SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ सिज्जायरपिंड 816 - अभिधानराजेन्द्रः - भाग 7 सिट्ट विधे पिण्डे, दश०३ अ०। ('सागारियपिण्ड' शब्देऽस्मिन्नेव भागे उदाहृतम्।) सिज्जायरमत्त-न०(शय्यातरभक्त) शय्यातरपिण्डे, नि० चू० 11 उ०। सिज्जावाली-स्त्री०(शय्यापालिका) 'शय्यारक्षिकायां शयनीयस्तरि कायाम्, आ० म० 1 अ० / सिज्जासंथार-पुं०(शय्यासंस्तार) शिरतेऽस्यामितिशय्या-वसतिः सैव संस्तारकः, यद्वा-शय्या-वसतिरेव संस्तारको द्विधा-परिशाटी, अपरिशाटी चेति / शय्योपलक्षितस्संस्तारकः शय्यासंस्तारकः / शय्या-शयनंलदर्थः संस्तारकः-संस्तारकभूमयः। अथवा--शय्यायां-- वसतौ संस्तारकाः शय्यासंस्तारकाः / ज्ञा० 1 श्रु० 1 अ० / शय्यासंस्तारकोभये, बृ०१ उ०३ प्रक०। आचा०1 आव०। नि० चू०। पं० भा० / ग० / स०। सिज-न०(सिध्मन्) क्षुद्रकुष्ठविशेषे, भ०७ श०६ उ० / जं०। सिज्झिया-स्त्री०(साध्यापिका) प्रातिवेश्मिकस्रियाम, बृ० 1 उ०२ प्रक०। सिञ्च-सिच्-धा० / क्षरणे, "सिचे सिञ्चसिम्पौ" 466|| इति सिचधातोः सिञ्चसिम्पादेशौः। सिञ्चइ / सिम्पइ / सेअइ / सेचति। प्रा०४ पाद / सिट्ठ-पुं०(शिष्ट) शिष्टते स्म शिष्टः / वृत्तस्थज्ञानवृद्धसेवोपलब्धविशुद्ध सेवामनुजविशेषे, ध० 1 अधि० / साधुजनसंमते, द्वा० 22 द्वा० / वेदरमृत्याद्यनुसारिणि, पञ्चा० 13 विव० / विशिष्टजने, पञ्चा० 13 विव० / क्षोणदोषे सम्यग्दृष्टौ, द्वा०। तल्लक्षणम् - अंशतः क्षीणदोषत्वात, शिष्टत्वमपि युक्तिमत् / अत्रैव हि परोक्तं तु, तल्लक्षणमसंगतम् // 16|| अंशत् इति-अंशतो-देशतः क्षीणदोषत्वाद्दोषक्षयवत्त्वात् शिष्टत्वमपि अत्रैव-सम्यग्दृष्टावेव युक्तिमत् न्यायोपेतम् / "क्षीणदोषः पुरुषः शिष्ट'' इति लक्षणस्य निर्वाधत्वात्। सर्वदोषक्षयेण सर्वथा शिष्टत्वस्य सिद्धे केवलिनि वा विश्रान्तत्वेऽपि सम्यग्दृष्टरारभ्य देशतो विचित्रस्य शिष्टत्वस्यान्यत्रानपायत्वात्। न चैवं शिष्टत्वस्यातीन्द्रियत्वेन दुर्घहत्वाच्छिष्टाचारेण प्रवृत्त्यनापत्तिरिति शङ्कनीयं प्रशमसंवेगादिलिङ्गैस्तस्य सुग्रहत्वात्। दोषा रागादय एव तेषां च दिव्यज्ञानादर्वाक् न क्षयमुपलभामहे, न वा तेषु निरंवयवेष्वंशोऽस्ति येनांशतः तत्क्षयो वक्तुं शक्येतेति चेन्न, अत्युचितप्रवृत्तिसंवेगादिलिङ्गकप्रबलतदुपक्षयस्यैवांशतोदोषक्षयार्थत्वात्, आत्मानुग्रहोपधातकारित्वेन चयोपचयवतः सावयवस्य कर्मरूपदोषस्य प्रसिद्धत्वाच्च इत्यन्यत्र विस्तरः हिनिश्चितं परोक्तं तु द्विजन्मोद्भावितं तु तस्य शिष्टस्य लक्षणम् असंगतमयुक्तम्। तथाहि - वेदप्रामाण्यमन्तृत्वं, बौद्धे ब्राह्मणताडिते। अतिव्याप्तं द्विजेऽत्र्याप्तं, स्वाषे, स्वारसिकं च तत् // 17 // | वेदेति-"वेदप्रामाण्यमन्तृत्वम्" एतावदेव शिष्टलक्षणम् ब्राह्मणताड़िते