________________ सावग(य) 782 - अभिधानराजेन्द्रः - भाग 7 सावग(य) निच्छयओ मिच्छत्ती, खरंटतुल्लो सवत्तितुल्लो वि। ववहारओ उ सड्ढा, जयंति जं जिणगिहाईसुं॥१०॥" इत्यलं प्रसङ्गेन। अनोपयोगित्वात् पूर्वसूरिप्रणीतानि भावश्रावकस्य लिङ्गानि धर्मरत्नप्रकरणे यथोपादिष्टाति तथोपदर्श्यन्ते। तथाहि "कयवयकम्मो१ तह सी-लवं चरगुणवं च ६उज्जुववहारी 4 / / गुरुसुस्सूसो 5 पवयण-कुसलो ६खलु सावगो भावे // 1 // " कृतम्अनुष्ठितं व्रतविषयं कर्म-कृत्यं येन स कृतव्रतकर्मा 1, अथैनमेव सप्रभेदमाह-- "तत्थायण्णण १जाणण२,गिण्हण३पडिसेवणे सु४उज्जुत्तो।। कयवयकम्मो चउहा, भावत्थो तस्सिमो होइ॥२॥" तत्राकर्णनं विनयबहुमानाभ्यां व्रतस्य श्रवणं 1, ज्ञानं व्रतभङ्गभेदातिचाराणां सम्यगवबोधः 2, ग्रहणं गुरुसमीपे इत्वरं यावत्कालं वा व्रतप्रतिपत्तिः 3, आसेवनं सम्यक्पालनम् 4 / अथ शीलवत्स्वरूपं द्वितीयलक्षणं यथा"आययणं खुनिसेवइ 1, वज्जइपरगेहपविसणमकज्जे 2. निच्चमणुभडवेसो ३,न भणइ सविआरवयणाई 4 // 3 // परिहरइ वालकीलं 5, साहइ कज्जाइँ महुरनीईए६। इअछव्विहसीलजुओ, विन्नेओ सीलयंतोऽत्थ 7 // 4 // " आयतनं धर्मिजनमीलस्थानम्, उक्तंच-"जत्थसाहम्मिआ बहवे, सीलवंता बहुस्सुआ। चरितायारसंपन्ना, आययणं तं विआ-णाहि // 1 // " तत्सेवते भावश्रावको नत्वनायतनमिति भावः।।१।। शेषपदानि सुगमानि, बालक्रीडां द्यूतादिकं 5, मधुरनीत्या सा मवचनेन स्वकार्यसाधयति, नतु परुषवचनेनेति षट्शीलानि६अधुना तृतीयं भावभावकलक्षणं गुणवत्स्वरूपं यथा "जइविगुणा बहुरूवा, तहाविपंचहिँ गुणेहिँ इअ मुणिवरेहि भणिओ, 'सरूवमेसिं निसामेहि / / 5 / / सज्झाए१करणम्मि अ२, विणयम्मि अ३निच्चमेव उज्जुत्तो। सव्वत्थऽणभिनिवेसो४, वहइ रुई सुट्र जिणवयणे 5 // 6 // " स्वाध्याये पञ्चविधे 1, करणे--तपोनियमवन्दनाद्यनुष्ठाने 2, विनयेगुर्वाद्यभ्युत्थानादिरूपे, नित्यमुधुक्तः प्रयत्नवान् भवति 3, सर्वत्र प्रयोजनेषु अनभिनिवेशः प्रज्ञापनीयो भवति४, तथा वहति धारयति, रुचिम्-इच्छां; श्रद्धानमित्यर्थः, सुष्टु-बाढं जिन-वचने 5, इति पञ्च गुणाः / (सम्यक्त्वग्रहणं 'सम्मत्त' शब्देऽस्मिन्नेव भागे गतम्।) सामाचारीशेषमाहसुणिऊण तओ धम्म, अहारविहारं च पुच्छिउमिसीणं / काऊण य करणिजं, भावम्मितहाससत्तीए॥