________________ सिद्ध 527- अमिधानराजेन्द्रः - भाग 7 सिद्ध पयतो प्रयत्नपरः पुणो वि भत्तिबहुमाणतो णमो इत्याह / अहवाप्रयतो भूत्वा नमस्करोमि एताओ य णंदीओ सदा खंजमे भवंतु / आ० चू०५ अ०। अनन्तराऽऽदिसिद्धप्ररूपणाततन्तरसिद्धाः- सत्पदप्ररूपणा 1 द्रव्यप्रमाण 2 क्षेत्र 3 स्पर्शना 4 काला 5 ऽन्तर 6 भावा ७ल्पबहुत्व 8 रुपैरष्टभिरनुयोगद्वारैः परम्परसिद्धाः सत्पदप्ररूपणा द्रव्यप्रमाणक्षेत्रस्पर्शनाकालान्तरभावाल्पबहुत्वसन्निकर्षरूपैर्नच-भिरनुयोगद्वारैः क्षेत्रादिषु पञ्चदशसु द्वारेषु सिद्धप्राभृते चिन्तिताः ततस्तदनुसारेण वयमपि विनेयजनानुग्रहार्थं लेशतश्चिन्तयामः / क्षेत्रादीनि च पञ्चदश द्वाराण्यमूनि- "खेत्ते 1 काले 2 गइ 3 वे-य 4 तित्थ 5 लिंगे 6 चरित्त 7 बुद्ध 8 य / नाणा 6 गाहु 10 कस्से 11, अंतर 12 मणुसमय 13 गणण 14 अप्पबहू 15 // 1 // " तत्र प्रथमत एषुद्वारेषु सत्पदप्ररूपणया अनन्तरसिद्धाश्चिन्त्यन्ते, क्षेत्रद्वारे त्रिविधेऽपि लोके सिद्धाः प्राप्यन्ते, तद्यथा- ऊर्ध्वलोके अधोलोके तिर्यग्लोके च, तत्रोर्ध्वलोके पण्डकवनादौ अधोलोकेअधोलौकिकेषु ग्रामेषु तिर्यग्लोके मनुष्यक्षेत्रे, तत्रापि नियाघातेन पञ्चदेशसु कर्मभूमिषु, व्याघातेन समुद्रनदीवर्षधरपर्वतादावपि / व्याघातो नाम संहरणम्, उक्तं च- "दीवसमुद्देइ-जएसु बाघाय खेत्तओ सिद्धा / निव्वाघाएण पुणो, पनरससुं कम्मभूमीसुं // 1 // " तीर्थकृतः पुनरधोलोके तिर्यग्लोके वा / तत्राधोलोकेऽधोलौकिकेषु ग्रामेषु तिर्यग्लोके पञ्चदशसु कर्मभूमिषु न शेषेषु स्थानेषु शेषेषु हि स्थानेषु संहरणतः संभवन्ति, न च भगवतां संहरणसम्भवः / / तथा काले कालद्वारेऽवसर्पिण्यां जन्म चरमशरीरिणां नियमतः तृतीयचतुरिकयोः सिद्धिगमनं तु केषाञ्चित् पञ्चमेऽप्यरके यथा जम्बूस्वामिनः, उत्सर्पिण्यां जन्म चरमशरीरिणांदुष्षमादिषु द्वितीयतृतीयचतुरिकेषु, सिद्धि-गमनं तु तृतीयचतुर्थयारेव, उक्तं च- "दोसु वि समासु जाया, सिज्झंतोस्सप्पिणीऍ कालतिगे। तीसु य जाया ओस-प्पिणीऍ सिज्झंति कालदुगे / / 1 / / " महाविदेहेषु पुनः कालः सर्व दैव सुषमदुष्षमाप्रतिरूपः, ततस्तद्वक्तव्यताभणनेनैव तत्र वक्तव्यता भणिता द्रष्टव्या, संहरणमधिकृत्य पुररुत्सपिण्यामवसर्पिण्यां च षट्स्वप्यरकेषु सिध्यन्तो द्रष्टव्याः, तीर्थकृतां पुनरव-सर्पिण्यामुत्सर्पिण्यां च जन्म सिद्धिगमनं च सुषमदुष्षमादुष्षमसुषमारूपयोरेवाकारयोर्वेदितव्यं, न शेषेष्वरकेषु / तथाहि-भगवान् ऋषभस्वामी सुषमदुष्षमारकपर्यन्ते समुदपादि, एकोननवतिपक्षेषु शेषेषु सिद्धिमगमत्, वर्द्धमानस्वामी तु भगवान् दुष्षमसुषमारकपर्यन्तेषु एकोननवतिपक्षेषु शेषेषु मुक्तिसौधमध्यमध्यास्त, तथा चोक्तम्- "समणे भगवं महावीरे तीसं वासाई अगारवासमझे वसित्ता साइरेगाई दुवालस संवच्छराई छउमत्थपरियागं पाउणित्ता बायालीसं वासाइं सामनपरियागं पाउणित्ता बावत्तरि वासाणि सव्वाउयं पालइत्ता खीणे वेयणिज्जआउयनामगोए दूसमसुसमाए बहुविइवताए तिहिं वासेहिं अद्धनवमेहि मासेहिं सेसेहिं | पावाए मज्झिमाए जाव सव्वदुक्खप्पहीणे" / (उत्सर्पिण्यामपि च प्रथमतीर्थकरो दुष्षम-सुषमायामेकोननवतिपक्षेषु व्यतिक्रान्तेषु जायते, यतो भगवदर्द्धमानस्वामिसिद्धिगमनस्य भविष्यन्महापद्मतीर्थकरोत्पादस्य चान्तरं चतुरशीतिवर्ष सहस्राणि सप्त वर्षाणि पश्च च मासाः पळ्यन्ते) तथा चोक्तम्- 'चुलसीवाससहस्सा, वासा सत्तेव पंच मासा य / वीरमहापउमाणं, अंतरमेयं जिणुट्ठि ||1 // " तत उत्सपिण्यामपि प्रथमतीर्थकरो यथोक्तकालमान एव जायते, तथा उत्सपिण्यां चतुर्विंशतितमः तीर्थकरः सुषमदुष्षमायामेकोननवतिपक्षेषु व्यतिक्रान्तेषु जन्मासादयति, एकोननवतिपक्षाधिकचतुरशीतिपूर्वलक्षातिक्रमेच सिध्यति, तत उत्सपिण्यामवसर्पिण्यां वा दुष्षमसुषमासुषमदुष्षमयोरेव तीर्थकृतां जन्म निर्वाणं चेति-चेति गतिद्वारे / प्रत्युत्पन्ननयमधिकृत्य मनुष्यगतावेव सिध्यन्तः प्राप्यन्ते, न शेषासु गतिषु / पाश्चात्यमनन्तरं भवमधिकृत्य पुनः सामान्यतश्चतसृभ्योऽपि गतिभ्य आगताः सिध्यन्ति, विशेषचिन्तायां पुनश्चतसृभ्यो नरकपृथिवीभ्यो, न शेषाभ्यः, तिर्यगतेः पृथिव्यम्बुवनस्पतिपञ्चेन्द्रियेभ्यो न शेषाभ्यः, मनुष्यगते, स्त्रीभ्यः पुरुषेभ्यो वा, देवगतेश्चतुभ्यो देवनिकायेभ्यः / तथा चाह भगवानार्यश्यामः- "नेरइया णं भंते ! अणंतरागया अंतकिरियं करेंति परंपरागया अंतकिरिअं करेंति? गोअमा! अंणतरागया वि अंतकिरिअं करेंति परंपरागया वि अंतकिरियं करेंति, एवं रयणप्पभापुढविनेरझ्यावि० जाव पंकप्पभापुढविनेरइया, धूमप्पभापुढविनेरइयाणं पुच्छा, गोयमा! नो अणंतरागया अंतकिरिअं करेंति, परंपरागया अंतकिरियं करेंति, एवं० जाव अहे सत्तमपुढविनेरइया। असुरकुमारा० जावथणियकुमारा / पुढविआउवणस्सइकाइया अणंतरागया वि अंतकिरियं करेंति परंपरागया वि अंतकिरियं करेंति, तेउवाउबेइंदिय-तेइंदियचउरिदिया नो अणंतरागया अंतकिरियं करेंति परंपरागया-अंतकिरियं करेंति सेसा अणंतरागयावि अंतकिरियं करेंति परंपरागया वि" तीर्थकृतः पुनर्देवगते रकगतेर्वाऽनन्तरागताः, सिध्यन्ति, न शेषगतेः, तत्रापि नरकगतेः, तिसृभ्यो नकरपृथिवीभ्यो, न शेषेभ्यः, देवगतेर्वैमानिकदेवनिकायेभ्यो, न शेषनिकायेभ्यः / तथा चाह भगवानार्यश्यामः- "रयणप्पभापुढविनेरइयाणं भंते! रयणप्पभापुढविनेरइएहिंतो अणंतरं उव्वट्टित्ता तित्थयरतं लभेजा ? गोयमा ! अत्थेगइए लभेजा, अत्थेगइए नो लभेजा, से केणतुणं भंते ! एवं वुचइ अत्थेगइए लभेजा अत्थेगइए नो लभेजा ? गोअमा ! जस्स रयणप्पभापुढविनेरइयस्स तित्थयरनामगोत्ताई कम्माई बधाई पुट्ठाई कडाइं निबद्धाइ अभिनिव्वट्टाई अभिसमन्नागयाइं उन्नाइं नो उवसंताई भवंति से णं रयणप्पभापुढविनेरइए रयणप्पभापुढविनेरइएहिंतो उव्वट्टिता तित्थयरतं लभेजा, जस्स णं रयणप्पभापुढविनेरइयस्स तित्थयरनामगोत्ताई कम्माइं नो बद्धाई० जाव नो उइन्नावं उवसंताई भवंति से णं रयणप्पहापुढविनेरइए रयणप्पभापुढविनेरइएहिंतो उव्वट्टित्ता तित्थयरत्तं नो लभेजा, से एएणतुणं गोयमा! एवं वुच्चइ-अत्थेगइए लभेजा अत्गइए नो लभेजा / एवं०जाव वालुय