________________ सिद्ध 533 - अभिधानराजेन्द्रः - भाग 7 सिद्ध ईशानदेवेभ्योऽपयनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि | सौधर्मदेवेभ्योऽप्यनन्तरागताः सिद्धाः संख्येयगुणाः, उक्तं च"नरगचउत्थापुढवी, तच्चा दोचा तरू पुढवि आऊ। भवणवइ देवि दवा, एवं वणजोइसाणं पि / / 1 / / मणुई मणुस्स नारय--पढमा तह तिरिक्खिणी य तिरिया य / देवा अणुत्तराई, सव्वे वि सणंकुमारंता // 2 // ईसाणदेवि सोह-म्मदेवि ईसाणदेव सोहम्मा। सव्वे वि जहाकमसो, अणंतरायाउ संखगुणा // 3 // " गतं गतिद्वारम् / सम्प्रति वेदद्वारम्-अत्र सर्वस्तोका नपुंसकसिद्धाः, तेभ्यः स्त्रीसिद्धाः संख्येयगुणाः, तेभ्योऽपि पुरुषसिद्धाः संख्येयगुणाः, उक्तं च- "थोवा नपुंस इत्थी, संखा संखगुणा य तओ पुरिसा।" तीर्थद्वारे-सर्वस्तोकाः तीर्थकरीसिद्धाः, ततः तीर्थकरीतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरीतिर्थे अतीर्थकरीसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरीतीर्थे एवातीर्थकरसिद्धाः संख्येयगुणाः, तेभ्यः तीर्थकरसिद्धा अनन्तगुणाः, तेभ्योऽपि तीर्थकरतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरतीर्थ एव साध्वीसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थकरतीर्थ एवातीर्थकरसिद्धाः संख्येयगुणाः, लिङ्गद्वारे-गृहिलिङ्गसिद्धाः सर्वस्तोकाः तेभ्योऽप्यन्यलिङ्गसिद्धा असंख्येयगुणाः, तेभ्योऽपि स्वलिङ्गसिद्धा असंख्येयगुणाः / उक्तं च- "गिहिअन्नसलिंगेहिंसिद्धा थोवा दुबे असंखगुणा'' चारित्रद्वारेसर्वस्तोकाश्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः, तेभ्यः सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराय-यथाख्यात-चारित्रसिद्धाः संख्येयगुणः, तेभ्योऽपि छेदोपस्थापनसूक्ष्मसम्पराय-यथाख्यातचारित्रसिद्धा असंख्येयगुणाः, सामायिकरहितं च छेदोपस्थापनं भग्नचारित्रस्याव-गन्तव्यं, तेभ्योऽपि सामायिकच्छेदोप-स्थापनसूक्ष्म-सम्पराययथाख्यातचारित्रसिद्धाः संख्येयगुणाः, तेभ्योऽपि सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः, संख्येयगुणाः, उक्तं च- "थोवा परिहारचऊ, पंचग संखा असंखछेयतिगं / छेयचउक्नं संखे, सामाइयतिग च संखगुणं / / 1 / / '' बुद्धद्वारे- सर्वस्तोकाः स्वयम्बुद्धसिद्धाः, तेभ्यः प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, तेभ्योऽपि बुद्धीबोधितसिद्धाः संख्येयगुणाः, तेभ्योऽपि बुद्धबोधितसिद्धाः संख्येयगुणाः, ज्ञानद्वारे- मतिश्रुतमनः पर्यायज्ञानिनः सिद्धाः सर्वस्तोकाः, तेभ्यो मतिश्रुतज्ञानिसिद्धाः संख्येयगुणाः, तेभ्योऽपि मतिश्रुतावधिमनः पर्यवज्ञानिसिद्धाः असंख्येयगुणाः, तेभ्योऽपि मतिश्रु-तावधिज्ञानिसिद्धाः संख्येयगुणाः, उक्त च- "मणपज्जवनाणतिगे, दुगे च उक्के मणस्स नाणस्स / थोवा संख असंखा, ओहितिगे हुंति संखेज्जा / / 1 // ' अवगाहनाद्वारे -सर्वस्तोका द्विहस्तप्रमाणजधन्यावगाहनासिद्धाः तेभ्यो धनुःपृथक्त्वाभ्यधिकपञ्चधनुःशतप्रमाणोत्कृष्टावगाहनासिद्धाः असंख्येयगुणाः, ततो मध्यमावगाहनासिद्धा असंख्येयगुणाः, उक्तं च- "ओगाहणाजहन्ना, थोवा उक्कोसिया असंखगुणा / तत्तो वि असंखगुणा, नायव्वा भज्झिमाए