________________ सिद्ध 522 - अभिधानराजेन्द्रः - भाग 7 सिद्ध तान्तरव्यवच्छेदार्थमेतत् / तथा बाहुरेके -- "दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम्। दिशं न काञ्चिद्विदिशं न काश्चित्, स्नेहक्षयात्केवलमेति शान्तिम् // 1 // जीवस्तथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम्। दिशं न काञ्चिद्विदिशं न काञ्चित्स्नेहक्षयात्केवलमेति शान्तिम् // 2 // " इत्यादि एवंविधसिद्धत्वाभ्युपगमे दीक्षादिप्रयासवैयनिरन्वयक्षणभङ्गस्य चाघट्मानत्वादिति। अथवा 'दीहकालस्य' इति एतदन्यथा व्याख्यायते रयो वेगश्चेष्टाविशेषः फलमनुभव इत्यनर्थान्तरम् ततश्च सन्तानेनानुभूयमानत्वाद्दीर्घकालो रयोऽनुभवो यस्य तद्दीर्घकालस्यं यद्भव्यकर्म जन्तुकर्म वा तथा 'ससिय' मिति एतदप्यन्यथा व्याख्यायते-लेश्याविशेषाश्लषितं वययोगोलक न्यायाजीवेन सह संश्लेषमुपगतम् / अष्टधा सितमित्यादितु तथैवेति नियुक्तिश्लोकसंक्षेपार्थः। आह ननु यच्छेषितं भवोपग्राहि चतुर्विधं कर्म तद्यदि पर्यन्ते समस्थितिकं भवति तदा समकालमेव क्षपयित्वा मोक्षं गच्छतीत्यर्थादवगम्यते, यदा तु विषमस्थितिकं तद् भवति तदा किं करोतीत्याह ?नाऊण वेयणिजं, अइबहुयं आउयं च थोवागं / गंतूण समुग्घायं, खवेइ कम्मं निरवसेसं // 3030|| सम्यगपुनविन उत्प्राबल्येन कर्मणां हननंघातः प्रलयो यस्मिन्प्रयनविशेषे असौ समुद्धातः। तत्स्वरूपमेवाह - दण्डकवाडे मन्थन्तरे य साहगया सरीरत्थे / मास जोगनिरोहे, सेलेसी सिजणा चेव // 3031 / / नन्ववेभूतः समुद्घातगतानां विशिष्टः कर्मक्षयो भवतीति कोऽत्र हेतुरिति ? अत्रोच्यते प्रयत्नविशेषः / किं पुनरत्र निदर्शनमित्यत्राहजह उल्ला साडीया, आसुं सुक्का विरल्लिया संती। तह कम्मलहुयसमए, वचंति जिणा समुग्धायं // 3032 / / एता अपि तिस्रो नियुक्तिगाथाः / अथ 'दीहकालरय' मित्यादेः भाष्यकारो व्याख्यामाहसंताणओ अणाई, दीहो ठिइकाल एवं बंधाओ। जीवाणुरंजणाओ, रउ त्ति जोगो त्ति सुहुमो वा // 3033 / / सो जस्स दीहकालो, कम्मं तं दीहकालरयमुत्तं / अइदीहकालरंजण-महवा-चेट्ठाविसेसत्थं // 3034 / / 'बंधानु'ति-बन्धमाश्रित्य सन्तानतः-सन्तानभावेन अनादित्याद्दीर्धः स्थितेः कालो यस्य तद्दीर्घकालं जीवस्यानुरञ्जनात् - मालिन्यापादनाद्रजः, अथवा - 'जोगो' ति स्नेहेन बन्धनयोग्यो भवतीति साम्यद्रिजः / अथवा- 'सुहुमो त्ति सूक्ष्मत्वसाम्यद्रिजःकर्म भण्यते। सो जस्स' इत्यादिना समासः, स च विहित एव / किमुक्तं / भवतीत्याह -'अइदीहे त्यादि अतिदीर्घकालं जीवस्य रञ्जनं मालिन्यापादने रज इति / अथवा -- रय इत्येतत्वदं