________________ संखय 61 - अभिधानराजेन्द्रः - भाग 7 संखय स्वरुपा उपसामीप्येन मीयते-परिच्छिद्यते स्वयप्रसिद्ध्या अपरमप्रसिद्ध रस्त्वनयेत्युपमा, केषां?शाश्वता इव वदितुं शीलमेषामिति शाश्वतवादिनः, उष्ट्रक्रोशिव "कर्तर्युपमाने" (पा०३-२-१६) इति णिनिः, तषां शाश्वतवादिनाम, आत्मनि मृत्युमनियतकालभाविनम-पश्यताम्, इदमिहाकूतम्-यो हि छन्दोनिरोधमुत्तरकालमेव करिष्यामीति वक्रि सोऽवश्य शाश्वतवादी, स चैवं प्रज्ञाप्यते-यथा भद्र ! इदानीं भवतस्तकालात्पूर्वमसावुक्तहेतुतो न समस्ति, तथोत्तरकालमप्यसौ प्रमादिनस्तव न भवितेति। यदिवा एषाउपमेति-उपेत्युपयोगपूर्वकं मेति ज्ञानमुपमासम्प्रधारणा यदुत पश्चाद्धर्म करिष्यामः इति शाश्वतवादिनानिरूपक्रमायुषाम, ये निरूपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यन्ते तेषां युज्येतापि, न तु जलबुदबुद-समानायुषाम, तथा चासावुत्तरकालमपि छन्दोनिरोधमनाप्नुवन् विषीदति-कथमहमकृतसुकृतः सम्प्रत्यनर्वाक्पारं भवाम्भोधि भ्राम्यन् भविष्यामीत्येवमात्मक वैक्लव्यमनुभवति / कदा? शिथिलयति-आत्मप्रदेशान् मुञ्चति आयुषि-मनुष्यभवोपग्राहिण्यायुष्कर्माणि, 'कालोवणीय क्ति कालेनमृत्युना स्वस्थितिक्षयलक्षणेन वा सयमेनोपनीतः उपढौ कितः-तस्मिन्, क? इत्याह-शरीरस्यऔदारिककायात्मकस्य भेदे-सर्वपरिशाटतःपृथग्भावे, तदिदमैदम्पयम-आदित एव न प्रमादवद्भिर्भाव्यम्, तथा चाह-“गमनं किमद्य किं श्वः, कदाऽपि वा सर्वथा ध्रुवं कापि? इति जानन्नपि मूढस्तथाऽपि मोहात्सुखं शेते॥१॥” इति सूत्रार्थः / किं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभत इत्याहखिप्पं न सकेइ विवेगमे, तम्हा समुट्ठाय पहाय कामे। समेच लाभं समता महेसी, आयाणरक्खी चरमप्पमत्तो // 10 // क्षिप्रं तत्क्षण एव न शक्नोति न समर्थो भवति, किं कर्तुम्? एतुं-गन्तुं. प्राप्तुमिति यावत्, कम्? विवेक द्रव्यतो बहिः सङ्गपरित्यागरूपं, भावतस्तु-कषायपरिहारात्मकम्, न ह्यकृतपरिकर्मा झगिति तत्परित्याग कर्तुमलम् / अत्रोदाहरणं ब्राह्मणी- "एगो मरुतो परदेसं गंतूण साहापारतो होऊण सविसयमागतो, तस्सऽन्नण मरूतेण खद्धपलालितो लि काउंदारिका दत्ता। सोय लोए दक्खिणातो लहति, परे विभवे वड्डति तण तीसे भारियाए सुब-हु अलंकारं कारियं / सा निच्चमंडिया अच्छइ। तण भण्णइ-एस प.चंतगामो, ता तुमं एयाणि आभरणगाणि त्रिहि पव्वणीषु आवि-धाहि, कहिं चोरा उवगच्छेज्जा तो सुह गोविज्जति। सा भणइ-अहं ताए वेलाए सिग्धमेव अवणेस्सं ति। अन्नया तत्थ चोरा पडिया, तमेव णिच्चमडियागिह अणुपविट्टा, सा तेहिं सालंकिया गहिया, साय पणीयभोयणता मंसोवचितपाणिपायाण सक्केइ कडगाईणि अवणेउं, रातो मरहिं तीसे हत्थे छेत्तूण अवणीया, गेण्हिउंच निग्गया।" एवमन्योऽपि प्रागकृतपरिकनि तत्काल