________________ सिद्ध 525 - अभिधानराजेन्द्रः - भाग 7 सिद्ध धोऽपि योगः कर्मणो बन्धहेतुः, कर्मसम्बत्धश्च संसारनिबन्धनमेव, इति कथं सयोगः सिध्यति ? किञ्च-पर्यन्ते सकलकर्मनिर्जरायाः परमशुक्लध्यानमेव कारणम्, तच सयोगः सन् जन्तुर्न समेति न प्राप्नोति, सयोगस्य सक्रियत्वात्, परमशुक्लध्यानस्य च समुद्धाताशेषक्रियारूपत्वात् इति कुतः सयोगः सिध्यतीति ? तस्माद्द्योगनिरोधः कर्तव्यः। कथं पुनस्तं करोति ? इत्याहपज्जत्तमित्तसन्नि-स्स जत्तियाइं जहन्नजोगिस्स। हॉति मणोदव्वाई, तव्वावारो य जम्मत्तो / / 3056 / / तदसंखगुणविहीणं, समए समए निरंभमाणो सो। मणसो सव्वनिरोह, करे असंखेजसमएहिं / / 3060 / / पजत्तमेत्तविंदिय, जहन्नवइजोगपञ्जया जे उ। तदसंखगुणविहीणे, समए समए निरंभंतो // 3061 / / सव्ववइजोगरोह, संखाईएहिं कुणइ समरहिं। तत्तो य सुहुमपणय-स्स पढमसम ओववन्नस्स // 3062 / / जो किर जहन्नजोगो, तदसंखेनगुणहीणमेकेक्के / समए निरंभमाणो, देहतिभागं च मुंचंतो // 3063 // संभइ सकायजोगं, संखाईएहिं चेव समएहिं। तो कयजोगनिरोहो, सेलेसीभावयामेइ // 3064|| शैलेशीकालप्रमाणमाहहस्सक्खराई मज्झे-ण जेव कालेण पंच भण्णंति / अत्थइ सेलेसिगओ, तत्तियमेत्तं तओ कालं // 3068|| नातिशीधैर्न चाप्यतिस्थिरैः, किन्तु-मध्यमभञ्या यावता कालेन 'अ इ उ ऋ लु' इत्येतानि पञ्च ह्रस्वाक्षराणि भण्यन्तेएतावन्तं कालं शैलेशीगतस्तकोऽसौ तिष्ठतीति। किं पुनस्तत्र ध्यानं ध्यायति ? इत्याहतणुरोहारंभाओ, झायइ सहुमकिरियानियट्टि सो। वुच्छिन्नकिरियमप्पडि-वाइं सेलेसिकालम्मि ||3066 / / तनाः काययोगस्य निरोधारम्भसमयात् प्रभृति सूक्ष्मक्रियानिवृत्तिरूपं शुक्लध्यानमसौ ध्यायति ततः सर्वयोगनिरोधादूर्ध्व शैलेशीकाले समुच्छिन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायतीति / अत्र प्रेर्यमाशङ्कय परिहरन्नाहझाणं मणोविसेसो, तदभावे तस्स संभवो कत्तो। भण्णइ मणियं झाणं, समए तिविहे वि करणम्मि // 3070 / / ननु 'ध्यै' चिन्तायाम्, इति वचनाद् मनोविशेषो मनसः काऽपि निश्चला चिन्तावस्थैव ध्यानमुच्यते। मनश्च-'"अमनस्काः केवलिनः" इति वचनात् तस्य नास्ति। ततस्तदभावे मनसोऽसत्त्वे तस्य ध्यानस्य केवलिनः कुतः सम्भवः ? अतः 'तनुरोहारंभावो' इत्याधघटमानमेवेति / सूरिराह भण्यतेऽत्रोत्त-रम्, - 'भंगियसुयं गुणतो वट्टइ तिविहे वि झाणम्मि' इत्यादिवचनात् त्रिविधेऽपि मनोवाक्कायलक्षणे करणे समये सिद्धान्ते ध्यानं भणितमेव / ततो मनोविशेष एव ध्यानमित्यनैकान्तिकम्, वाक्कायव्यापारेऽपि ध्यानस्योक्तत्वादिति भावः / यतः परिभाषासुदपयत्तवावा-रणं निरोहो व विजमाणाण / झाणं करणाणमयं, न उ चित्तनिरोहमित्तागं // 3071 / / यतश्च मनोवाक्कायलक्षणानां करणानां सुदृढप्रयत्नेन व्या-पारणम्, विद्यमानानां पूर्वाक्तक्रमेण निरोधो वा ध्यानं भगवतां मतम्, न पुनश्चित्तनिरोधमात्रकम्, ध्यैधातोरनेकार्थत्वात्, करणनिरोधार्थेऽपि वर्तनादिति। ततश्चहोश न मणोमयं वा-इयं च झाणं जिणस्स तदभावे / कायनिरोहपयत्त-स्स भावमिह को निवारेह // 3072 / / तदभावे मनसोऽभावे केवलिनो मनोमयं मनोविशेषरूपम, तथा मनःपूर्वकत्वाद् विशिष्टवचसो वाचिकं च ध्यानं न भवेत्, तद् मा भूत, यत्, पुनः कायनिरोधप्रयत्नस्वभावं ध्यानमिह, तत् तस्य को निवारयते-न कोऽपीति / अपि चजइ छउमत्थस्स मणो, निरोहमेत्तप्पयत्तयं झाणं / कहकायजोगरोह-प्पयत्तयं होइ न जिणस्स // 3073 / / प्रकटार्था / पुनरपि परः प्राहआहाभावे मणसो, छउमत्थसेव तं न झाणं से / अह तदभावे वि मयं, झाणं तं किं न सुत्तस्स ?||3074|| आह परः-मनसोऽमावे 'से' तस्य केवलिनश्छद्मस्थ-स्यैकेन्द्रियादेरिव तत् सूक्ष्मक्रियानिवृत्त्यादिकं ध्यानं न घटते / अथ तदभावेऽपि मतं ध्यानम, ततः सुप्तस्य तत् किं नेष्यते, मनोऽसत्त्वस्य तुल्यत्वात् ? इति / पर एवाचार्यमतमाशड्क्याहअहव मई सुत्तस्स हि, न कायरोहप्पयत्तसम्भावो। एवं चित्ताभावे, कत्तो य तओ जिणस्साणि // 3075 / / होज व किंचिम्मेत्तं, चित्तं सुत्तस्स सव्वहा न जिणे / जइ सुत्तस्स न झाणं, जिणस्य तं दूरयरएणं // 3076 / / अथवा, आचार्यस्य मतिः-सुप्तस्य स्फुटमेव ज्ञायते न कायनिरोधप्रयत्नसद्भावः, किन्तु तदभाव एव, तत् कुतस्तस्य ध्यानम् ? जिने त्वस्त्यसाविति तस्य ध्यानं भावत्येव / अत्रोच्यते-नन्वेवं तर्खमनस्कत्वाचित्ताभावे जिनस्यापि केवलिनः कुतस्तकोऽसौ कायनिरोधप्रयत्लसद्भावः ? भवेद् वाऽद्यापि किञ्चिन्मात्रं चित्तं सुप्तस्यापि, जिने तु केवलिन्यमनस्कत्वात् तत् सर्वथा नास्ति, ततश्च सुप्तस्य यदि न ध्यानमिष्यते, तर्हि जिनस्य तद् दूरतरकेण-दूरतरेण नेष्टव्यम् सर्वथा चित्ताभावेन कायनिरोधप्रत्यनाभावादिति /