________________ साहुसामग्गी 805 - अभिधानराजेन्द्रः - भाग 7 सासाहुमग्गी जिनभक्तिप्रतिपादनानन्तरं तत्साध्यं सामग्यमाहज्ञानेन ज्ञानिभावः स्या-द्विाभावश्च भिक्षया। वैराग्येण विरक्तत्वं, संयतस्य महात्मनः / / 1 / / ज्ञानेनेति-व्यक्तः। विषयप्रतिभासाख्यं, तथात्मपरिणामवत् / तत्त्वसंवदेनं चेति, त्रिधा ज्ञानं प्रकीर्तितम् // 2 // तत्त्वं परमार्थस्तत्सम्यक्प्रवृत्ताद्युपहितत्वेन वेद्यते यस्मिंस्तथ्य / तत्त्वपदेन मिथ्याज्ञाननिवृत्तिः तद्विषयस्येतरांशनिषेधावच्छिन्नत्वेनातत्त्वत्वात्, सम्यक्पदेनाविरतसम्यग्दृष्टिज्ञानेन निवृत्तिः, तस्या ज्ञानाज्ञानसाधारणप्रतिभासत्वप्रयोज्यविषयप्रवृत्त्याधुपहितत्वेऽपि ज्ञानत्वप्रयोज्यविरतिप्रवृत्त्या-धुपहितत्वाभावादिति। इत्यमुना प्रकारेण त्रिधा ज्ञानं प्रकीर्तित-म् / तदाह- "विषयप्रतिभासं चात्मपरिणतिमत्तथा / तत्त्वसंवेदनं चैव, ज्ञानमाहुमहर्षयः // 1 // " (आत्मपरिणतिविषयः 'आतपरिणइ' शब्दे द्वितीयभागे 160 पृष्ठे गतः / ) आधं मिथ्यादृशां मुग्ध-रत्नादिप्रतिभासवत् / अज्ञानावरणापाया-ग्राह्यत्वाद्यविनियश्चम् // 3 // आद्यमिति-आद्यं विषयप्रतिभासज्ञानं मिथ्यादृशामेव मुग्धस्याज्ञस्य रत्नप्रतिभासादिवत् तत्तुल्यम्। तदाह-"विषकण्टकरत्नादौ बालादिप्रतिभासवत्" इति। अज्ञानं मत्यज्ञानादिकं तदावरणं यत्कर्म तस्यापायः क्षयोपशमस्त-स्मात् / तदाह- "अज्ञानावरणापायाम्” इति / ग्राह्यत्वादीनामुपादेयत्वादीनामविनिश्चयोऽनिर्णयो यतस्तत् / तदाह"तद्वेयत्वाद्यवेदकम्' इति / यद्यपि मिथ्यादृशामपि घटादिज्ञानेन घटादिग्राह्यता निश्चीयत एव, तथापि स्वविषयत्वावच्छेदेन तदनिश्चयान्न दोषः, स्वसंवेद्यस्य स्वस्यैव तदनिश्चयात्।। भिन्नग्रन्थेर्दितीयं तु, ज्ञानावरणभेदजम् / श्रद्धावत्प्रतिबन्धेऽपि, कर्मणा सुखदुःखयुक् ||4|| भिन्नग्रन्थेरिति-भिन्नग्रन्थेः सम्यग्दृशस्तु द्वितीयमात्मपरिणामवत् ज्ञानावरणस्य भेदः-क्षयोपशमस्तञ्जम् / तदाह- "ज्ञानावरणहासोत्थम्" इति / श्रद्धावत् वस्तुगुणदोषपरिज्ञानपूर्वकचारित्रेच्छान्वितम्, प्रतिबन्धेऽपि चारित्रमोहोदयजनितान्तराललक्षणो सति कर्मणा पूर्वाजितेन / सुखदुःखयुक्-सुखदुः खान्वितम् / तदाह- "पातादिपरतन्त्रस्य तद्दोषादावसंशयम् / अनर्थाद्याप्तियुक्तं च, आत्मपरिणतिमन्मतम् // 1 // " स्वस्थवृत्तेस्तृतीयं तु, सज्ज्ञानावरणव्ययात् / साधोर्विरत्यवच्छिन्न-मविलेन फलप्रदम् // / / स्वस्थेति-स्वस्थाऽनाकुला वृत्तिः कायादिव्यापाररूपा यस्य तस्य साधोः तृतीयम्, विरतिः सदसत्प्रवृत्तिनिवृत्त्यात्मिका तयाऽवच्छिन्नमपहितम् / अधि न-विघ्राभावेन, फलप्रदम् / तदाह- "स्वस्थवृत्तेः प्रशान्तस्य तद्धेयत्वादिनिश्चयम् / तत्त्वसंवेदनं सम्यग् यथाशक्ति फलप्रदम् // 1 // " इदं च सज्ज्ञानावरणस्य व्ययात्-क्षयोपशमात् प्रादुर्भवति / तदाह"सज्ज्ञानावरणापायम्" इति / निष्कम्पा च सकम्पा