वि // 1 // ' अत्रैव सिद्धप्राभृतटीकाकारोपदर्शितो विशेष उपदीत-सर्वस्तोकाः सप्तहस्तप्रमाणावगाहनासिद्धाः तेभ्यः पञ्चधनुःशतप्रमाणा-वगाहनासिद्धाः संख्येयगुणाः, ततो न्यूनपञ्चधनुःशतप्रमाणावगाहनासिद्धाः संख्येयगुणाः, तेभ्योऽपि सातिरेकसप्तहस्तप्रमाणावगाहनासिद्धा विशेषाधिकाः, उत्कृष्टद्वारे- सर्वस्तोकाः अप्रतिपतितसिद्धाः तेभ्यः संख्येयकालप्रतिपतितसिद्धा असंख्येयगुणाः तेभ्योऽप्यसंख्येयकालप्रतिपतितसिद्धाः संख्येयगुणाः तेभ्योऽप्यनन्तकालप्रतिपतितसिद्धा असंख्येयगुणाः, उक्तं च-"अप्पडिवाइयसिद्धा, संखाखा अणंतकाला य / थोवा असंखेज्जगुणा, संखेजगुणा असंखेज (ख) गुणा // 1 // " अन्तरद्वारे-सर्वस्तोकाः षण्मासान्तरसिद्धाः तत एकसमयान्तरसिद्धाः संख्येयगुणाः ततो द्विसमयान्तरसिद्धाः संख्येयगुणाः ततोऽपि त्रिसमयान्तरसिद्धाः संख्येयगुणाः एवं तावद्वाच्यं यावद्यवमध्यम्. ततः संख्येयगुणहीनास्तावद्वक्तव्या यावदेकसमयहोनषण्मासान्तरसिद्धेभ्यः षण्मासान्तरसिद्धाः संख्येयगुणहीनाः, अनुसमयद्वारे-- सर्वस्तोकाः अष्टसमयसिद्धाः ततः सप्तसमयसिद्धाः संख्येयगुणाः तेभ्यः षट्समयसिद्धाः संख्येयगुणा एवं समयसमयहान्या तावद्वाच्यं यावद् द्विसमयसिद्धाः संख्येयगुणाः, उक्त च- "अट्ठसमयम्मि थोवा, संखेज्जगुणा उ सत्त समया उ / एवं पडिहायते जाव पुणो दोन्नि समया उ॥१॥" अत्र 'अट्ठसमयंमि' इत्यादौ द्विगुसमाहारत्वादेकवचनं, गणनाद्वारेसर्वस्तोका अष्टशतसिद्धाः ततः सप्ताधिकशतसिद्धा अनन्तगुणाः तेभ्योऽपि षडधिकशतसिद्धाः अनन्तगुणाः तेभ्यः पञ्चाधिकशतसिद्धा अनन्तगुणा एवमेकैकहान्या अनन्तगुणाः तावद्वाच्या यावदेकपञ्चाशतसिद्धेभ्यः पञ्चाशत्सिद्धा अनन्तगुणाः, ततः तेभ्य एकोनपञ्चाशत्सिद्धा असंख्यगुणाः तेभ्योऽप्यष्टचत्वारिंशत्सिद्धा असंख्येयगुणाः एवमेकैकपरिहान्या तावतच्यं यावत्षड्विशतिसिद्धेभ्यः पञ्चविंशतिसिद्धा असंख्येयगुणाः, ततः तेभ्यश्चतुर्विशतिसिद्धाः संख्येयगुणाः, तेभ्योऽपि त्रयोविंशतिसिद्धाः संख्येयगुणाः एवमेकैकहान्या संख्येयगुणाः तावद्वाच्या यादद् द्विसिद्धेभ्य एकैकसिद्धाः संख्येयगुणाः / उक्तं च- "अट्ठसयासद्ध थोवा, सत्तहियसया अणंतगुणिया य। एवं परिहायंते, सयगाओ जाव पन्नासं / / 1 / / तत्तो पण्णासाओ, असंखगणिया उ जाव पणवीसं / पणवीसा आरंभा, संखगुणा होति एगं जा // 2 // " राम्प्रति अस्मिन्नेवाल्पबहुत्वद्वारे यो विशेषः सिद्धप्राभृते दर्शितः स विनेयजनानुग्रहाय दय॑त-तत्र सर्वस्तोका अधोमुखसिद्धाः, ते चपूर्ववैरिभिः पादेनोत्पाट्य नीयमाना अधोमुखकायोत्सर्गव्यवस्थिता वा वेदितव्याः, तेभ्य ऊर्ध्वस्थितकायोत्सर्गस्थिताः संख्येयगुणाः, तेभ्योऽपि उत्कुटुकासनसिद्धाः संख्येयगुणाः, तेभ्योऽपि वीरासनसिद्धाः संख्येयगुणाः, तेभ्योऽपि न्युब्जासनसिद्धाः संख्येयगुणाः, न्युब्जोपविष्टा एवाधोमुखा द्रष्टव्याः, तेभ्योऽपि पार्श्वस्थितसिद्धाः संख्येयगुणाः, तेभ्योऽप्युत्तानस्थितसिद्धाः संख्येयगुणाः, तथा चैतदेव पश्चानुपूर्व्याऽभिहितम्- "उत्तानगपासिल्लग, निउज वीरासणे य उनुहुए। उद्घट्ठिय ओमथिय, संखेजगुणेण हीणा उ // 1 // तदेवमुक्तमल्पबहुत्थद्वारम्।। सम्प्रति सर्वद्वारगताल्पबहुत्वविशेषोपदर्शनाय सन्नि