________________ सिद्ध 524 - अभिधानराजेन्द्रः - भाग 7 सिद्ध अन्ने जहन्नमेयं, छमासमुकोसमिच्छति // 3048 / / कर्मण आयुषोलघुतायाः समयोऽत्र भिन्नमुहूर्तावशेषकालो जघन्यतः, उत्कृष्टतश्चान्तर्मुहूर्तावशेषं निजमायुर्विज्ञाय तदधिकवेदनीयादिकर्मस्थितिविघातार्थं; केवली समुद्धातमारभंत इत्यर्थः, अन्ये तु सूरय एतं भिन्नमुहूर्तलक्षणं जघन्यमवे कालं मन्यन्ते उत्कृष्टं तु षड्मासानिच्छन्ति-जघन्यतोऽन्तर्मुहूर्तशेषायुष्क उत्कृष्ठतस्तु षण्मासावशेषायुः समुद्धातं करोतीति केचिद् मन्यन्त इत्यर्थः / तदेतदन्यमतमयुक्तमिति दर्शयन्नाहतं नाणन्तरसेले-सिवयणओ जंच पाडिहेराणं / पचप्पणमेव सुए, इहरा गहणं पि होजाहि // 3046 // तदेतदन्वमतं न युक्तम् , आगमविरोधात्। तद्विरोधश्च समुद्धातानन्तरं तत्र शैलेशीप्रतिपत्तिवचनात्, शैलेश्यनन्तरं च सिद्धिगमनात्, कुतः षण्मासविशेषायुष्कत्वम् ? आनन्तर्थं षड्भिरपि मासैर्विवक्षया घटत एवेति चेत् ? इस्याशङ्कयाह-'जं जे' त्यादि, यस्माच्च समुद्धाताद् निवृत्य शरीरस्थस्य प्रातिहारक-पीठफलकादीनां "कायजोगं जुंजमाणेआगच्छेजा वा, चिडेजा वा, निसीएजा वा, अनुघट्टिजावा, उल्लंघेज्जा वा, पाडिहारियं, पीढफलगं, संथारगं, पचपिहिणिज्ज, इति प्रज्ञापनासूत्ररूपे श्रुते प्रत्यर्पणमवोक्तम्, इतरथा षण्मासावशेषायुष्कत्वेव चिरजीवित्वे तेषां ग्रहणमपि स्यात्, न च तत्रोक्तम्। तस्मादन्तमुहूर्तावशेषायुरेव समुद्धातं करोतीति / अथ समुद्धातशब्दार्थ समुद्धातारम्भात् पूर्वथ्यापारनिरूपणार्थ चाहतत्थाउयसेसाहिय-कम्मसमुग्घायणं समुग्धाओ। तं गंतुमणो पुव्वं, आवजीकरणमज्झेइ // 3050 / / आवजणमुवओगो, वावारो वा तदत्थमाईए। अंतोमुहुत्तमेत्तं, काउं कुरुए समुग्घायं // 3051 / / तत्रायुःशेषाणामधिकस्थितिकानां वेदनीयादिकर्मणां समुद्धातनं समुद्धातः / तं च गन्तुमनाः - प्रारिप्सुः पूर्वमावर्जीकरणमभ्येतिविदधाति / कथंभूतं तत् ? इति / उच्यते तदर्थ समुद्धातकरणार्थमादौ केवलिन उपयोगो ‘मयाऽधुनेदं कर्तव्यम' इत्येवंरूपः उदयावलिकायां कर्मप्रक्षेपरूपो व्यापारा वाऽऽवर्जनमुच्यते / तथाभूतस्य करणमावर्जीकरणं तदन्त-र्मुहूर्तमात्रं कालं कृत्वा ततः समुद्धातं कुरुत इति। कथंभूतं तदित्याशक्य 'दंडकवाडे' इत्यादिगाथां व्याचिव्यासुराह-- उड्डाहाययलोग- तगामिणं सो सदेहविक्खंमं / पढमसयम्मि दंडं, करेइ बिइयम्मि य कवाडं // 3052|| तइयसमयम्मि मंथं, चउत्थए लोगपूरणं कुणइ / पडिलोमं साहरणं, काउं तो होइ देहत्थो // 3053|| ऊर्ध्वमधश्वायतं दीर्घमुभयतोऽपि लोकान्तगामिनं स्वदेहप्रमाणविष्कम्भं केवली केवलज्ञानाभोगतः प्रथमसमये जीवप्रदेशसंघातात्मकं दण्डं करोति / द्वितीयसमये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणादुभयपाश्वेतो लोकान्तगामिनं कपाटमिव कपाटं करोति / तृतीयसमये तु तमेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणेन मन्थसदृशत्वाल्लोकान्तप्राप्तमेव मन्थानं करोति / एवं च लोकस्य प्रायो बहुपूरतिं भवति मन्थान्तराणि त्वपूरितानि तिष्ठन्ति, जीवपुद्गलयोरनुश्रेणिगमनात् / ततश्चतुर्थसमये तान्यपि मन्थान्तराणि सह निष्कुटै पूरयति ततश्च सकललोकः, पूरितो भवतीति / 'साहारणा' इत्यादेाख्यामाह'पडिलोम' मित्यादि, इदमत्र हृदयम्- लोकपूरणानन्तरमेव पञ्चमे समये यथोक्तक्रमात् प्रतिलोमं मन्थान्तराणि संहरति, जीवप्रदेशान सकर्मकान् सङ्कोचयति, षष्ठे समये मन्थानमुपसंहरतिघनतरसङ्कोचात्; सप्तमसमये तु कपाटमुप्रसंहरति, दण्डात्मनि सङ्कोचात्; अष्टमे तु समये दण्डमप्युपसंहृत्य शरीरस्थ एव भवतीति। आह-ननु समुद्धातगतस्य मनो-वाक्-काययोगेषु मध्ये को योगः कस्मिन् समये व्याप्रियते ? इत्याशङ्कयाहन किर समुग्घायगओ, मणवइजोगप्पओयणं कुणइ / ओरालियजोगं पुण, जुंजइ पढमहमे समए // 3054 / / उभयव्वावाराओ, तम्मीसंवीय छ? सत्तमए। ति चउत्थ पंचमे क-म्मयं तु तम्मत्तचेट्ठाओ // 3055|| किलशब्द आप्तोक्तौ इह समुद्धातगतः केवली मनोवाग्योगयोः प्रयोजनं व्यापारणं तावद् न करोत्येव, प्रयोजनाभावात् / औदारिककाययोगं पुनः प्रथमाष्टमसमयोर्युनक्ति-व्यापारयति, दण्डकरणादिक्रियायां तत्प्रयत्नविधानात् / द्वितीयषष्ठसप्तसमयेषु तु तन्मिश्रम- औदारिक कार्मणेन मिश्रे व्यापारयति, उमयप्रयत्नसद्भावात्। तृतीयचतुर्थपञ्चसमयेषु पुनः 'कम्मयं' ति–कार्मणकाययोगमेव व्यापारयति तन्मात्रचेष्टनादिति। समुद्धाताद् निवृत्तः किमसौ करोति ? इत्याह-- विणिवत्तसमुग्धाओ, तिन्नि वि जोए जिणो पउंजेज / सचमसचामोसं, च सो मणं तह वईजोगं // 3056|| ओरालियकाओगं, गमणाई पाडिहरियाणं वा / पचप्पणं करेजा, जोगनिरोहं तओ कुरुए // 3056|| इह समुद्धातगतस्तावद् न कोऽपि सिध्यति, निवृत्तसमुद्धातोऽन्तर्मुहूतं भव एव केवली तिष्ठति / तत्र च तिष्ठन्नसौ मनोवाक् - कायलक्षणांस्त्रीनपि योगान् प्रयुञ्जीत / तत्र मनोयोग, वाग्योग च सत्यमसत्यामृषं च प्रयुक्ते, असत्यमिश्रयोरतस्यासम्भवात्। काययोग त्वौदारिकं प्रयुञ्जानो गमनागमनादिकं प्रत्याहरणीयगृहीत-पीठफलकादिप्रत्यर्पणं वा कुर्यात्, तत एतेषां योगानां निरोधं करोतीति / अथ परप्रश्नमाशङ्कयोत्तरमाहकिं न सजोगो सिज्झइ, सबंधहेउ त्ति जं सजोगो य / न समेइ परमसुकं, स निज्जराकारणं झाणं // 3058 / / ननु कि मिति योगनिरोधं करोति, सयोग एवासौ किं न सिध्यति ? इति परेण पृष्टे सत्याह-यस्मात् स त्रिवि