________________ साहम्मिय 767 - अभिधानराजेन्द्रः - भाग 7 साहम्मिय दश सकेशाः, एकादशः प्रतिमाप्रतिपन्नस्तु लुञ्चितशिराः श्रमणभूतो भवति ततस्तद्व्यवच्छेदाय सशिखग्रहणम्। एते हि दश शसिखाकाः प्रवचनतः साधर्मिका भवन्ति, तेषां संघातभूतत्वान्न लिङ्गतः रजोहरणादिलिङ्गरहितत्वात्। तृतीयचतुर्थी तु भङ्गौ सुप्रतीतत्वान्नोक्तौ तौ चेमौ प्रवचनतोऽपि साधम्मिको लिङ्गतोऽपि साधुः एष तृतीयः। न प्रवचनतो नापि लिङ्गतः इति चतुर्थः / एष शून्यो भङ्गः। तदेवं लिङ्गप्रवचनेन सह चतुर्भङ्गि कोक्ता। संप्रति दर्शनादिभिः सह चतुर्भङ्गिकाप्रतिपादनार्थमाह-- एमेव य लिंगेणं, दंसणमादी उ होंति भंगा उ। भइएसु उवरिमेसुं, हेट्ठिलपदं तु छड्डेजा ||18|| एवमेव-प्रवचनगतेन प्रकारेण लिनेन सह दर्शनादिषु भङ्गा भवन्तिज्ञातव्याः / उक्तेषु च उपरितनेषु सर्वेष्वपि भावनापर्यन्तेषु अधस्तनं लिङ्गलक्षणं पदं त्यजेत् त्यक्त्वा च तदनन्तरं द्वितीयपदं गृह्णीयात् / अभिगृह्य च तेनापि सह चतुर्भङ्गिकाक्रमेण योजयेत्। तत्राप्युपरितनेषु सर्वेषु भङ्गेषु तदधस्तनं पदं त्यजेत् / अग्रेतनमनन्तरमाश्रयेत् / तत्राप्ययमेव क्रमः एवं तावद्वाच्यं यावदन्तिमपद-द्वयचतुर्भङ्गिका / इह लिङ्गेन सह दर्शनादिषु भङ्गसूचा कृता तत्र लिङ्गग्रहणमुपलक्षणं ततः प्रवचनेनापि सह भड़ाः द्रष्टव्याः ते चामी प्रवचनसाधम्मिका नदर्शनतः। .एष क्षायिके औपशमिके क्षायोपशमिके वा / उक्तं च- 'विसरिसदंसणजुत्ता, पवयणसाहम्भिया न दंसणतो' / इति दर्शनतः साधर्मिको न प्रवचनतस्तीर्थकरः प्रत्येकबुद्धश्च तेषां संघानन्तर्वर्तित्वाद्, आह च"तित्थयरा पत्तेया, नो पवयणदंससाहम्मी''। प्रवचनतोऽपि साधर्मिको दर्शनतोऽपि समानदर्शनी। संघमध्यवर्ती न प्रवचनतो नापि दर्शनत इति चतुर्थः / एष शून्यः। उक्ता प्रवचनेन सह दर्शनस्य चतुर्भङ्गिका। संप्रति ज्ञानस्योच्यते-प्रवचनतः साधर्मिको न ज्ञानतः, एको द्विज्ञानी एकस्त्रिज्ञानी चतुर्ज्ञानी केवलज्ञानी वा ज्ञानतः साधर्मिको न प्रवजनतः तीर्थकरः प्रत्येकबुद्धो वा प्रवचनतोज्ञानतोऽपि तृतीयः। न प्रवचनतोऽपि नापि ज्ञानतः इति चतुर्थः / एष शून्यः। तथा प्रवचनतः साधर्मिको न चारित्रतः श्रावकः, चारित्रतो न प्रवचनतः तीर्थकरः प्रत्येकबुद्धो वा, प्रवचनतोऽपि साधुः, न प्रवचनतो नाऽपि चारित्रत एष शून्यः / तथा प्रवचनतो नापि अभिग्रहतः। साधर्मिकोऽनभिग्रहतः। श्रावको यति उभयोरप्यन्योन्याभिग्रहयुक्तत्वात् / अभिग्रहतो न प्रवचनतो निहवः, तीर्थकरः प्रत्येकबुद्धो वा। उक्तं च- "साहम्मभिग्गहेणं, नोपवयणनिण्हतित्थ-पत्तेया''। इति प्रवचनतोऽप्यभिग्रहतोऽपि श्रावको यति समानाभिग्रहः न प्रवचनतो नाप्यभिग्रहत इति शून्यः। तथा प्रवचनतः साधर्हिको न भावनातो भिन्नभावनाकः श्रावको यतिर्वा भावनातः। साधर्मिको न प्रवचनतः समानभावनाकस्तीर्थकरः प्रत्येकबुद्धो निह्नवो वा प्रवचनतोऽपि भावनातोऽपि समानभावनाकः श्रावको यति न प्रवचनतोऽपि नापि भावनातः एषशून्यः। उक्ताः प्रवचनेन सह दर्शनादिषु भङ्गाः। संप्रति लिङ्गेनसहोच्यन्ते-लिङ्गतः साधर्मिको नदर्शनतः निहवः, दर्शनतः साधर्मिको न लिङ्गतः / प्रत्येकबुद्धस्तीर्थकरो