________________ सावग(य) 784 - अभिधानराजेन्द्रः - भाग 7 - सावगदिणकिरिया अथ श्रावकस्य भावगतानि तान्याह''भावगयाइँ सत्तरस, मुणिणो एअस्स बिंति लिङ्गाई। जाणि अजिणमयसारा, पुव्वायरिआ जओ आहू // 11 // इत्थिी ,दिअत्थसंसा-र४विसय५आरंभ६गेहदंसणओ८/ गड्डरिगाइपवाहे पुरस्सरं आगमपवित्ती 10 // 12 / दाणाइ जहासत्ती, पवत्तणं 11 विहिअ 12 रत्तदुढे अ 131 मज्झत्थ 14 मसंबद्धो 15, परन्थकामोवभागी अ 16 // 13 // वेसा इव गिहवासं, पालइ 17 सत्तरसपयनिबद्धंतु। भावगयभावसावग-लक्खणमेअंसमासेणं // 14 // " आसां काचिद्व्याख्या-स्त्र्यादिदर्शनान्तपदाष्टकानां द्वन्द्वे सप्तम्यर्थे तसिल (इतरेभ्योऽपि दृश्यन्ते इति) अयं भावः-स्त्रीवशवर्ती न भवेत् 1, इन्द्रियाणि विषयेभ्यो निरुणद्धि, 2. नानर्थमूलेऽर्थे लुभ्यति 3, संसारे रतिंन करोति४, विषयेषु न गृद्धिं कुर्यात् 5, तीव्रारम्भंन करोति, करोति चेदनिच्छन्नेव 3, गृहवासे पाशमिक मन्यमानो वसेत् 7, सम्यक्त्वान्न चलति 8, गडरिकप्रवाहं त्यजति 6, आगमपुरस्सरं सर्वाः क्रियाः करोति 10, यथाशक्ति दानादौ प्रवर्त्तते 11, विहीको निरवद्यक्रियां कुर्वाणो न लज्जते 12, संसारगतपदार्थेषु अरक्तद्विष्टो निवसति 13 धर्मादिस्वरूपविचारे मध्यस्थः स्यात्, नतु मया अयं पक्षोऽङ्गीकृत इत्यभिनिवेशी 14, धन-स्वजनादिषु सम्बद्धोऽपि क्षणभङ्गुरतां भावयन्नसम्बद्ध इवास्ते 15, परार्थम् अन्यजनदाक्षिण्यादिनाभोगोपभोगेषु प्रवर्तते, नतु स्वतीवरसेन 16, वेश्येव निराशंसो गृहवांस पालयतीति 17 / ध०२ अधिo श्रमणेभ्यः श्रावकभेदः 'सामाइय' शब्देऽस्मिन्नेव भागे गतः।] [श्रावकस्य साधोः अन्तरम् 'मरण' शब्देषष्ठभागे गतम्।]"एवं व्रतस्थितो भक्त्या, सप्तक्षेत्र्यां धनं वपन्। दयया चातिदीनेषु, महाश्रावक उच्यते . // 1 // " इति ('महासावग' शब्दे षष्ठभागे गतम्)। श्रावकस्य एकविंशति गुणास्ते च पूर्वमुक्ताः / दर्श०२ तत्त्व। *वापद-पुं०। प्रायो मांसाहारादिविशेषणविशिष्ट व्याघ्रादौ, जं० 2 वक्ष०। मकरग्रहादौ, स०। जलचरक्षुद्रसत्त्वे, ज्ञा०१ श्रु०६ अ०) सिंहादिषु, ज्ञा०१ श्रु०१ अ०। आ०म० व्याघ्रादिषु, स०१ समका प्रश्नका सावगकु ल-न०(श्रावककुल) श्रावकान्वये, 'वंसाणं जिणवंसो सव्वकुलाणं च सावयकुलाई संथा०। केइ एगवीसगुणे सावगाणं भवंति, तेहिं सावएहि य परंपरागयं सावयकुलं भंडियं / ' अङ्गा सावगणंदण-पुं०(श्रावकनन्दन) श्रावककुमारे, आ०क०१ अ०। सावगदिणकिच्च-न०(श्राक्कदिनकृत्य) श्रावकप्रतिदिनक्रियाप्रतिपादके स्वनामख्याते ग्रन्थे, ध०२ अधिo (श्राद्धदिनकृत्यमित्यपरं नामास्य।) सावगदिणकिरिया-स्त्री०(श्रावकदिनक्रिया) श्राद्धप्रतिदिनकृत्ये, ध० / सांप्रतं मध्याह्लादिविषयं यत्कर्तव्यं तदर्शयन्नाहमध्याह्नेर्चा च सत्पात्र-दानपूर्व तु भोजन्। संवरणकृतिस्तद्विहः,सार्ध शास्त्रार्थचिन्तनम्॥६॥ मध्याह्ने मध्याह्नकाले चः पुनरर्थे पूर्वोक्तविधिना विशिष्य च प्रधानशाल्योदनादिनिष्पन्नविशेषरसवतीढौकनादिना; द्वितीय-वारमित्यर्थः / अर्धा-पूजा श्रावकाधिकारप्रस्तावाजिनपूजाविशेषतो गृहिधर्मो भवतीत्यन्वयः, एवमग्रेऽपि / तथा सत्पात्रं साध्वादि तस्मिन् दानपूर्वं दानं दत्त्वेत्यर्थः, भोजनम्-अभ्यवहरणं तुरेवकारार्थस्ततः सत्पात्रदानपूर्वमेव भोजनमिति निष्कर्षः,अन्वयस्तूक्त एव / अत्र च भोजनमित्यनुवादः मध्याहिकपूजाभोजनयोश्वन कालनियमः, तीव्रबुभुक्षोर्हि बुभुक्षाकालोभोजनकाल इति रूढेः, मध्याह्लादर्वा गपिगृहीतं प्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति। अत्र चायं विधिः--भोजनवेलायां साधून्नि--मन्त्र्यतैः सह गृहमायाति स्वयमागच्छतो वमुनीन् दृष्ट्या संमुख गमनादिकं करोति, साधूनां हि प्रतिपत्तिपूर्वकं प्रतिलम्भनं न्याय्यं श्रावकाणां, सा चेत्थं योगशास्त्रे-"अभ्युत्थानं तदा लोके, ऽभियानं च तदागमे। शिरस्यञ्जलिसंश्लेषः, स्वयमासनढौकनम्॥१॥ आसनाभिग्रहो भक्त्या, वन्दना पर्युपासनम् / तद्यानेऽनुगमश्चेति, प्रतिपत्तिरियं गुरोः / / 2 / " दिनकृत्येऽपि-''आसणेण निमंतेत्ता, तओ परिअणसंजुओ। वंदए मुणिणो ताहे, खंताइगुण-संजए॥१॥" एवं प्रतिपत्तिं विधाय सविनयं संविग्नासंविग्नभावितक्षेत्रं 1 सुभिक्षदुर्भिक्षादिकालं 2 सुलभदुर्लभादिदेयं चद्रव्यं 3 विचार्य आचार्योपाध्यायगीतार्थतपस्विबालवृद्धग्लानसहाऽसहादिपुरुषाद्यपेक्षया च स्पर्धामहत्त्वमत्सरस्नेहलजाभयदाक्षिण्यपरानुवर्तना प्रत्युपकारेच्छामायाविलम्बानादरविप्रियोक्तिपश्चात्तापदीनाननादिदोषवर्जमेकान्तात्मानुग्रहबुद्ध्या द्विचत्वारिंशद्भिक्षादोषाद्यदूषितं निःशेषनिजान्नपानवस्त्रादेर्भोजनाद्यनुक्रमेण स्वयं दानं दत्ते दापयति वा पार्श्वे स्थित्वा भार्यादिपावद्द्यितो दिनकृत्ये- "देसं खितं तु जाणित्ता, अवत्थं पुरिसंतहा। विज्जो व्व रोगिअस्सेव, तओ किरिअं पउंजए।।१॥" देशं मगधावन्त्यादि साधुविहारयोग्यायोग्यरूपं १क्षेत्रं संविग्न वितमभावितंवा, तुशब्दात्-द्रव्यमिदंसुलभंदुर्लभंवा, अवस्था सुभिक्षदुर्भिक्षादिकां पुरुषमाचार्योपाध्यायबालवृद्धग्लानसहाऽसहादिकं च ज्ञात्वा विज्जु व्व रोगिअस्स' ति- यथा किल भिषग् देशकालादि विचार्य व्याधिमतश्चिकित्सां करोत्येवं श्रावकोऽपि ततः क्रियामाहारादिदानरूपां प्रयुक्त इति तद्वृत्तिः। तत्र चसाधूनां यद्योग्यं तत्सर्व विहारयितुं प्रत्यहं नामग्राहं कथयति, अन्यथा प्राक् कृतनिमन्त्रणस्य वैफल्यापत्तेः, नामग्राहं कथने तु यदि साधवो न विहरन्ति, तथापि कथयितुः पुण्यं स्यादेव, अकथने तु विलोक्यमानमपि साधवो न विहरन्तीति हानिः / एवं गुरून्प्रतिलम्भ्य वन्दित्वाचगृहद्वारादियावदनुव्रज्यचनिवर्तते।साध्वभावे त्वनभ्रवृष्टिवत्साध्वागमनं जातु स्यात् तदा कृतार्थः स्यामिति दिगालोकं कुर्यात्, तथा चाहुः- "जं साहूण न दिन्नं, कर्हि पितं सावया न भुंजंति।