३५२।। श्रुत्वा ततो धर्म क्षान्त्यादिलक्षणं साधुसकाशे इतिगम्यते। यथाविहारं चतथाविधचेष्टारूपं पृष्ट्वा ऋषीणां संबन्धिनं कृत्वा च कारणीयम् ऋषीणामेव संबन्धिभाव इत्यस्तितायां करणीयस्य स्वशक्त्या स्वविभवाद्यौचित्येनेति। ततो अणिंदियं खलु, काऊण जहोचियं अणुद्वाणं / भुत्तूण जहाविद्दिणा, पचक्खाणं च काऊण // 353 / / ततस्तदनन्तरमनिन्द्यं खलु इहलोकपरलोकानिन्धमेव कृत्वा यथोचि-। तमनुष्ठानं यथा वाणिज्यादि तथा भुक्त्वा यथाविधिना अतिथिसंविभागसंपादनादिना प्रत्याख्यानं च कृत्वा तदनन्तरमेव पुनर्भोगेऽपि ग्रन्थिसहितादीनि। सेविज तओ साहू, करिज पूयं च वीयरागाणं / चिइवंदणसगिहागम-पइरिकम्मिय तुयट्टिजा।।३५४|| सेवेत ततः साधून पर्युपासनविधिना कुर्यात् पूजां च वीतरागाणां स्वविभवौचित्येन, ततश्चैत्यवन्दनं कुर्यात्, ततः स्वगृहागमनं तथैकान्ते तुत्वग्वर्तनं कुर्यात्स्वपेदिति। कथमित्याहउस्सग्गबंभयारी, परिमाणकडो उनियमओ चेव। सरिऊण वीयरागे, सुत्तविबुद्धो विचिंतिजा ||35|| उत्सर्गतः प्रथमकल्पेन ब्रह्मचारी आसेवनं प्रति कृतपरिमाणस्तु नियमादेव आसेवनपरिमाणाकरणे महामोहदोषात् तथा स्मृत्वा वीतरागान् सुविबुद्धः सन् विचिन्तयेद्वक्ष्यमाणमिति। भूएसु जंगमत्तं, तेसु वि पंचेन्दियत्तमुक्कोसं। तेसु वि अमाणुसत्तं, मणुयत्ते आरिओ देसो॥३५६|| भूतेषु-प्राणिषु जङ्गमत्वंद्वीन्द्रियादित्वं तेष्वपिपञ्चेन्द्रियत्वमुत्कृष्टम्प्रधानं तेष्वपि पञ्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्तते मनुजत्वे आर्यो देश उत्कृष्ट इति। देसे कुलं पहाणं, कुले पहाणे य जाइ उक्कोसा। तीइवि रूवसमिद्धी, रूवे य बलं पहाणयरं // 357 / / देशे आर्ये कुलं प्रधानम्, उग्रादिकुले प्रधाने च जातिरुत्कृष्टामातृसमुत्था, तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा; सकलाङ्गनिष्पत्तिरित्यर्थः, रूपे च सति बल प्रधानतरं सामर्थ्यमिति। होइ बले वि य जीयं, जीए वि पहाणयं तु विन्नाणं / विन्नाणे सम्मत्तं, सम्मत्ते सीलसंपत्ती॥३५॥ भवति बलेऽपिच जीवितं प्रधानतरमिति योगः,जीवितेऽपि च प्रधानतरं विज्ञान, विज्ञाने सम्यक्त्वं क्रिया पूर्ववत्, सम्यक्त्वेशीलसंप्राप्तिः प्रधानतरेति। सीले खाइयभावे,खाइयभावे य केवलं नाणं / केवलिए पडिपुन्ने, पत्ते परमक्खरे मुक्खो // 346 / / शीले क्षायिकभावः प्रधानः, क्षायिकभावे च केवलज्ञानं, प्रतिपक्षयोजना सर्वत्र कार्येति, कैवल्ये प्रतिपूर्णे प्राप्ते परमाक्षरे मोक्ष इति। नय संसारम्मि सुह,जाइजरामरणदुक्खगहियस्स। जीवस्स अत्थि जम्हा, तम्हा मुक्खो उवादेओ॥३६०|| नचसंसारे सुखंजातिजरामरणदुःखगृहीतस्य जीवस्यास्ति, यस्मादेवं तस्मात् मोक्ष उपादेयः। किंविशिष्ट इत्याहजनाइदोसरहिओ, अव्वावाहसुहसंगओ इत्थ। तस्साहणसामग्गी, पत्ताय मए बहू इन्हिं / / 361 / / जात्यादिदोषरहितोऽव्याबाधसुखसंगतोऽत्र (संसारे) तत्साधनसामग्री प्राप्ता च मया बहीदानीम्। ता इत्थ जंन पत्तं, तयत्थमेवुज्जम करेमि त्ति।