________________ संखय 62 - अभिधानराजेन्द्रः - भाग 7 संखय नेकविध परूषविषमसंस्थानादिभेद रूपस्वरूपमेषामिति अनेकरूपाः, श्रमणं चरन्तं प्रागवत्, ‘फास' त्ति स्पृशन्ति स्वानि स्वानीन्द्रियाणि गृह्यमाणतया इति स्पर्शाः-शब्दादयरते स्पृशन्तिगृह्यमाणतयैव सम्बध्नन्ति, असमञ्जसम्अननुकूलमिति क्रियाविशेषणमेतत, चशब्दोऽवधारणे असमञ्जसमेव, अथवा- स्पर्शनविषयाः-स्पशो: स्पृशन्ति, स्पशोपादानं चास्सैव दुर्जयत्वाद्वयापित्वाच, न तेषु-स्पर्शेषु भिक्षुः-मुनिः, मनसा उपलक्षणत्वाच वाचा कार्यन च, यद्वाऽपिशब्दस्य लुशनि-र्दिष्टत्वान्मनसाऽपि आस्तांवाचा कायेन वा, 'पदूरो' त्ति प्रदूष्येत् प्रद्विष्यादा / किमुक्त भवति? कर्क शसंस्तारकादिस्पर्शादी हन्तोपतापिता वयमेतेनेति च चिन्तयेत् नैव वा वदेत्परिहरेद्वा तमिति / "मंदाये” ति सूत्रम्, तथा मन्दायन्तीति मन्दाः-हिताहितविवेकिनमपि जनमन्यता नयन्तीति कृत्वा, चशब्दः पूर्वापक्षया समुच्चये, स्पर्शाः प्राग्वच्छब्दादयः,बहून् लोभयन्ति-विमोहयन्तीति बहुलोभनीयाः अन्यत्रापि (कुत्यल्युटो बहुलम्) इति वचनात् कर्तर्यनीयः, अनेनात्याक्षेपकत्वमुक्तम्, 'तहप्पगारेसु'त्ति अपेर्गम्यमानत्वात्तथा-प्रकारेष्वपि बहुलोभनीयेष्वपि मृदुमधुररसादिषु मनः-चित्तं न कुर्यात्, अथवाधातूनामनेकार्थत्वान्न निवेशयेत् / यद्वासङ्कल्पात्मकमेव मनः, ततो मन इति सङ्कल्पमपि न कुर्यात्-नविदध्यात्, आस्तां तत्प्रवृत्तिमिति / अथ वा-मन्दबुद्धित्वान्मन्दगमनत्वाद्वा मन्दाः-स्त्रियःता एव स्पर्शप्रधानत्वात स्पर्शाः, ततश्च मन्दाश्च ताः स्पर्शाः, बहूनां कामिना लोभनीयाःगृतिजनका बहुलोभनीया यास्तासु 'तहप्पगारेसु' ति लिङ्ग व्यत्ययात्तथाप्रकारासु बहुलोभनीयासु मनोऽपि न कुर्याद, इह च स्त्रीणामेव बहुतरापायहेतुत्वादित्थमुच्यते, तथा चाह- "स्पर्शेन्द्रियप्रस - क्ताश्च,बलवन्तो मदोत्कटाः। हस्तिबन्धकिसंरक्ता, बध्यन्ते मत्तवारणाः // 1 // " इति। एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स तु कथं भवतीत्यत आहरक्ष-येत्-निवारयेत्, कम्? क्रोधमअप्रीतिलक्षणं, विनयेत्-अपनयेत् मानम्-अहङ्कारात्मकम्, मायापरवञ्चनबुद्धिरूपां न कुर्यात्, प्रजह्यात्-परित्यजेत् लोभम्अभिष्वगस्वभावम्, तथा च क्रोधमानयोषात्मकत्वान्मायालोभयोश्च रागरूपत्वात्तन्निग्रह एव तत्परिहृतिरिति भावनीयम्। अथवा-स्पर्शपरिहारमभिदधता, चतुर्थव्रतमुक्तम्, तच्च 'अबंभचेरं घोरं पमायं दुरहिट्टग' ति वचनामहाप्रमादरूपस्याब्रह्मणो निरोधकृदिति, तदभिधानाद्धिसादिनिरोधोऽप्युक्त एवेति, अनेनार्थतो मूलगुणाभिधानम्, रक्षेत् क्रोधमित्या - दिना च पिण्डादिकमयच्छते यच्छते वा न कषायवशगो भवेदित्युत्तरगुणोक्तिरिति सूत्रद्वयार्थः। सम्प्रति यदक्त- 'तम्हा समुट्ठाय पहाय कामे' इत्यादि, तत्कदाचिच्चरकादिष्वपि भवेत. अत आह-यद्वैतावता चारित्रशुद्धिरूक्ता, सा च न सम्यक्त्वविशुद्धिमपहायातस्तदर्शमिदमाहजे संखया तुच्छपरप्पवादी, ते पेज्जदोसाणुगया परज्झा। एए अहम्मु ति दुगंछमाणो, कंखे गुणो जाव सरीरभेए / / 13 / / त्ति बेमि। 