च, प्रवृत्तिः पापकर्मणि। निरवद्या च सेत्याहु-लिङ्गान्यत्र यथाक्रमम् // 6 // निष्कम्पा चेति- अत्रोक्तेषु त्रिषु भेदेष्वज्ञानसज्ज्ञानत्वेन फलितेषु यथाक्रमं पापकर्मणि निष्कम्पा दृढा प्रवृत्तिः, सकम्पा चादृढा निरवद्या च सा प्रवृत्तिरिति, लिङ्गान्याहुः / तदुक्तम्- “निरपेक्षप्रवृत्त्यादि लिङ्गमेतदुदाहृतम्।" तथा- "तथाविधप्रवृत्त्यादिव्यङ्गय सदनुबन्धि च" तथा- "न्याय्यादौ शुद्धवृत्त्यादिगम्यमेतत्प्रकीर्तितम्।" इति / ननु क्वैतानि लिङ्गान्युपयुम्यन्ते इत्यत आहजातिभेदानुमानाय, व्यक्तीनां वेदनात् स्वतः। तेन कर्मान्तरात् कार्य- भेदेऽप्येतद्विदाऽक्षता // 7 // जातीति-जातिभेदस्य-निष्कम्पपापप्रवृत्त्यादिजनकतावच्छेदकस्याज्ञानादिगतस्य अनुमानाय उक्तानि लिङ्गानीति संबन्धः / व्यक्तीनाम्अज्ञानादिव्यक्तीनां स्वतोलिङ्ग नैरपेक्ष्येणैव वेदनात्-परिज्ञानात्, तेन कर्मान्तरात्-चारित्रमोहादिरूपादुदयक्षयोपशमावस्थानावस्थितात् / कार्यभेदेऽपिसावधानवद्यप्रवृत्तिवैचित्र्येऽपि / तद्भिदा अज्ञानादिभिदाऽक्षता / प्रवृत्तिसामान्य ज्ञानस्य हेतुत्वात्त द्वैचित्र्येणैव तद्वैचित्र्यो पपत्तेः। प्रवृत्तौ कर्मविशेषप्रतिबन्धकत्वस्यापि हेतुविशेषविद्यटनं विनाऽयोगात्। वस्तुतः कार्यस्वभावभेदे कारणस्वभावभेदः सर्वत्राप्यावश्यकः, अन्यथा हेत्वन्तरसमवधानस्याप्यकिचित्करत्वादिति विवेचितमन्यत्र / योगादेवान्त्यबोधस्य, साधुः सामर,यमश्नुते / अन्यथा कर्षगामी स्यात्, पतितो वा न संशयः / / 8 / / योगादिति-अन्त्यबोधस्य-तत्त्वसंवेदनस्य योगादेवसंस्काररूपसंबन्धादेव साधुः सामायं-पूर्णभावमश्नुते / अन्यथा तत्त्वज्ञानसंस्काराभावे पुनर्योगशक्त्यनुवृत्तौ शङ्काकासादिना कर्षगामी वा स्यात्, तदनुवृत्तौ च पतितो वा न संशयोऽत्र कश्चित्, बाह्यलिङ्गस्याकारणत्वात्। (द्वा०) (भिक्षाविषयः 'गोयरचरिया' शब्दे तृतीयेभागे 1007 पृष्ठे गतः।) स्वोचिते तु तदारम्भ, निष्ठिते नाविशुद्धिमत् / तदर्थकृतिनिष्ठाभ्यां, चतुर्भङ्ग्यां द्वयोर्ग्रहात् // 17 // स्वोचिते-इति स्वोचितेतुस्वशरीरकुटुम्बादेर्योग्ये तु आरम्भे पाकप्रयत्ने निष्ठिने चरमेन्धनप्रक्षेपेणौदनसिद्ध्यु पहिते। तत् स्वभोग्यातिरिक्तपाकशून्यया संकल्पकं स्वार्थ-मुपकल्पितमन्नम् "इतो मुनीनामुचितेन दानेनात्मानं कृतार्थयिष्यामि'' इत्याकारं नाविशुद्धिमत् न दोषान्वितं तदर्थं कृतिराद्यपाकः, निष्ठा च चरमः पाकः, ताभ्यां निष्पन्नायां चतुर्भग्यांतदर्थ कृतिस्तदर्थं निष्ठा, अन्यार्थं कृतिस्तदर्थं निष्ठा, तदर्थ कृतिरन्यार्थ निष्ठा, अन्यार्थं कृतिरन्यार्थच निष्ठा, इत्येवंरूपायांद्वयोर्भङ्गयोर्ग्रहाच्छुद्वत्वेनोपादानात्। तदुक्तम्-"तस्स कडं तस्स निद्वियं चउभंगो तत्थ दुचरिमा सुद्धा" / यदि च साध्यर्थं पृथिव्याद्यारम्भप्रयोजकशुभसंकल्पनमपि गृहिणो दुष्ट स्यात्तदा साधुवन्दनादियोगोऽपि तथा स्यादिति न