________________ सिद्ध 523 - अभिधानराजेन्द्रः - भाग 7 सिद्ध चतुष्कस्य तुल्यस्थितिनियमः विषमनिबन्धनत्वेन विषमस्थितिकत्व- / स्यैव युज्यमानन्वात् इति / अथ विषमस्थितिकमपि समकं क्षपयति / तदयुक्तम् / कुतः? इत्याह - कह व अपुन्नट्ठिइयं, खवेउ कत्तो व तस्समीकरणं / कयनासाइभयाउ, तो तस्स कमक्खओ जुत्तो // 3040 / / कथं वा स मुमुक्षुरपूर्णस्थितिकमायुष्कापेक्षया दीर्घस्थितिकं वेदनीयनाम-गोत्रकर्मत्रये ह्रस्वस्थितिकायुष्कानुरोधन क्षपयतु-हस्वीकरोतु, कृतनाशप्रसङ्गात् ? कृतनाशश्चैवमेवाधिकस्य खण्डयित्वा नाशनात् / अथायुष्कं वृद्धिमुपनीय वेदनीयादिभिः सह समस्थितिकं कृत्वा समकमेव क्षपयतीत्याशङ्कयाह- 'कत्तो वे' त्यादि कुतो वायुष्कस्य वेदनीयादिभिः सह समीकरणं-समस्थितिकेत्वापादनम्, अकृताभ्यागमप्रसङ्गात् ? तत्प्रसङ्गश्व हस्वस्यायुषो दीर्घत्वापादनात् / ततस्तस्य मुमुक्षोर्वेदनीयादिकर्मणां कर्मक्षय एव युक्तः प्रथममायुषस्ततः शेषाणामिति / अत्र गुरुरुत्तरमाहभण्णइ कम्मखयम्मी, जयाउमाईऐं तस्स निद्वेज्जा। तो कहमत्थउ समवे, सिज्झउ व कहं सकम्मंसो॥३०४१।। भण्यतेऽत्रोत्तरम्- कर्मक्षये मुक्तिगमनसमयवर्तिनि कर्मक्षयकाले, पाठान्तरतः क्रर्मक्षये वा यद्यायुगदावे तस्य निस्तिष्ठेत् निष्ठां यायात्, क्षीयेतेत्यर्थः शेषाणि तु क्रमशः पश्चात्, ततः कथमसौ क्षीणायुष्कः शेषकर्मक्षपणार्थं भवे तिष्ठतु, तदवस्थाननिबन्धनस्यायुष्कस्याभावात् ? अथ तदभावात् सिध्यत्वसौ, किं निवार्यते ? तदयुक्तम्, यत आयुषि क्षीणेऽपि सहवेदनीयादिकौशैर्वर्तते इति सकर्माशः कथं सिध्यतु, 'सकलकर्मक्षयादेव मोक्षः इति वचनात् ? इति / तर्हि किमत्र युक्तम् ? इत्याह - तम्हा तुल्लट्ठिइयं, कम्मचउकं सभावओ जस्स / सोअकयसमुग्घाओ, सिज्झइ जुगवं खवेऊणं // 3042 // जस्स पुण थोवमाउं, हवेज सेसं तयं च बहुतरयं / तं तेण समीकुरुए-तूण जिणो समुग्धायं // 3043 / / द्वे अपि सुगमे / नवरं 'तेण' त्ति-तत् शेषकर्मत्रिकमपवर्तनातः खण्डयित्वा तेनायुष्केण समं कुरुत इति / नन्वेवं कृतनाशादिदोष उक्तः स कथं परिहर्त्तव्यः ? इत्याहकयनासाइविधाओ, कओ पुरा जह य नाण किरियाहिं। कम्मस्स कीरइ खओ न चेदमोक्खादओ दोशा // 3044 // कृतनाशादिदोषाणां विधातः-परिहारः कृतोऽस्माभिः क्व ? पुरापूर्वमुपक्रमकालविचारे, 'नहि दीहकालियस्स वि, नासो तस्साणुभूइओ खिप्पं / बहुकालाहारस्सव, दुयमग्गियरोगिणो भोगो!॥