बौद्धेऽतिव्याप्तं, तेनापि "वेदाः प्रमाणम्" इत्यभ्युपगमात् / स्वारसिकं च तत् वेदप्रमाण्यमन्तृत्वं द्विजे ब्राह्मणेऽव्याप्तम्, / अयं भावःस्वारसिकत्वविशेषणेन बौद्धेऽतिव्याप्तिनिरासेऽपि स्वारसिकवेदप्रामाण्यमन्तृत्वम्" यदा कदाचिद्वाच्यं सर्वदा वा ? आद्ये बौद्धे एवातिव्याप्तितादवस्थ्यं, तस्यापि जन्मान्तरे वेदप्रामाण्याभ्युपगमध्रौव्यात् / अन्त्ये च शयनादिदशायां वेदप्रामाण्याभ्युपगमाभाववति ब्राह्मणंऽव्या-प्तिरिति / तदभ्युपगमाद्याव-न तन्यत्ययमन्तृता। तावच्छिहत्वमिति चे- त्तदप्रामाण्यमन्तरि॥१८|| तदिति-तस्य वेदप्रामाण्यस्याभ्युपगमात् यावन्न तव्यत्ययस्य, वेदाप्रामाण्यस्य मन्तृताऽभ्युपममः तावच्छिष्टत्वम् शयनादिदशायां च वेदप्रामाण्यानभ्युपगमाद् ब्राह्मणो नाव्याप्तिरिति भावः / अप्रामाण्यमन्यस्यापि स्वारसिकस्य ग्रहणाद्रौद्धताडिते ब्राह्मणे वेदाप्रामाण्याभ्युपगन्तरि नातिव्याप्तिः अप्रमाकरणत्वाभावयोश्च द्वयोरपि प्रमाण्यविरोधित्वेन संग्रहान्नैकग्रहेऽन्याभ्युपगन्तर्यतिव्याप्तिः / अत्राह-इति चेत्तदप्रामाण्यमन्तरिवेदाप्रामाण्याभ्युपगन्तरि / अजानति च वेदत्व-मच्याप्तं चेद्विवक्ष्यत्ते। वेदत्वेनाभ्युपगम-स्तथापि स्याददः किल ||19|| अजानति चेति-वेदत्वं च वेदेऽजानति ब्राह्मणे अव्याप्तं लक्षणमेतत् तेन वेदाप्रामाण्याभ्युपगमात् / अथ चेद्यदि वेदत्वेनाभ्युपगमो विवक्ष्यते वेद एव वेदत्वमजानतश्च न वेदत्वेनाप्रामाण्याभ्युपगमः किं त्थिदमप्रमाणमिति इदंत्वादिनैवेति नाव्याप्तिः, तथाप्यद एतल्लक्षणं किल / ब्राह्मणः पातकात्प्राप्तः, काकभावं तदापि हि। व्यानोतीशं च नोत्कृष्ट-झानावच्छेदिका तुनः / / 20 / / ब्राह्मण इति-यदा ब्राह्मणः पातकात् काकजन्मनिबन्धनाद् दुरितात् काकभावं प्राप्त; तदापि हि स्यात् ब्राह्मण्यदशायां वेदप्रभाण्याभ्युपगन्तृत्वात् काकदशायां च वेदाप्रामाण्यानभ्युपगन्तृत्वात् / उत्कृष्टज्ञानावच्छेदिका च तनुरीशंभवानीपतिं न व्याप्नोति / तथा च काकेऽतिव्याप्तिवारणार्थमुत्कृष्टज्ञानावच्छेदकशरीरवत्त्वे स्वतीति विशेषणदाने ईश्वरेऽव्याप्तिरित्यर्थः। अन्याङ्गरहितत्वं च, तस्य काकभवोत्तरम् / देहान्तराग्रहदशा-माश्रित्यातिप्रसक्तिमत् / / 21 / / अन्येति-अन्याङ्गरहितत्वं च अपकृष्टज्ञानावच्छेदकशरीरराहित्यं च तस्य ब्राह्मणभवानन्तरप्राप्तकाकभवस्य, काकभवोत्तरं देहान्तराग्रहदशां-शरीरान्तरानुपादानावस्थाम् आश्रित्व अतिप्रसक्तिमदतिव्याप्त तदानीमपकृष्टज्ञानावच्छेदकशरीर-राहित्यात्। अवच्छेदकदेहाना-मपकृष्टघियामथ / संबन्धविरहो यावान, प्रामाण्योपगमे सति / / 22 / / अवच्छे दके ति-अथ प्रामाण्यो पगमे सति-वेदप्रामाण्या
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy