________________ सिद्ध 526 - अभिधानराजेन्द्रः - भाग 7 सिद्ध सूरिः प्रतिविधानमाहजुत्तं जं छउमत्थ-स्स करणमेत्ताणुसारिनाणस्स / तदभावम्मि पयत्ता-भावो न जिणस्स सो जुत्तो // 3077|| छउमत्थस्स मणोमे-तविहियजत्तस्स जइ मयं झाणं / / कह तं जिणस्स न मयं, केवलविहियप्पयत्तस्य ?||3078|| युक्तं यच्छद्मस्थस्य करणमत्र मनः, तन्मात्रानुसारिज्ञानस्य तदभावे सुप्तावस्थायां मनःकरणाभावे कायनिरोधप्रयत्नाभावः। जिनस्य पुनरसौ न युक्तः, मनोज्ञानाभावेऽपि केवलज्ञानसद्भावादिति। किञ्चयदि मनोमात्रविहितयत्नस्य छद्मस्थस्य साध्यादेर्मतं ध्यानम्, तर्हि कथं जिनस्य केवलिनः सकललोकावलोकविलोकनस्वभावकेवलज्ञानविहितप्रयत्नस्य तदृ ध्यानं नाभिमतम् ? इति / अपि चपुष्वप्पओगओ विय, कम्मविणिज्जरणहेउओ वावि। सद्दत्थबहुत्ताओ, तह जिणचंदागमाओ य // 3076|| चिंताभावे वि सया, सुहुमोवरयकिरियाइँ भन्नति / जीवोवओगसम्मा-वओ महत्थस्स झाणाइं॥३०५०।। भवस्थस्य केवलिनश्चिन्ताया अभावेऽपि सदा सूक्ष्मक्रियानिवृत्त्युपरतक्रियाप्रतिपातिलक्षणे द्वे ध्याने भण्येते इति सम्बन्धः, इयं च प्रतिज्ञा। हेतुमाह-जीवोपयोगस्वाभाव्यात्, तज्जीवोपयोगस्य तस्यामवस्थायामेवंविधस्वभावत्वादित्यर्थः; तथा, पूर्वप्रयोगात्-पूर्वविहितध्यानसंस्कारादित्यर्थः / तथा, कर्मनिर्जरणहेतुत्वात् ते ध्याने अभिधीयेते, छास्थस्य धर्मध्यानवदिति / तथा,, शब्दस्यार्थानां बहुत्वात्ध्यैधातोरनेकार्थत्वादित्यर्थः / तथा, जिनागमे, भणितत्वादिति / अथ प्रेर्य परिहारं चाहजइ अमणस्स वि झाणं, केवलिणो कीस तं न सिद्धस्स / भण्णइ जं न पयत्तो, तस्स जओ न य निरुद्धव्वं // 3081|| यद्यमनस्कस्यापि केवलिनो ध्यानमिष्यते, तर्हि सिद्धस्य किमिति नाभ्युपगम्यते ? भण्यतेऽत्रोत्तरम् यद्यस्मात्तस्य-सिद्धस्य कारणाभावेन प्रयत्नो नास्ति, न च योगलक्षणं निरोद्धव्यमस्ति अतः प्रयत्नाभावात् प्रयोजनाभावाच्य न सिद्धस्य ध्यानमिति / भवतु केवलिनो ध्यानम्, किन्तु शैलेश्यां वर्तमानः किमसौ करोति ? इत्याहतदसंखेजगुणाए, गुणसेढीए रइय पुराकम्मं / समए समए खवियं, कमसो सेलेसिकालेणं // 3052 / / सव्वं खवेइ तं पुण, निल्लेवं किंचि दुवरिमे समए। किंचिच होइ चरिमे, सेलेसीए य तं वोच्छं // 3083|| मणुयगइजाइतसबा-यरं च पज्जत्तसुभयमाएजं / अन्नयरवेयणिनं, नराउमुचं जसो नाम // 3054 // संभवओ, जिणनाम, नराणुपुथ्वी य चरिमसमयम्मि।। पाठसिद्धा एव / नवर तदिति-वेदनीयादिकर्म / 'जिणनाम' तितीर्थकरनाम / इद च तीर्थकरस्यैव सम्भवति, अतः सम्भवतः इत्युक्तम् / सामान्यकेवली तु शेषा मनुष्यगतिपञ्चेन्द्रियजात्यादिका द्वादशैव प्रकृतीश्चरमसमये क्षपयतीति। अन्यदपि तत्र किमसौ करोति ? इत्याहओरालियाहि सव्वा-हि चयइ विप्पजहणीहिं जं भणियं / निस्सेसतया न जहा, देसचाएणा सो पुवं // 3086|| औदारिकतैजसकार्मणशरीरत्रयं सर्वाभिरेव विशेषवतीभिः प्रकृष्टामिस्त्यजनाभिस्त्यजत्यसौ / किमुक्तं भवति ? इत्याह- 'जं भणियमि' त्यादि, निःशेषतयैवौदारिकादिशरीरत्रयं तदा त्यजति, न तुयथा पूर्वं भवे भ्राम्यन् संघातपरिसाटाभ्यां देहत्यागेन त्यक्तावानिति यदुक्तं भवति-एतदिह तात्पर्यमित्यर्थः / अपरं च तदा तस्य किं निवर्तते किं वा न ? इति दर्शयन्नाहतस्सोदइयाईया, भव्वत्तं च विणिवत्तए समयं / सम्मत्तनाणदंसण-सुहसिद्धत्ताई मोत्तूणं // 3087|| तस्य सिद्धिं गच्छत औदयिकादयो भावा भव्यत्वं च समकं युगपत् विनिवर्तते / भवा भाविनी सिद्धिर्यस्यासौ हि भव्य उच्यते, न च सा तस्य भाविनी, साक्षात्सञ्जातत्वात्, ततोऽसौ न भव्य इति भव्यत्वं निवर्तते, उक्तं च-"सिद्धेनो भव्वे नो अभव्वे" इति। सम्यक्त्वादीनि तु सिद्धावपि भवन्ति, अतस्तन्निवृत्तिवर्जनम् / इति पञ्चपञ्चाशद्गाथार्थः / नन्वौदारिकादिशरीराणां कथं सर्वथा त्यागः, कर्मशरीरसन्तानस्यानादित्वात्, अनादेश्वानन्तत्वात् ? इत्याशङ्कयोत्तरम्, प्रासगिकमन्यदपि चाह- 'नणु सन्ताणोऽणाई' इत्यादिद्वाविंशातगाथाः / एताश्च पूर्व षष्ठगणधरे प्रायो लिखिताः, व्याख्याताश्चेति नेह लिख्यन्त इति। . कियता कालेन पुनरसौ सिध्यति ? इत्याहरिउसेढीपतिवन्नो, समयपएसंतरं अफसमाणो / एगसमएण सिज्झए, अह सागारोवउत्तो सो // 3058|| सुबोधा। नवंर 'समये त्यादि, एकसमयादन्यत्। समयान्तरमस्पृशनवगाढप्रदेशेभ्योऽपराकाशप्रदेशात्स्वस्पृशन्नचिन्तया शक्त्या सिद्धिं गच्छतीति भावार्थः / विशे०। आ० म०। उत्त० / श्रा०। (कथं पुनरसौ साकारोपयोग इति 'उवओग' शब्दे द्वितीयभागे 861 पृष्ठे उक्तम् / ) सिद्धो नाम साधनः यत्कुतः जिनमतः इति कृत्वा सर्वज्ञैरर्थस्य भाषितत्वात् सर्वलब्धिसम्पन्नश्च गणधरैर्दृष्टत्वात् सिद्धं निर्वचनीयमविचाल्यं; श्रुतज्ञानमेवेत्यर्थः / अण्णे पुण भणंति सिद्धं प्रतिष्ठितं प्ररूढ़ सर्वकालं सर्वकालिकं; नित्यमित्यर्थः / 'जिणमतं' तथाहि-एतं दुवालसंग, गणिपिडगं न कय इनासी न कयाइ नत्थि न कयाइ न भविस्सति। अभूत् भवति भविस्सइ य एवमादि सिद्धे जिणमते भो इत्यामन्त्रणे /