजा। असुरकुमारा णं पुच्छा, गोयमा ! नो इणढे समटे, अंतकिरियं पुणो करेजा एवं निरंतरं० जाव आउक्काइया, तेउक्काइए णं भंते ! तेउक्काइएहिंतो अणंतरं उव्वट्ठित्ता तित्थयरत्तं लभेजा ? गोयमा ! नो इणढे समडे, केवलिपन्नत्तं धम्मं लभेज्जा सवणयाए, एवं वाउकाइएवि, वणस्सइकाइए णं पुच्छा, गोयमा ! नो इणढे समटे, अंतरिकियं पुण करेजा / बेइंदियतेइंदियचउरिदियाण पुच्छा, गोयमा ! नो इणढे सगट्टे मणपज्जवनाणं पुण उप्पाडेजा। पंचिंदियतिरिक्खजोणियमणुस्सवाणमंतरजोइसिएसु पुच्छा, गोयमा ! नो इणढे समटे, अंतकिरियं पुण करेजा / सोहम्मगदेवे णं भंते ! अणंतरं चइत्ता तित्थयरत्तं लभेजा ? गो०! अत्थगेइए लभेजा अ० नो ल० एवं जहा रयणप्पभापुढविनेरइयस्स एवं० जाव० सव्वट्ठगेदेव" 3, वेदद्वारे प्रत्युत्पन्ननयमधिकृत्यापगतवेद एव सिध्यति, तद्भवानुभूतपूर्ववेदापेक्षया तु सर्वेष्वपि वेदेषु, उक्तं च-"अवगयवेओ सिज्झाइ, पचुप्पण्णं नयं पहुचा उ। सव्वेहि विवेएहिं, सिज्झइ, समईयनयवाया।॥१॥" तीर्थकृतः पुनः स्त्रीवेदे वा पुरुषवेदेवा, न नपुंसकवेदे 4, तथा तीर्थद्वारे तीर्थकरतीर्थे तीर्थकरीतीर्थे च अतीर्थच सिध्यन्ति 5, लिङ्गद्वारे अन्यलिङ्गे गृहिलिङ्गे स्वलिङ्गे वा, एतच्च सर्व द्रव्यलिङ्गापेक्षया द्रष्टव्यं संयमरूपभावलिङ्गापेक्षया तु स्वलिङ्गएव, उक्तं च- "लिंगेण, अन्नलिगे, गिहत्थलिङ्गे तहेव य सलिङ्ग / सव्वेहिं दव्वलिङ्गे, भावेण सलिंगसंजमओ // 1 // " 6, चारित्रद्वारे प्रत्युत्पन्ननयापेक्षया यथाख्यातचारित्रे, तद्भवानुभूतपूर्वचरणापेक्षया तु केचित्सामायिक सूक्ष्मसम्पराययथा-ख्यातचारित्रिणः केचित्सामायिकच्छेदोप-स्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणः, केचित् सामायिकपरिहार-विशुद्धिकसूक्ष्मसंपराययथाख्यातचारित्रिणः, कोचत्सामा-यिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः, उक्तं च- "चरणमि अहक्खाए पचप्पन्नेण सिज्झइ नएणं / पुव्वाणंतरचरणे, तिचउक्कगपंचगगमेणं // 1 // " तीर्थकृतः पुनः सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिण एव, बुद्धद्वारे प्रत्येकबुद्धाः स्वयम्बुद्धा बुद्धबोधिता बुद्धीबोधिता वा सिध्यन्ति 8, ज्ञानद्वारे प्रत्युत्पन्ननयमपेक्ष्य केवलज्ञाने, तद्भवानुभूतपूर्वानन्तरज्ञानापेक्षया तु केचिन्मतिश्रुतज्ञानिनः केचिन्मतिश्रुतावधिज्ञानिनः केचिन्मतिश्रुतमनः पर्यायज्ञानिनः केचिन्मतिश्रुतावधिमनः पर्यायज्ञानिनः, तीर्थकृतस्तु मति-श्रुतावधिमनः पर्यायज्ञानिन एव, अवगाहनाद्वारे जघन्यायामपि अवगाहनायां सिध्यन्ति उत्कृष्टायां मध्यभायां च, तत्र द्विहस्तप्रमाणा जघन्या, पञ्चविंशत्यधिकपञ्चधनुःशतप्रमाणा उत्कृष्टा, साच मरुदेवीकालवर्तिनामवसेया, मरुदेव्यप्यादेशान्तरेण नाभिकुलकरतुल्या / / तदुक्तं सिद्धप्राभृत-टीकायाम्-'मरुदेवी वि आएसन्तरेण नामितुल्ल' त्ति, तत आदेशान्तरापेक्षया मरुदेव्यामपि यथोक्तप्रमाणावगाहणाद्रष्टव्या, उक्तं