________________ संखय 60 - अभिधानराजेन्द्रः - भाग 7 संखय वा अभिभूतं तत् तथाविधधर्माधानं प्रति समर्थम्, उक्त हि- "जरा जाव ण पीलेति, वाही जाव ण वड्डति / जार्विदिया ण हायति, ताव धम्म समायरे / / 1" एवं ज्ञपरिज्ञया परिज्ञाय ततः प्रत्याख्यानपरिज्ञया च भक्तं प्रत्याख्याय, सर्वथा जीवितनिरपेक्षो भूत्वेति भावः / मलवदत्यन्तमात्मनि लीनतया मल:-अष्टप्रकार कर्म तदपध्वंसत इत्येवंशीलः, मलापध्वंसीमलविनाशकृत, स्यादिति शेषः। ततो यावल्लाभ देहधारणमपि गुणायैवेति भावः। यद्वा-जीवितं हयित्वा लाभान्तरे-लाभविच्छेदेऽन्तर्बहिश्व मलाश्रयत्वान्मल:-औदारिकशरीरं तदपध्वंसी स्यात्, कोऽर्थः-जीवितं त्यजेद् / इदभुक्तं भवति-अयमस्यैको हि गुणों मानुष्यमवाप्य लभ्यते धर्म इति भावयन् यावदितस्तल्लाभः ताव-दिदं बृहयेत्, लाभविच्छेदं सम्भाव्य संलेखनादिविधानतस्त्यजेत्। (उत्त०) (इह च यावल्लाभधारणे मण्डिकचौरोदाहरणम् ‘मडिय' शब्दे षष्ठे भागे 21 पृष्ठे व्याख्यातम।) दृष्टान्तानुवादपूर्वकोऽय-मिहोपनयः-यथाऽयमकार्यकार्यपि मण्डिको यावल्लाभ मूलदेवनृपतिनाधारितः तथा धर्मार्थिनाऽपि संयमोपहतिहेतुकमपि जी-वितं निर्जरालाभमभिलषता तल्लाभ यावद्धार्यमिति। न च तद्धारण संयमोपरोध एव, यथाऽऽगम हि प्रवृत्तस्य तत्तदुपष्टम्भकमेवेति भावनीयम् इत्यलं प्रसङ्गे नेति सूत्रार्थः / सम्प्रति यदुक्तं जीवित बृंहयित्वा मलापध्वंसी स्या दिति तत्कि स्वातन्त्र्यत एव उतान्यथेत्याहछंदं णिरोहेण उदेति मुक्खं, आसे जहा सिक्खियवम्मधारी। पुव्वाइवासाइचर ऽप्पमत्तो, तम्हा मुणी खिप्पमुवेति मुक्खं ||8|| छन्दो-वशस्तस्य निरोधः छन्दोनिरोधः-स्वच्छदतानिषेधः तेन उपैतिउपयाति मोक्षं-मुक्तिम्। किमुक्त भवति ? गुरुपरतन्त्रतया स्वाग्रहाग्रहयोगिता विना तत्र प्रवर्तमानोऽपि संक्लेशविकल इति न कर्मबन्धभाक, किन्त्वविकलचरणतया तन्निर्जरणमेवाप्रोति, अप्रवर्त्तमानोऽपि चाहारादिष्याग्रहग्रहाकुलकुलितचेताः 'छट्टहमदसमे' त्यादिवचनादनन्तसंसारिताद्यनर्थभागेव भवति / तत्सर्वथा तत्परतन्त्रेणैव मुमुक्षुणा भाव्यं, तस्यैव सम्यग-ज्ञानादिसकलकल्याणहेतुत्वाद् उक्त च"णाणस्स होइभागी, थिरयरतो दंसणे चरिते य / धण्णा आवकहाए, गुरुकुलवास न मुचंति / / 11 / " यद्वा-छन्दसागुर्वभिप्रायेण निरोधःआहारदि-परिहाररूपःछन्दोनिरोधःतेनैवोक्तन्यायतो मुक्त्यवाप्तिः, तत्त-द्वस्तुविषयाभिलापारिमका इच्छा वा छन्दः तन्निरोधेन मुक्तिः, तस्या एव तद्विबन्धकत्वात् तथा च लौकिका अप्याहुः- "श्लोकार्धन हि लद्रक्ष्ये गटुक्र ग्रन्थकोतिभिः / तृष्णा च सत् (चेत्सं) परित्यक्ता प्राप्त च परमं पदम् // 1 // " अथवा-छन्दो वेद आगम इत्यनान्तरम, ततः छन्दरा। 