________________ सिट्ट 817- अमिधानराजेन्द्रः - भाग 7 सिट्ठ भ्युपगमकाले यावान अपकृष्टधियाम्-अवच्छेदकदेहानाम् अपकृष्टज्ञानावच्छेदकशरीराणां संबन्धविरहः-संबन्धाभावः। अप्रामाण्यानुपगम-स्तावत्कालीन एव हि / शिष्टत्वं काकदेहस्य, प्रागभावस्तदा च न // 23|| अप्रामाण्येति-तावत्कालीन एव हि-सकलतत्समानकालीन एव अप्रामाण्यानुपगमो-वेदप्रामाण्याभ्युपगमविरहः, शिष्टत्वं काकदेहस्य प्रागभावो वेदप्रामाण्याभ्युपगमसमानकालीनः, तदा च काकस्य मरणानन्तरं शरीरान्तराग्रहदशायां नास्तीति नातिव्याप्तिः / इत्थं च यावन्तं कालं वेदत्वेन वेदाप्रामाण्याभ्युपगमस्य विरहो वेदप्रामाण्याभ्युपगमसमानकालीनयावदप्रकृष्टज्ञानावच्छेदकशरीरसंबन्धाभावसमानकालीनस्तावन्तं कालं स शिष्टः / ब्राह्मणोऽपि बौद्धो जातो वेदाप्रामाण्यं यावन्नाभ्युपगतवान् तावच्छिष्ट एव / बौद्धोऽपि ब्राह्मणो जातो वेदप्रामाण्यं यावन्नाङ्गीकृतवांस्तावदशिष्ट एवेति फसितमाह पद्मनाभः / अत्र च वेदप्रामाण्याभ्युपगमसमानकालीन-त्वचत्तत्सामानाधिकरण्यमपि वाच्यम्। अन्यथोत्तरकालं तत्कालीनं यत्किंचिद्व्यधिकरणाप्रकृष्ट ज्ञानावच्छेदकशरीर-संबन्धप्राग्भावनाशेनाव्याप्त्यापत्तेः / नैवं तदुत्तरे विप्रे-ऽव्याप्तेः प्राक् प्रतिपत्तितः। प्रामाण्योपगमात्तन्न, प्राक् तत्रेति न सेति चेत् // 24 // नैवमिति-नैवं यथा विवक्षितं प्राक् तदुत्तरे विप्रे काकभवोत्तरमवाप्तब्राह्मणभवे प्राक्प्रतिपत्तितः प्राग्भवीयवेदप्रामाण्य-ग्रहमाश्रित्याव्याप्तेः / तदानीं तदीयवेदाप्रामाण्याभ्युपगमविरहस्य प्राक्तनब्राह्मणभवीयवेदप्रामाण्याभ्युपगमसमानकालीनयावदप्रकृष्टज्ञानावच्छेदकशरीरसंबन्धविरहासमानकालीनत्वादान्तरालिककाकभव एव काकशरीरसंबन्धप्रागभावनाशात् / प्रामाण्योपगमाद्वेदप्रामाण्याभ्युपगमात् प्राक् तत्र काकभवोत्तरब्राहाणे तच्छिष्टत्वं न इति हेतोरलक्ष्यत्वादेव न साडव्याप्तिः / वेदप्रामाण्याभ्युपगमे तु लक्षणसंपत्त्यैवेति भावः / इति चेन्नन्वेवं यत्किंचिद्वेदप्रमाण्याभ्युपगम एव ग्राह्यः। तथा च - यत्किचित्तद्ग्रहे पश्चात्, प्राक् च काकस्य जन्मनः / विप्रजन्मान्तराले स्या-त्सा घ्वंसप्रागभावतः // 25 // यत्किञ्चिदिति-यत्किञ्चित्तद्ग्रहे-यत्किञ्चिद्वेदाप्रामाण्याभ्युपगमस्य लक्षणमध्यनिवेशे काकस्य जन्मनः पश्चात् प्राक् च विप्रजन्मनोरन्तराले प्राप्तिविश्लेषाभ्यां मध्यभावे ध्वंसप्रागभावतः काकशरीरसंबन्धध्वंसप्रागभावावाश्रित्य सा प्रसिद्धाऽतिव्याप्तिः स्यात् / अयं भावः-यो ब्राह्मणः काको जातस्तदनन्तरं च ब्राह्मणो भविष्यति तस्य मरणानन्तरं | ब्राह्मणशरीराग्रहदशायामुत्तरब्राह्मणभवकालीनवेदप्रामाण्याभ्युपगमसमानकालीनकाकशरीरध्वंसेनैव लक्षणसाम्राज्यादव्याप्तिः / प्राक्तनकाकशरीरसंबन्धप्रागभावस्तु न तत्समानकालीन एवेति तस्यैव ब्राह्मणभवत्यागानन्तरं काकशरीराप्रहदशायां प्राक्तनब्राह्मणभवकालीनवेदप्रामाण्याभ्युपगमसमानकालीनकाकशरीरसंबन्धप्रागमावेना व्याप्तिरिति / किं चयो ब्राह्मणः प्राग् बौद्धो वृत्तस्तस्य स्वापादिदशायां वेदाप्रामाण्याभ्युमगमविरहस्याग्रिमब्राह्मणभवीयनिरुक्तयावच्छरीरसंबन्धाभावसमानकालीनत्वात्तत्रातिव्याप्तिरिति बोध्यम् / जीववृत्तिविशिष्टाङ्गा-भावाभावग्रहोऽप्यसन्। उत्कर्षचापकर्षश्चा-व्यवस्थो यदपेक्षया // 26 // जीवेति-जीववृत्तिविशिष्टः- क्षेत्रज्ञवृत्तित्वविशिष्टो योऽङ्गाभाव उत्कृष्टज्ञानावच्छेदकशरीराभावस्तदभावग्रहोऽपि तदभावनिवेशोऽपि काकेश्वरयोरतिव्याप्तिवारणर्थमसन्नदुष्टलक्षणाधानासमर्थः / यद्यस्मादुत्कर्षथापकर्षश्च अपेक्षया व्यवस्थितः / कीटिकादिज्ञानापेक्षयोत्कृष्टत्वात् काकादिज्ञानस्य, ब्राह्मणादिज्ञानस्य च देवादिज्ञानापेक्षयाऽपकृष्टत्वात् / इत्थं च तदवस्थ एवातिव्याप्त्यव्याप्ती / न च काकादिज्ञानव्यावृत्तं मनुष्यादिज्ञानसाधारणमुत्कर्ष नाम जातिविशेषमाद्रियन्ते भवन्तः, अन्यथा कार्यमात्रवृत्तिजातेः कार्यतावच्छेदकत्वनियमेन तद्वच्छिन्नेऽनुगतकारणकल्पनापत्तिः, ईश्वरज्ञानसाधारण्यान्न तस्य कार्यमात्रवृत्तित्वमिति चेत्तथापि देवदत्तादिजन्यतावच्छेदिकयाऽपकर्षविशेषेण च सांकर्यान्न जातित्वं तत्तद्ज्ञानावच्छेद्कशरीरसंबन्धाभावकूटस्तुहुर्ग्रह इति न किंचिदेतत्। ननु एकजन्मावच्छेदेन स्वसमानाधिकरणस्वोत्तरवेदाप्रामाण्याभ्युपगमध्वंसानाधारवेदप्रामाण्याभ्युपगमोत्तरकालवृत्तित्वविशिष्टवेदाप्रमाण्याभ्युपगमविरहः शिष्टत्वमिति निर्वचने न कोऽपि दोषो भविष्यतीत्यत आहअपि चाव्याप्त्यतिव्याप्ती, कात्य॑देशविकल्पतः। आद्यग्रहे स्वतात्पर्या-न दोष इति चेन्मतिः // 27 // अपि चेति-अपि च कात्य॑देशविकल्पतः कृत्स्नवेद-प्रामाण्याभ्युपगमो विवक्षितो देशतदभ्युपगमो वेति विवेचनेऽव्याप्त्यतिव्याप्ती / कृत्स्रवेदप्रामाण्याभ्युपगमस्य ब्राह्मणेष्वप्यभावात् / न हि वेदान्तिनो नैयायिकाद्यभिमतां श्रुति प्रमाणयन्ति, नैयायिकादयो वा वेदान्त्यभिमतां यत्- किंचिद्वेदप्रामाण्यं च बौद्धादयोऽप्यभ्युपगच्छन्ति, "न हिंस्यात् सर्वभूतानि, अग्निर्हिमस्य भेषजम्" इत्यादिवचनानां तेषामपि संमतत्वादिति। स्वतात्पर्यात्-स्वाभिप्रायमपेक्ष्य। आद्यग्रहे यावद्वेदप्रामाण्याभ्युपगमनिवेशे न दोषः, स्वस्वतात्पर्ये प्रमाणं श्रुतिरिति हि सर्वेषां नैयायिकादीनामभ्युपगमः / इति चेन्मतिः कल्पना भवदीया। नवं विशिष्य तात्पर्या- ग्रहे तन्मानताऽग्रहात् / सामान्यतः स्वतात्पर्य, प्रामाण्यं नोऽपि संमतम् // 28 // नैवमिति-एवं मतिर्नियुक्ता कस्याश्चिद् दुरवबोधायाः श्रुतेर्विशिष्य स्वकल्पितार्थानुसारेण तात्पर्याग्रह तन्मानतायास्तत्प्रमाणताया अग्रहात् / स्वतात्पर्ये सर्ववेदप्रामाण्याभ्युपगमस्य दुःशकत्वादनाकलिततात्पर्यायामपि श्रुतौ प्रमोपहितत्वाग्रहेऽपि प्रमाकरणत्वस्य सुग्रहत्वान्न दोष इत्यत आह-सामान्यतो नयरूपत्वेन स्वतात्पर्ये स्वाभिप्रायप्रमाण्ये वेदप्रामाण्यनोऽस्माकं जैनानामपि संमतम् / यावन्तो हि परसमयास्तावन्त एव नया इति श्रुतपरिकर्मितमतेः सर्व