________________ साहुसामग्गी 806 - अमिधानराजेन्द्रः - भाग 7 साहुसामग्गी किंचिदेतत् / तदिदशुक्तं- "स्वोचिते तु यदारम्भे, तथा संकल्पनं क्वचित् / न दृष्टं शुभभावत्वात्तच्छुद्धापरयोगवत् // 1 // " प्राय एवमलाभः स्या-दिति चेद्रहुधाऽप्ययम्। संभवीत्यत एवोक्तों, यतिधर्मोऽतिदुष्करः // 18|| प्राय इति- एवमसंकल्पितस्यैव पिण्डस्य ग्राह्यत्वे प्रायोऽलाभः स्यात्-शुद्धपिण्डाप्राप्तिः स्यात्, इति चेत् बहुधाऽपिसंकल्पातिरि.. तैर्बहुभिरपि प्रकारैः शङ्कितम्रक्षितादिभिरयमलाभः संभवी / अथवाएवं प्रायोऽसंकल्पितस्यालाभः स्थादिति चेद्रहुधाऽप्ययमसंकल्पितस्य लाभः संभवि। अदित्सूनां भिक्षूणामभावेऽपि च बहूनांपाकस्योपलब्धेः। तथापि तद्वृत्तेर्दुष्करत्वात्तत्प्रणेतुरनाप्तता स्यादित्यत आहइत्यत एव यतिधर्मो मूलोत्तरगुणसमुदायरूपोऽति दुष्करः उक्तः / अतिदुर्लभं मोक्षं प्रति अतिदुष्करस्यैव धर्मस्य हेतुत्वात्, कार्यानुरूपकारणवचनेनैवाप्तसिद्धेः। संकल्पितस्य गृहिणा, त्रिधा शुद्धिमतो ग्रहे / को दोष इति चेज्ज्ञाते, प्रसङ्गात्पापवृद्धितः ||16|| संकल्पितस्येति-गृहिणा-गृहस्थेन संकल्पितस्ययत्थर्थ प्रतिदित्सितस्य त्रिधा शुद्धिमतो-मनोवाक्कायशुद्धस्य साधोहेग्रहणे को दोषः / आरम्भप्रत्याख्यानस्य लेशतोऽप्यव्याघातादिति चेत्, ज्ञाते--"मदर्थ कृतोऽयं पिण्डः" इति ज्ञाते सति तद्ग्रहणे प्रसङ्गात्, गृहिणः पुनः तथाप्रवृत्तिलक्षणात् पापवृद्धितः तन्निमित्तभावस्य परिहार्थत्वात् / यत्यर्थं गृहिणचेष्टा, प्राण्यारम्भप्रयोजिका। यतेस्तद्वर्जनोपाय-हीन सामग्न्यघातिनी // 20 // यत्यर्थमिति-यत्यर्थ गृहिणः प्राण्यारम्भप्रयोजिका चेष्टा निष्ठितक्रिया। तद्वर्जनोपायैराधाकर्मिककुलपरित्यागादिलक्षणींना सती यतेः सामग्यघातिनी गुणश्रेणिहानिकी / वैराग्यं च स्मृतं दुःख-मोहज्ञानान्वितं त्रिधा। आर्तध्यानाख्यमाचं स्या-द्यथाशक्त्यप्रवृत्तितः // 21|| वैराग्यं चेति-दुःखान्वितं मोहान्वितं ज्ञानान्वितं चेति त्रिधा वैराग्यं स्मृतम् / आद्यं दुःखान्वितं आर्तध्यानाख्यम् स्यात् / यथाशक्तिशक्त्यनुसारेण मुक्त्युपायेऽप्रवृत्तितः / तात्त्विकं तु वैराग्यं शक्तिमतिक्रम्यापि श्रद्धातिशयेन प्रवृत्तिं जनयेदिति। अनिच्छा पत्र संसारे, स्वेच्छालाभादनुत्कटा। नैर्गुण्यदृष्टिजं देष, विना चित्ताङ्गखेदकृत् // 22 // अनिच्छेति-अत्र हि वैराग्ये सति संसारे-विषयसुखे अनिच्छा-- इच्छाभावलक्षणा आत्मपरिणतिः नैर्गुण्यदृष्टिजं संसारस्य बलवदनिष्टसाधनत्वप्रतिसन्धानजम् द्वेषं विनाऽनुत्कटा। अत एव चित्ताङ्गयोः खेदकृत्-मानसशरीरदुःखोत्पादिका / इच्छाविच्छेदो हि द्विधा स्यात् अलभ्यविषयत्वज्ञानाद् द्वेषाद आद्य इष्टाप्राप्तिज्ञानाद् दुःखजनकः, अन्त्यश्च न तथेति। एकान्तात्मग्रहोद्भूत-भवनैर्गुण्यदर्शनात् / शान्तस्यापि