एव विवेकमेतुं शक्नोति, मलापध्वंसतस्तु तथा सति दुरापास्त एवेति न च मरूदेव्युदाहरणं तत्राप्यभिधेयम्, / आश्चर्यरूपत्वादस्य, न ह्येवंतीव्रभावा बहवः सम्भवन्ति, यतएवंतस्मात् सम् इति- सम्यक प्रवृत्त्या उत्थायेति च पश्नाच्छन्दो निरोल्स्याम इत्यालस्यत्यागेनोद्यम विधाय, तथा 'पहाय कामे' त्ति प्रकर्षणमनसाऽपि तदचिन्तनात्मकेन हित्वा त्यक्त्वा कामान्-इच्छाम-दनात्मकान् समेत्य-सम्यग् ज्ञात्वा लोक समस्तप्राणिसमूह, कया? समतयासमशत्रुमित्रतया क्वचिदरक्तद्विष्टतयेति यावत्, तथा च महर्षिः सन्, महः-एकान्तोत्सवरूपत्वान्मोक्षस्तमिच्छतीत्येवंशीलो महेषी वाकिमुक्तं भवति? विषयाभिलाषविगमान्निर्निदानः सन् आत्मानं रक्षत्यपायेभ्यःकुगतिगमनादिभ्य इत्येवंशील आत्मरक्षी, यद्वा आदीयते-स्वीक्रियते आत्महितमनेनेत्यादानः-संयमः तद्रक्षी 'चरमप्पत्तो' तिमकारोऽलाक्षणिकः, ततश्चाप्रमत्तः-प्रमादरहिः, इह च प्रमादपरिहाराऽपरिहारयोरहि-कमुदाहरण वणिग्महिला। तत्र च सम्प्रदायः- “एगा वणिगमहिला पउत्थपतिया सरीरसुस्सूसापरा दासभयगकम्मकरे णिजणिज-भियोगेसु न नियोजयति, न य तेसिं कालोववन्नं जहिच्छ आहारं भतिं वा देति, ते सव्वे नट्टा / कम्मतपरिहाणीए विभवपरिहाणी। आगतो वाणियओ। एवविह पस्सिऊण पच्छा तेण णिच्छूढा / अण्णं तु पुक्खलेणं सुकेणं वरेति, लद्धा पणेण / तेण तीसे णियगा भण्णन्ति-जइ अप्पाणं रक्खइ ता परिणेमि त्ति, ताए यऽमुणिय-परमत्थाए दुग्गयकन्नगाए सोउं नियगा भण्णति-रवखामि (क्खि-हिइ) अप्पगं, सा तेण विवाहिया, गतो वाणिजेण। साऽवि दासभयगकम्मकरादीणं संदेसं दाउंतेसिं पुव्वण्हिकाइकाले भोयणं देइ, महुराहिं च वायाहिं उच्छाहेइ, भई च तेसिं अकालपरिहीण देइ, णय णियगसरीरसुस्सूसापरा। एवमप्पाणं रक्खंतीए भत्ता उवागओ। सो एवंविहं पस्सिऊण तुट्ठो, तेण सव्वसामिणी कया।" इत्थं तावदिहेव गुणायाऽप्रमादो दोषाय च प्रमादः, आस्तामन्य-जन्मनीत्यभिप्रायेणात्रवैहिकोदाहरणाभिधानमिति परिभावनीयमिति सूत्रार्थः / प्रमादमूलं च रागद्वेषाविति सोपायं तत्परिहारमाहमुहं मुहं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं। फासा फुसंती असमंजसं च, ण तेसु भिक्खू मणसा पउस्से ||11|| मंदाय फासा बहुलोभणिज्जा, तहप्पगारेसु मणं ण कुजा। रक्खेज्जा कोहं विणएज्ज माणं, मायं ण सेवेज पहिज लोहं / / 12 / / मुहुर्मुहुः-वारं वारम्, सततप्रवृत्त्युपलक्षणमेतत्, मोहयति जानानमपि जन्तुमाकुलयति प्रवर्त्तयति चान्यथेहेति मोहः तस्य गुणाः मोहगुणाः - तदुपकारिण: शब्दादयः, तान् जयन्तम् - अभिभवन्तम्, किमुक्तं भवति ? अविच्छेदतस्तजयप्रवृत्तम्, यद्वाकथञ्चिन्मोहनीयात्यन्तोदयत एकदा तैः पराजितमपिपुनः पुनस्तजयं प्रति प्रवर्त्तमानं नतुतत एव विमुक्तसंयमोद्योगम्, अनेकरूपाः-अनेकमितिअ