'आगाए आणाए गिय चरण' मित्यादिना निरोधःइन्द्रियादिनिग्रहात्मकः छन्दोनिरोधः तेनोपैति मोक्ष न तु सर्वथा जीवित यनपेक्षतया रथा व संगय-चिद:- "सब्वत्थ संजमं संजमातो / अप्पाणमेव रक्खिज्जा / मुच्चइ अइवायातो, पुणोऽवि सोही ण या विरती / / 1 / / " अत्रोदाह-रणमाह-अश्वो यथा शिक्षितोवल्गनप्लवनधावनादिशिक्षा ग्राहितो वृणोति-आच्छादयति शरीरकमिति वर्म-अश्वतनुत्राण तद्धरणशीलो वर्मधारी, शिक्षितश्चासौ वर्मधारी च शिक्षितवर्मधारी, अनेन शिक्षकतन्त्रतयाऽस्य स्वातन्त्र्यापोहभाह-ततोऽयमर्थ:-यथा अश्वःस्वातन्त्र्यविरहात्प्रवर्त्तमानः समरशिरसि न वैरिभिरूपहन्यत इति तन्मुक्तिमाप्नोति, स्वतन्त्रस्तुप्रथममशिक्षितो रणमवाप्तस्तैरूपहन्यते। अत्र च सम्प्रदायः- “एण्ण राइ-णा दोण्ह वि कुलपुत्ताण दो आसा दिण्णा सिक्खावणपोसणत्थं। तत्थेगो कालोचिएण जवसजोगासणे संरक्खमाणो धावियलालियवगियाइयातो कलातो सिक्खावेइ। बीओ कोएयरस इट्टजवसजोगासण दाहिइ ति घरट्टे वाहेइ ण तु सिक्खावेइ, सेसं अप्पणा भुंजति / संगामकाले उवट्ठिए ते रण्णा वुत्ता- तेसु चेवास्सेसु आरोदु झत्ति आगच्छह, संपत्ता, भणिया य राइणा-पविसह संगाम / तत्थ पढमोऽसो सिक्खागुणतणतो सारहियगणुवट्टमाण संगामपारतोजातो, दुइओ विसिट्ठसिक्खाभावतोऽसब्भावभावणाभावियत्ताणओ गोधूमजंतगजुत्त इव तत्थेव भमिउमाढत्तो / तं च पर उवलक्खेउ हयसारहिं काऊण गृहीतवन्तः। दृष्टान्तानुवादपूर्वकोऽयमुपनयः-यथाऽसावश्वः तथा धर्मार्थ्यपि स्वातन्त्र्यविरहितो मुक्तिमवाप्नोति, अत एव च पूर्वाणि-उक्त परिमाणानि वर्षाणि-वत्सराणि 'कालात्यन्तसंयोगे द्वितीया' (पा०२-३-५), किमित्याह- 'घर' इति सततमागमोक्तक्रियामासेवस्व, कथम् ? अप्रमत्तः-गुरूपारतन्त्र्यापहारिप्रमादपरि-हर्ता, 'तम्ह' त्ति तस्मात् अप्रमादचरणादेव, मन्यतेजानाति जीवादीनिति मुनिः तपस्वी क्षिप्रशीघ्रम् उपैति मोक्षम् / ननु छन्दोनिरोधोऽपि तत्त्वतोऽप्रमादात्मक एवेति कथं न पुनरूक्तदोषः / , उच्यते- अप्रमाद एवादरः कार्य इति ख्यापनार्थत्वादध्ययनार्थोजीवनार्थत्वाचास्य न पौनरूक्त्यमिति भावनीयम् / पूर्वाणि वर्षाणीति च एतावदायुषामेव चारित्रपरिणतिरिति दर्शनार्थमुक्तमिति सूत्रार्थः / ननु यदि छन्दोनिरोधेन मुक्तिः -अयमन्त्यकाल एव तर्हि विधीयतामित्याशङ्कयाह, यद्वा यदि पश्चान्मलापध्वंसी स्यात् तदैव छन्दोनिरोधादिकमपि तद्धेतुभूतमस्त्वत आहस पुव्वमेवं ण लभेज पच्छा, एसोवमा सासयवाइयाणं। विसीदति सिढिले आउयम्मि, कालोवणीए सरीरस्स भेए / / / / स इति-यत्तदोर्नित्याभिसम्बन्धात् यः प्रथममेवाप्रमत्ततया भा. वितमतिर्न भवति स तदात्मकं छन्दोनिरोधम् 'युवमेव ति एवं शब्दस्यात्रोपमार्थत्वात्पूर्वमिवान्त्यकालात् मलापध्वंससमयावा अभावितमतित्वात् न लभेत्-न प्राप्नुयात् / सम्भावने लिड् / ततश्च लागसम्भावनाऽपि न समस्ति, किं पुनस्तल्लाभ इति / पश्चातअन्यकाले मलापध्वंससमये वा. 'एसोवस' ति एषा-अनन्तरममिहित