चेष्टाविशेषार्थ, ततश्च दीर्घकालो रयो वेगश्चेष्टाविशेषो जीवेऽनुभवो यस्य तद्दीर्घकालरथमित्यर्थः। किं पुनस्तदित्याशय 'जन्तुकम्म' इत्यस्य व्याख्यानमाहजं कम्मं ति तुसद्दो, विसेसणे पूरणेऽहवा जीवो। जंतु त्ति तस्स जंतो, कम्मं से जं सियं बद्धं // 3035 / / यद् दीर्घकालरजोरूपं दीर्घकालरयं वा कर्मेति / तुशब्दो विशेषणे / तेन विशेषतो भव्यस्य सम्बन्धि तद् गृह्यते। अर्थ ध्मातत्वप्रस्तावादेव भव्यसम्बन्धित्वं कर्मणो लभ्यते, तर्हि पूरयतीति पूरणेः तुशब्दः पूरणार्थः / अथवा - जीवो जन्तुस्तस्य जन्तोः कर्म जन्तुकर्मेत्येवं व्याख्यायते। 'से-सियं' इत्यस्य व्याख्यामाह - 'से' तस्य जीवस्य यत् सितंबद्धं, "षिञ्' बन्धने, इत्यस्य घातोर्निष्ठान्तस्य प्रयोगादिति। अथ 'सेसियं' इत्यस्यापराण्यपि व्याख्यानान्तराण्याहअहवा सेसियमसियं, गहियं वत्तमइसंसिलिटुं वा। जं वा विसेसियमट्ठ-ह त्ति खयसेसियं व त्ति // 3036 / / अथवा - 'से' तस्य जीवस्य सर्वमपि कर्म संसारानुबन्धत्वादसितं; कृष्णमशुभमित्यर्थः / अथवा - 'षो' अन्तकर्मणि 'गाहियं वत्त' तिजीवेन गृहीतं व्याप्तं व्याप्तिमानीतमिति सितम् / अथवा - 'सेसियं' ति-लेश्याविशेषात् श्लेषितं जीवेन श्लेषविशेषमानीतमिति, संश्लिष्टं बाधकं कृतमिति संश्लेषितम् / 'जं वा विसेसियमट्टह' त्ति अथवा -- एकदेशेन समुदायस्य गम्यमानत्वाद्यदष्टधा विशेषितं व्यवच्छिन्नं तत् शेषितं विशेषितमिहोच्यते / अथवा - क्षयेण क्षपणया क्रमशः शेषितं स्थित्यनुभवादिनाऽल्पीकृतमित्यर्थः / अथ 'सितं ध्यातमस्येति सिद्ध' इति निरुक्तविधिमुपद शयन्नाहनेरुत्तियं सियं धं-तमस्स तवसा मलो व लोहस्स। इय सिद्धस्सेयसओ, सिद्धृत्तं सिज्झणा समए // 3037|| उवजायइ त्ति ववहा-रदेसणमभावया निसेहो वा / पज्जायंतरविगमे, तप्पज्जायंतरं सिद्धो // 3038|| द्वे अपि गतार्थे / नवरम् 'अभावया निसेहोव' त्तिनिर्वाणप्रदीपकल्पतदभावरूपं सिद्धत्वमिति यत् कैश्चिदुच्यते, तदभिमताया अभावरूपतायाः 'सिद्धत्वमुपजायते' इत्यनेन निषेधो वा क्रियते, सिद्धत्वं भावरूपमुपजायते, न पुनः पूर्वपर्यायस्य भाव एव भवतीत्यर्थः। अथ 'नाऊण वेयणिज्ज (3030) इत्यादिगाथायाः प्रस्तावनार्थमाहकम्मचउकं कमसो, समंति खइमेइ तस्स भणियम्मि। समयं ति कए भासइ, कत्तो तुल्लट्ठिई नियमो ?||3036 / / भवोपग्राहिकर्मचतुष्टयं तस्य मुमुक्षोर्मोक्षगमनसमये क्रमशः क्षयमेति, समकं वा युगपदिति कथ्यताम् ? एवं भणिते परेण पृष्टे सूरिराह'समयंति' त्ति-समकंयुगपत् तस्य तत् कर्मचतुष्कं क्षयमेति न तु क्रमशः इति / एवं च सूरिणात्तरे कृते पुनरपि भाषते परः-कुतः कर्म