'ये' इति अनिर्दिष्टस्वरूपाः, संस्कृता इति न तात्त्विकशुद्धिमन्तः किन्तूपचरितवृत्तयः, यद्वा-संस्कृतागमप्ररूपकत्वेन संस्कृता, यथा सौगताः, ते हि स्वागमे निरन्वयोच्छेदमभिधाय पुनस्तेनैव निर्वाहमपश्यन्तः परमार्थतोऽन्वयिद्रव्यरूपमेव सन्तानमुपकल्पयाबभूवुः, सांख्याश्चैकान्तनित्यतामुक्त्वा तत्त्वतः परिणामरूपां चै (पावे) व पुनराविर्भावतिरोभावावुक्तवन्तो, यथा वा- “उक्रानि प्रतिषिद्धानि, पुनः सम्भावितानि च / सापेक्षनिरपेक्षाणि, ऋषिवाक्यान्यनेकशः / / 1 / / " इति वचननिषेधनसम्भवादिभिरूपस्कृतस्मृत्यादिशास्त्रामन्वादयः, अत एव 'तुच्छ' त्ति तुच्छा यदृच्छाभिधायितया निःसाराः परप्पवाइ'त्ति परे च ते स्वतीर्थिकव्यतिरिक्ततया प्रवादिनश्च परप्रवादिनः, ते किमित्याह'पेजदोसाणुगया' प्रेमद्वेषाभ्यामनुगताः प्रेमद्वेषानुगताः, तथाहि-सर्वथा संवादिनि भगवद्वचसि निरन्वयोच्छेदैकान्तनित्यत्वादिकल्पनंवचननिषेधनसम्भावनादि वा न रागद्वेषाभ्यां विनेति भावनीयम्, अत एव च 'परज्झ' ति देशीपदत्वात्परवशा रागद्वेषग्रहास्तमानसतया न ते स्वतन्त्राः। यदित एवंविधास्ततः किमित्याह-एते इति-अर्हन्मतबाह्याः, अधर्महेतुत्वादधर्मः, 'इति' त्यमुनोल्लेखेन 'दुगछमाणो' त्ति जुगुप्समान: उन्मार्गानुयायिनोऽमी इति तत्स्वरूपमवधारयन्, न तु निन्दन्, निन्दायाः सर्वत्र निषेधात्, तदेवंविधश्च किं कुर्यादित्याह-काङ्केत अभिलषेत् गुणान-सम्यग्दर्शनचारित्रात्मकान् भगवदागमाभिहितान्, किं नियतकालमेवोतान्यथेत्याह-यावच्छरीरात्-औदारिकात्पाप्रकाराद्वा भेदः-पृथग्भावः शरीरभेदो, मरणं विमुक्तिर्वेति यावद, अनेनेहैव समुत्थानं कामप्रहाणादि च तत्त्वतः, अन्यत्र तु संवृत्तिम दित्युक्तम्, एवं च काङ्गत्म कसम्यक्त्वातिचारपरिहाराभिधानतः राम्यक्त्वशुद्धिति सूत्रार्थः / / 13 / / इति परिसमाप्तौ, ब्रवीमीति पूर्ववत्। उनोऽनुगमः / सम्प्रति नयाः ते च पूर्ववत् / उत्त० 4 उ०। किञ्चण य संखयमाहु जीवियं, तह विव बालजणो पगब्भइ। काले पापेहि मिज्जती, इति संखाय मुणी ण मज्जती // 21 // नच-नैव जीवितम्-आयुष्कं कालपर्यायण त्रुटितं सत् पुनः 'संखय' मिति संस्कर्तु-तन्तुवत्सन्धातुं शक्यते इत्येवमाहुस्तद्विदः, तथाऽटि एवमपि व्यवस्थिते बालः अज्ञो जनः प्रगल्भते पापं कुर्वन् धृष्टो भवति. असदनुष्ठानरतोऽपि न लज्जत इति,स चैवम्भूतो बालस्तैरसदनुष्टानापादितैः पापैः कर्मभिः मीयते-तद्युक्र इत्येवंपरिच्छिद्यते, मीयते वा मेयेन धान्यादिना प्रस्थकवदिति, एवं संख्यायज्ञात्वा मुनिः-यथावस्थितपदार्थानां वेत्ता न माद्यतीति तेष्वसदनुष्ठानेष्वहं शोभनः कशेल्ट प्रगल्भमानो मदं न करोति / सूत्र०१ श्रु०२ अ० 2 उ०। ('छदेपनि (22) सूत्रं तद्व्याख्या च 'छंद' शब्दे तृतीयभागे 1340 पृष्ठ गता।