लिङ्गतोऽपि समानदर्शनी साधुः / नापि लिङ्गतो नापि दर्शनतः एष शून्यः / तथा लिङ्गतः साधम्मिको न ज्ञानतः निहवो विभिन्नज्ञानी वा साधुः ज्ञानतोन लिङ्गतः समानज्ञानी श्रावकः प्रत्येकबुद्धस्तीर्थकरो वा लिङ्गतोऽपि ज्ञानतोऽपि समानज्ञानी साधुः न लिङ्गतोऽपि नापि ज्ञानतः एष शून्यः। तथा लिङ्गतो न चारित्रतोनिहवो विषमचारित्री वा साधुः चारित्रतो न लिङ्गतः प्रत्येकबुद्धस्तीर्थकरो वा, चारित्रतोऽपि लिङ्गतोऽपि समानचारित्री साधुः / न लिङ्ग तो नापि चारित्रतः एष शून्यः / तथा लिङ्गतो नाभिग्रहतः विचित्राभिग्राही साधुनिहवो वा अभिग्रहतो न लिङ्गतः समानाभिग्रही श्रावकः प्रत्येकबुद्धस्तीर्थकरो वा लिङ्गतोऽप्यभिग्रहतोऽपि समानाभिग्रहीसाधुः लिङ्गतो नाप्यभिग्रहतः। एष शून्यः। तथा लिङ्गतः साधम्मिको न भावनातः विषमभावनाकः साधु र्निवो वा, भावनातो न लिङ्गतः समानभावनाकः श्रावकः प्रत्येकबुद्धस्तीर्थकरो वा, लिङ्गतोऽपि भावनातोऽपि समानभावनाकः साधुः, न लिङ्गतोऽपि न भावनातः एष शून्यः / तदेवमुक्ता लिङ्गेन सह दर्शनादिषु भङ्गाः। संप्रति लिङ्गपदंत्यक्त्वा दर्शनपदमभिगृह्यते। तेन सह ज्ञानादिषुउच्यन्ते। दर्शनतः साधर्मिमको न ज्ञानतः, क्षायिकादर्शनी यः एकः केवलज्ञानी एको द्विज्ञानीति ज्ञानतः साधम्मिको न दर्शनतः समानज्ञानी विभिन्नदर्शनी दर्शनतोऽपि ज्ञानतोऽपि समानदर्शनज्ञानी / न दर्शनतोऽपि न ज्ञानतः एष शून्यो भङ्गः। तथा दर्शनतःसाधम्मिको न चारित्रतः समानदर्शनी श्रावकः चारित्रतोन दर्शनतः समानचारित्री विभिन्नदर्शनी साधुः, चारित्रतोऽपि दर्शनतोऽपि समानदर्शनचारित्री साधुः, न चारित्रतोऽति नापि दर्शनतः एष शून्यः / तथा दर्शनतो न अभिग्रहतः समानदर्शनी विचित्राभिग्रहः श्रावकः साधुर्वा, अभिग्रहतो न दर्शनतः, सामानाभिग्रही विचित्रदर्शनतःश्रावकादिः, दर्शनतोऽपिअभिग्रहतोऽपि समानदर्शनाभिग्रहीन श्रावकादिः न दर्शनतो नाप्यभिग्रहतः एष शून्यः। तथा दर्शनतो न भावनातः / समानदर्शनो विचित्रभावनाकः श्रावकादिः, भावनातो दर्शनतः समानभावनाको विचित्रदर्शनः श्रावकादिः, दर्शनतोऽपि भावनातोऽपि समानदर्शन-भावनाकः श्रावकादिः, न दर्शनतो नापि भावनातः एष शून्यः। तदेवमुक्ता दर्शनेनापि सह ज्ञानादिषु भङ्गाः अधुना दर्शनपदम पहाय ज्ञानपदमभिगृह्यते। तेन सह चारित्रादिषु प्रदर्श्यन्ते। ज्ञानतः साधम्मिको न चारित्रतः समानज्ञानो विचित्रचारित्रसाधुः यदि वा-श्रावकः चारित्रतः साधम्मिको न ज्ञानतः समानचारित्री एकः केवली एकः छद्मस्थः / ज्ञानतोऽपि चारित्रतोऽपि समानज्ञानचारित्री साधुन ज्ञानतोऽपि न चारित्रतोऽपि एष शून्यः। तथा ज्ञानतो नाभिग्रहतः। सामानज्ञानो विचित्राभिग्रहः श्रावकादिः अभिग्रहतो ज्ञानतः। समानाभिग्रहो विचित्रज्ञानी साधुस्तीर्थकरः प्रत्येकबुद्धो वा, ज्ञानतोऽप्यभिग्रहतोऽपि समानज्ञानाभिग्रही साध्वादिः, न ज्ञानतो नाऽप्यभिग्रहतः शून्य एषः। तथा ज्ञानतो न भावनातः समानज्ञानो विचित्रभावनाकः श्रावकादिः / भावनातो ज्ञानतः समानभावनो विचित्रज्ञानी श्रावकादिः / ज्ञानतोऽपि भावनतोऽपि समानज्ञानभावनाकः श्रावकादिर्न ज्ञानतोनाऽपि भावनातः एष शून्यः /