१॥" इत्यादिना गन्थेण / यथा च ज्ञान-क्रियाभ्यां चिरकालस्थितिकस्यापि कर्मणः क्षिप्रमेव क्षयः क्रियते, तथा प्रागपि 'सज्झमुवाकामिजइ, एतो चिय सज्झरोगो व्व।' इत्यादिनाऽनेकशः प्रोक्तम् / न चेदुपक्रम इष्पते, त मोक्षादयो दोषा इत्यपि जइ ताणुभूइय चिय खविजए कम्ममन्नहा न मयं' इत्यादिना प्रागुक्तमेव / तदेवमेतावता 'नाऊण वेयणिज्ज' इत्यादि नियुक्तिगाथा व्याख्यातेति / अथ परप्रेर्यमाशङ्कय परिहरन्नाहअसमट्टिईण नियमो, को थोवं आउयं न सेसं ति। परिणामसभावाओ, अर्धवबंधो व्व तस्सेव // 3045 / / 'असमस्थितिकानां कर्मणां स्तोकमायुरेव, न शेषं वेदनीयादिकम्' इति कोऽयं नियमः येनोच्यते- 'नाऊण वेयणिज्जं अइबहुयं आउगं च थोदागं' इति ? इदमपि कस्माद् नोच्यते- 'नाऊण आउयं खलु अइबहुयं थोवयं न वेयणियं' इति ? अत्रोच्यते - बन्धपरिणामस्वाभाव्यात्, एवंभूतो ह्यायुषः कोऽपि बन्धपरिणामो वर्तते, येन पर्यन्ते वेदनीयाधपेक्षया समं स्तोक वा भवति, नत्वधिकमिति / अत्र दृष्टान्तमाह-यथा बन्धपरिणामस्वाभाव्यादध्रुवबन्धस्तस्यौवायुषो भवति, अन्तर्मुहूर्त-मात्रबन्धकालत्वात् नतुवेदनीयादेः तस्य ध्रुवबन्धित्वात्, एवमत्रापि स्तोकत्वमायुष एव, न तु वेदनीयादेरिति। आह-ननु समुद्धातगतो जम्तुर्वेदनीयादिकर्मणः किं कारोति ? इत्याहविसमं स करेइ समं, समोहओ बंधणेहि ठिइए य / कम्महव्वाइंबं-घणाई कालो ठिई तेसिं // 3046|| स समवहतः केवलिसमुद्धातगतो जीव आयुष्कादधिकत्वेन विषम वेदनीयादिकर्मत्रयमपर्वतमानः खण्डयित्वा आयुष्केण समं करोति / कैः कृत्वा समं करोति / इत्याह-- बध्यते जीवो यैस्तानि बन्धनानि तैबन्धनैः कर्मद्रव्यैः, स्थित्या च काललक्षणया / अत एवाहकर्मद्रव्याणि बन्धनानि भण्यन्ते, कालस्तु स्थितिस्तेषां वेदनीया- . दीनामिति। समीकुर्वश्चैतद्विशिष्टदलिकनिषकेणान्तर्मुहूर्त-स्थितिकं सर्वं करोति। कथम् ? इत्याहआउयसमयसमाए, गुणसेठीऍ तदसेखगुणियाए। पुष्वरइयं खवेहिइ, जह सेलेसी पइसमयं // 3047|| वेद्यमानस्यायुषो यावन्तः समयाः शेषा अवतिष्ठान्ते तत्समयसमानयाऽन्तर्मुहुर्तप्रमाणयेत्यर्थः दलिकमाश्रित्यासंख्येयगुणया प्रथमसमयनिषिक्तदलिकाद् द्वितीयसमयनिषिक्तम संख्येयगुणम्, ततोऽपि तृतीयसमयनिषिक्तमसंख्येयगुणम् एवं यावचरम समयनिषिक्तमसंख्येयगुणमिति; एवमसंख्येयगुणया, स्थानान्तरप्रसिद्धया गुणश्रेण्या तद् वेदनीयादिकर्मत्रयं केवलज्ञानाभोगेनाकलय्य तथा रचयति यथाऽनन्तरोक्तन. प्रकारेण पूर्वरचितं तदेतत् शैलेश्यां प्रतिसमयं क्षपयंश्वरमसमये सर्वमसौ क्षयपिष्य ति। अत्र गुण श्रेणिस्थापना आयुषस्तु गुणश्रेणिर्न भवति, किन्तु यथाबद्धमेव तद् वेद्यते / अतस्तस्यै वं स्थापना - 'जह उल्ला साडीया' इत्यादिगाथायाः पूर्वार्धसुगमत्वाद् न व्याख्यातम् / उत्तरार्धं तु यदुक्तम्- तह कम्मलहुयसमए' ति तत्र कर्मलघुतायाः समयः कः? इत्याह-- कम्मलहुयाएँ समओ, भिन्नमुहत्तावसेसओ कालो।