________________ साहम्मिय 768 - अभिधानराजेन्द्रः - भाग 7 साहम्मिय उक्ता ज्ञानेन सह चारित्रादिषु भङ्गाः / संप्रतिज्ञानपदं विमुच्य चारित्रपदं गृहीत्वा तेन सहाभिग्रहभावनयोर्भङ्गा उच्यन्ते-चरणतः साधर्मिको नाभिग्रहतः समानचरणो विचित्राभिग्रहो साधुः अभिग्रहतःसाधर्मिको न चरणतः श्रावकादिः, चरणतोऽपि अभिग्रहतोऽपि साधुः, न चरणतो नाप्यभिग्रहतः एष शून्यः। तथा चरणतो न भावनातः विचित्रभावनाकः साधुः, भावनातो च चरणतः श्रावकः सामानभावनाकः साधुर्वा विसदृशचरणः,चरणतोऽपि भावनातोऽपि समानचरणभावनाकः साधुः, नचरणतो नाऽपि न भावनातः शून्य एषः। संप्रत्यभिग्रहेण सह भावनाया भङ्गाः-अभिग्रहतः साधर्मिको न भावतः, समानाभिग्रही विचित्रभावनाकः श्रावकादिः, भावनातः साधर्मिको नाऽभिग्रहतः विचित्राऽभिग्रहः श्रावकादिः, अभिग्रहतोऽपि भावनातोऽपि समानाऽभिग्रहः भावनाकः श्रावकादिः, नाभिग्रहतोऽपि नापि भावनातः एष भङ्गः शून्यः / तदेवमुक्ता भङ्गाः। __सांप्रतममीषां भङ्गानां विषयविशेषप्रतिपादनार्थमाहपत्तेयबुद्ध विण्हग-उवासए केवली य आसज्ज। खइयाइए य भावे, पडुच्च मंगो य जोएज्जा / / 19 / / प्रत्येकबृद्धान् निवान् उपासकान केवलिनश्चाश्रित्य तथा क्षायिकादीन भावान् प्रतीत्य आश्रित्य भङ्गकान् अनन्तरोदितान् योजयेत्। तद्यथान प्रवचनतः साधम्मिको लिङ्गतः एष भङ्गः प्रत्येकबुद्धात्केवलिनश्च / जिनानाश्रित्य योजनीयः / लिङ्गतो न प्रवचनतः इत्ययं निह्नवान्, प्रवचनतो न लिङ्गत् इत्येष श्रावकान, प्रवचनतो नदर्शनत इत्यादयस्नु क्षायोपशमिकदर्शनज्ञानचारित्रा-दीनाश्रित्य योजयितव्यास्ते च तथैव यथास्थानं योजिता एवेति। व्य०२ उ०। समानधार्मिको हि सम्यग्दृष्टिः साधुः साध्वी श्रावकः श्राविका च / श्रा०। (साधर्मिकाणां स्तैन्यं कुर्वतोऽनवस्थाप्यो भवतीत्युक्तम् 'अणवठ्ठप्प' शब्दे प्रथमभागे 263 पृष्ठे) सदृश-कल्पिके, समाचारीस्थे, आचा०१ श्रु०८ अ०५ उ०। पंचहिं ठाणेहिं समणे णिग्गंथे साहम्मितं संभोतितं विसंभोतितं करेमाणे णातिक्कमति, तं जहा–सकिरितवाणं पडिसेवित्ता भवति१पडिसेवित्ता णो आलोएइआलोइत्ताणो पट्ठवेति 3 पट्टवेत्ताणो णिव्विसति 4 जाइंइमाइंथेराणं ठितिवकप्पाई भवंति ताई अतियंचिय 2 पडिसेवेति / से हंदऽहं पडिसेवामि किं मं थेरा करिस्संति? 5 | पंचहिं ठा-णेहिं समणे निग्गथे साहम्मितं पारंचितं करेमाणे णातिकमति, तं०-सकुले वसति सकुलस्स भेदाते अब्मुद्वित्ता भवति१ गणे वसतिगणस्स भेताते अब्भुढेत्ता भवति 2 हिसप्पेही 3 छिद्दप्पेही 4 अभिक्खणं पसिणाततणाइं पउंजिता भवति 5 / (सू०३६८) साम्भोगिकम्-एकभोजनमण्डलीकादिकं विसाम्भोगिकंमण्डलीबाह्य कुर्वन्नातिक्रामति आज्ञामिति गम्यते, उचितत्वादिति / सक्रियंप्रस्तावादशुभकर्मबन्धयुक्तं स्थानम् अकृत्यविशेष लक्षणं प्रतिषेविता भवतीत्ये कं, प्रतिषेव्य गुरवेनालोचयति- न निवेदयतीति' द्वितीयम्,आलोच्य गुरूपदिष्टप्रायश्चित्तं न प्रस्थापयति- कर्तुं नारभत इति तृतीयं, प्रस्थाप्य न निर्विशति-न समस्तं प्रवेशयति, अथवा'निर्वेशःपरिभोग' इति वचनान्न परिभुड्क्तेनासेवत इत्यर्थः इति चतुर्थम्, यानीमानि सुप्रसिद्धतया प्रत्यक्षाणि स्थविराणांस्थविरकल्पिकानां स्थितौ-समाचारे प्रकल्प्यानि-प्रकल्पनीयानि योग्यानि विशुद्धपिण्डशय्यादीनि स्थितिप्रकल्प्यानि, अथवा-स्थितिश्चमासकल्पादिका प्रकल्प्यानि च-पिण्डादीनि स्थितिप्रकल्प्यानि तानि 'अइयंचिय अइयंचिय' त्ति-अतिक्रम्यातिक्रम्येत्यर्थः,प्रतिषेवते तदन्यानीति गम्यते। अथ णवाटकादिः साधुस्वं पर्यालोचयति-यथा नैतत्प्रतिषेवितुमुचितं गुरुर्नीबाह्यौ करिष्यति, तत्रेतर आह-'से' इति तदकल्प्यजातं 'हंदे' त्ति-कोमलामन्त्रणं वचनं, हमित्यकारप्रश्लेषादहं प्रतिषेवामि किंमम स्थविराः-गुरवः करिष्यन्ति? न किञ्चित्तै रुष्टरपि मे कर्तुं शक्यते इति बलोपदर्शनं पञ्चममिति / 'पारंचियं' ति दशमप्रायश्चित्तभेदवन्तमपहृतलिङ्गादिकमित्यर्थः कुर्वन्नातिक्रामति सामायिकमिति गम्यते। कुलेचान्द्रादिके वसति गच्छवासीत्यर्थस्तस्यैव कुलस्य भेदायान्योऽन्यमधिकरणोत्वादनेनाभ्युत्थाता भवति; यतत इत्यर्थः इत्येकम्, एवं गणस्थापीति द्वितीयं, तथा हिंसा-वधं साध्वादेः प्रेक्षतेगवेषयतीति हिंसाप्रेक्षीति तृतीय, हिंसार्थमेवापभ्राजनार्थ वा 'छिद्राणि' प्रमत्ततादीनि प्रेक्षत इति छिद्रप्रेक्षीति चतुर्थम्, अभीक्ष्ण-मितीह पुनः शब्दार्थः ततश्चाभीक्ष्णमभीक्ष्णं; पुनः पुनरित्यर्थः, प्रश्ना-अङ्गुष्ठकुड्यप्रश्नादयः सावद्यानुष्ठानपृच्छा वात एवायतनान्यसंयमस्य प्रश्नायतनानि प्रयोक्ता भवति ; प्रयुक्त इत्यर्थः इति पञ्चमम्। स्था०५ ठा० १उ०) - इदानीं साधर्मिकद्वारप्रतिपादनायाहदिट्ठमदिट्ठा दुविहा, णायगुणा चेव हुँति अन्नाया। अहिट्ठा विय दुविहा, सुय असुय पसत्थमपसत्था ||6|| साधर्मिका द्विविधाः-दृष्टा, अदृष्टाश्च। 'णायगुणा तह य चेव अन्नाया' ये ते दृष्टाः साधर्मिकास्तेः द्विविधाः कदाचित् ज्ञातगुणा भवन्ति कदाचिदज्ञातगुणाः, 'अद्दिट्ठा वि य दुविहा' येऽप्यदृष्टाः साधर्मिकास्तेऽपि द्विविधाः-'सुय असुय' त्ति-श्रुतगुणा, अश्रुत-गुणाश्च। पसत्थापसत्थ' ति ये ते ज्ञातगुणास्ते द्विविधाः-प्रशस्त-ज्ञातगुणाः, अप्रशस्तज्ञातगुणाश्च। येऽपि तेऽज्ञातगुणास्तेऽपि द्विविधाः-प्रशस्ताज्ञातगुणाः, अप्रशस्ताज्ञातगुणाश्चेति। येऽपि ते श्रुतगुणास्तेऽपि द्विविधाः--प्रशस्तश्रुतगुणाः, अप्रशस्तश्रुतगुणाश्च / येऽपि तेऽश्रुतगुणास्तेऽपि द्विविधा प्रशस्ताश्रुतगुणाः, अप्रशस्ताश्रुतगुणाश्च। ___ आह-ये दृष्टास्ते कथमज्ञातगुणा भवन्तीत्यत आहदिट्ठा व समोसरणे, न य नायगुणा हवेज ते समणा। सुअगुणपसत्थ इयरे,समणुनिअरे य सव्वे वि।।६।। दृष्टाः- उपलब्धाः सामान्यतो झटिति क्व ? समवसर