च- "ओगाहणा जहन्ना, रयणिदुर्ग अह पुणो उ उक्कोसा। पंचेव धणुसयाई, धणुहपुहुत्तेण अहियाई // 1 // " अत्र पृथक्त्वशब्दो बहुत्ववाची बहुत्वं चेह पञ्चविंशतिरूपं द्रष्टव्यं, सिद्धप्राभृतटीकायां तथाव्याख्यानात, तेन पञ्चविंशत्यधिकानीत्यवसेयं, शेषा त्वजघन्योत्कृष्टाक्माहना, तीर्थकृतां तु जघन्यावगाहना सप्तहस्तप्रमाणा उत्कृष्टा पञ्चधनुःशतमाना शेषा त्वजघन्योत्कृष्टा 10, उत्कृष्टद्वारे सम्यक्त्वपरिभ्रष्टा उत्कर्षतः कियता कालेन सिध्यन्ति ? उच्यते, देशोनापार्द्धपुद्रलपरावर्त्तसंसारातिक्रमे, अनुत्कर्षतस्तु कंचित्सवयेयकालातिक्रमे केचिदसद्धेययकालातिक्रमे, केचिदनन्तेन कालेन 11, अन्तरद्वारे जघन्यत एकसमयोऽन्तरम् उत्कर्षः षण्मासाः 12, निरन्तरद्वारे जघन्यतो द्वौ समयौ निरन्तरं सिध्यन्तः प्राप्यन्त उत्कर्षतोऽष्टौ समयान् 13, गणनाद्वारे जघन्यत एकस्मिन् समये एकः सिध्यति उत्कर्षतोऽष्टाधिकं शतं, तथा चास्मिन् भरतक्षत्रेऽस्यामवसर्पिण्यां भगवतः श्रीनाभेयस्य निर्वाणसमये श्रूयतेऽष्टोत्तरं शतमेकसमयेन सिद्धं, तथा चोक्तं सङ्घदासगणिना वसुदेवचरिते"भयदं च उसभसामी जयगुरू, पुव्यसयसहस्सं वाससहस्सूणयं विहरिऊणं केवली अट्ठावयपव्वए सह दसर्हि समणसहस्सेहि परिनिव्वाणमुवगते चोदसेणं भत्तेणं माघबहुले पक्खे तेरसीए अभीइणा नक्खत्तेणं एगूणपुत्तसएणं अट्ठहि य नत्तुएहिं सह एगसमएणं निव्युओ, सेसाण वि अणगाराणं दस सहस्साणि अट्ठसयऊणगाणि सिद्धाणि, तम्मि चेव रिक्खे समयंतरेसु बहूसु" इति। 14, अल्पबहुत्वद्वारे युगपद् द्विवादिकाः सिद्धाः स्तोकाः, एककाः सिद्धाः सङ्ख्येयगुणाः, उक्तं च"संखाएँ जहन्नेणं एक्को उक्कोसएण अट्ठसयं / सिद्धाणेगा थोवा, एगगसिद्धा उ संखगुणा // 1 // " 15 / तदेवं कृता पञ्चदशस्वपि द्वारेषु सत्पदप्ररूपणा // सम्प्रति द्रव्यप्रमाणमभिधीयते-तत्र क्षेत्रद्वारे ऊर्ध्वलोके युगपदेकसमयेन चत्वारः सिध्यन्ति द्वौ समुद्रे चत्वारः सामान्यतो जलमध्ये तिर्यगलोकेऽष्टशतं, विंशतिपृथक्त्वमधोलोके, उक्तं च"चत्तारि उडलोए, जले चउक्कं दुवे समुद्दम्मि / अट्ठसयं तिरियलोए, वीसपुहुत्तं अहोलोप // 1 // " तथा नन्दनवेन चत्वारः, 'नंदणे चत्तारी' ति वचनात् एकतमस्मिस्तु विजये विंशतिः, उक्तं च-सिद्धप्राभूतटीकायाम् -"वीसा एगयरे विजये" तथा सर्वास्वप्यकर्म-भूमिषु प्रत्येक संहरणतो दश 2, पण्डकवने द्वौ, पञ्चदशस्वपि कर्म-भूमिषु प्रत्येकमष्टशतम्, उक्तं च- "संकामणाए दसर्ग,दो चेव हवंतिपंडगवणम्मि। समएण य अट्ठसयं, पण्णरससु कम्मभूमीसु // 1 // " कालद्वारे उत्सपिण्यामवसर्पिण्यां च प्रत्येकं तृतीये चतुर्थे चारकेऽष्ट-शतम्, अवसर्पिण्यां पञ्चामारके विंशतिः, शेषेष्वरकेषु प्रत्येकमुत्सपिण्यामवसपिण्यां च संहरणतो दश 2, तथा चोक्तं सिद्धप्राभृतटी-कायाम्- "सेसेसु अरएसु दस सिज्झंति, दोसुवि उस्सप्पिणीओसप्पिणीसु संहरणतो / " सिद्धप्राभृतसूत्रेऽप्युक्तम्, "उस्सप्पिणि ओसप्पिणि, तहयचउत्थयसमासुअ