द्वितीयं स-जवरानुद्भसन्निभम् // 23 // __ एकान्तेति-एकान्तः सर्वथा सन् क्षयी वा य आत्मा तस्य ग्रहादुत्पन्नं यद्भवनैर्गुण्यदर्शनं ततः शान्तस्यापि प्रशमवतोऽपि लोकदृष्ट्या, द्वितीयं मोहान्वितं वैराग्यं भवति। एतच सन् शक्त्यावस्थितो यो ज्वरस्तस्यानुदयो वेलाप्राक्काललक्षणस्तत्सन्निभं तेषां भवेत् / द्वेषजनितस्य वैराग्यस्योत्कटत्वेऽपि मिथ्याज्ञानवासनाऽविच्छेदोदपायप्रतिपातशक्तिसमन्वितत्वात्। स्याद्वादविद्यया ज्ञात्वा, बद्धानां कष्टमङ्गिनाम् / तृतीयं भवभीमाजां, मोक्षोपायप्रवृद्धिमत् // 25 // स्याद्वादेति-स्याद्वादस्य सकलनयसमूहात्मकवचनस्य विद्यया बद्धानामङ्गिनां कष्टं दुःखं ज्ञात्वा भवभीभाजां संसारभयवतां तृतीयं ज्ञानान्वितं वैराग्यं भवति / तच मोक्षोपायेत्रिरत्नसाम्राज्यलक्षणे प्रवृत्तिमत् -प्रकृष्टवृत्त्युपरितम् / सामग्र्यं स्यादनेनैव, द्वयोस्तु स्वोपमर्दतः। अत्राङ्गत्वं कदाचित्स्या-द्गुणवत्पारतन्त्र्यतः // 25 // सामग्यमिति-अनेनैव-ज्ञानान्वितवैराग्येणैव सामरयं सर्वथा दुःखोच्छेदलक्षणं स्यात्, ज्ञानसहितवैराग्यस्यापायशक्तिप्रतिबन्धकत्वात्। द्वयोस्तु-दुःखमोहान्वितवैराग्ययोः स्वोपमर्दतः-स्वविनाशद्वारा अत्र-- ज्ञानान्वितवैराग्येऽङ्गत्वमुपकारकत्वम् कदाचिच्छुमोदयदशायां स्यात्। गुणवतः पारतन्त्र्यम्-आज्ञावशवृत्तित्वं ततः ज्ञानवत्पारतन्त्र्यस्थापि फलतो ज्ञानत्वात्। ननु गुणवत्पारतन्त्र्यं विनाऽपि भावशुद्ध्या वैराग्य साफल्यं भविष्यतीत्यत आहमावशुद्धिरपि न्याय्या, न मार्गाननुसारिणी। अप्रज्ञाप्यप्य बालस्य, विनैतत्स्वाग्रहात्मिका // 26|| भावेति-भावशुद्धिरपि यमनियमादिना मनसोऽसंक्तिश्यमानताऽपि। एतत् गुणवत्पारतन्त्र्यं विना अप्रज्ञाप्यस्यगीतार्थो-पदेशावधारणयोग्यतारहितस्य बालस्य-अज्ञानिनः स्वाग्रहात्मिका-शास्त्रश्रद्धाधिकस्वकल्पनाभिनिवेशमयी मार्गोविशिष्टगुणस्थानावाप्तिमवणः स्वरसवाहीजीवपरिणामस्तदननुसारिणी न न्याय्या। यदाह "भावशुद्धिरपि ज्ञेया, यैषा मार्गानुसारिणी। प्रज्ञापनाप्रियाऽत्यर्थ, न पुनः स्वाग्रहात्मिका ||1|| रागो देषश्च मोहच, भावमालिन्यहेतवः / एतदुत्कर्षतो शेयो, हन्तोत्कर्षोऽस्य तत्त्वतः // 2 // तथोत्कृष्ट जगत्यस्मिन्, शुद्धिर्व शब्दमात्रकम् / स्वबुद्धि कल्पनाशिल्पि-निर्मितं स्वार्थवद्भवेत् // 3 // मोहानुत्कर्षकृत-दत एवापि शास्ववित् / क्षमाश्रमणहस्तेने-त्याह सर्वषु कर्मसु // 27 // मोहेति एतद्-गुणवत्पारतन्त्र्यं च मोहानुत्कर्षकृत् स्वाग्रहहेतुमोहापकषनिबन्धनम् / तदाह-"न मोहाद्रिक्तताभावे, स्वाग्रहो जायते क्वचित् / गुणवत्पारतन्त्र्यं हि, तदनुत्कर्षसाधनम् // 1 // " अत एव गुणवत्पारतन्त्र्यस्य मोहानुत्कर्षत्त्वादेवशास्त्रविदपि आगमज्ञोऽपि सर्वेषु कर्मसुदीक्षादानोद्देशसमुद्देशादिषु क्षमाश्रमणहस्तेनेत्याह / इत्थ