________________ सावग(य) 781 - अभिधानराजेन्द्रः - भाग 7 सावग(य) समानधार्मिकस्थिरीकरणमिति, यदि कश्चित्कथंचिद्धर्मात् प्रच्यवते ततस्तं स्थिरीकरोति, महांश्चायं गुणः। तथा वात्सल्ये क्रियमाणे शासनस्य सार इति सार आसेवितो भवति। उक्तं च-"जिणसासणस्स सारो" इत्यादि सति च तस्मिन् वात्सल्यमिति, तथा तेन तेनोपबृंहणादिना प्रकारेण सम्यग्दर्शनादिलक्षणमार्ग-सहायत्वादनाशश्च भवति, कुतो धर्मात्तत एवेति गाथार्थः / उक्ताः समानधार्मिकगुणाः। सांप्रतं तत्र निवसतो विधिरुच्यते-तत्रापिच प्रायो भावसुप्ताः श्रावकाः ये प्राप्यापि जिनमतं गार्ह स्थ्यमनुपालयन्त्यतो निद्रावबोधद्वारेणाहनवकारेण विबोहो, अणुसरणं सावओ, वयाइम्मि। जोगो चिइवंदणमो, पञ्चक्खाणं च विहिपुव्वं // 343 // नमस्कारेण विबोध इति सुप्तोत्थितेन नमस्कारः पठितव्यः, तथाऽनुस्मरणं कर्तव्यं श्रावकोऽहमिति व्रतादौ विषये, ततो योगः कायिकादिः चैत्यवन्दनमिति प्रयत्नेन चैत्यवन्दनं कर्तव्यं, ततो गुदीनभिवन्द्य प्रत्याख्यानंच विधिपूर्वकं सम्यगाकारशुद्धंग्राह्यमिति। गोसे सयमेव इम, काउं तो चेइयाण पूयाई। साहुसगासे कुजा, पचक्खाणं अहागहियं // 344 // गोसे-प्रत्युषसि स्वयमेवेदं कृत्वा गृहादौ ततश्चैत्यानां पूजादीनि संमार्जनोपलेपपुष्पधूपादिसंपादनादि कुर्यात्, ततः साधुसकाशे कुर्यात्किं प्रत्याख्यानं यथागृहीतमिति। श्रा०। अत्र च यद्यपि श्रावकयतिधर्मभेदाद्धर्मो द्विधा। श्रावकधर्मोऽपि अविरतविरतश्रावकधर्मभेदाद् द्विधा, तत्राविरतश्रावकधर्मस्य पूर्वसूरिभिः"तत्थहिगारी अत्थी, समत्थओ जो न सुत्तपडिकुट्ठो। अथी उ जो विणीओ, समुट्टिओ पुच्छमाणो अ॥१॥" इत्यादिनाऽधिकारी निरूपितः, विरतश्रावकधर्मस्य "संपत्तदंसणाई, पइदिअहं जइ जणा सुणेई अ। सामायारिं परमं, जो खलु तं सावयं बिंति / / 1 / / " तथा"परलोगहिअंध(स)म्मे, जो जिणवयणं सुणेइ उवउत्तो। अइतिव्यकम्मविगमा, उक्कोसो सावगो इत्थ // 1 // " इत्यादिभिरसाधारणैः श्रावकशब्दप्रवृत्तिहेतुभिरधिकारित्वमुक्तम्। यतिधर्माधिकारिणोऽप्येवं तत्प्रस्तावे वक्ष्यमाणा यथा"पव्यजाए अरिहा, आरिअदेसम्मि जे समुप्पन्ना। जाइकुलेहि विसिट्ठा, तह खीणप्पा य कम्ममला / / 1 / / तत्तो अविमलबुद्धी,दुलहं मणुअत्तणं भवसमुद्दे। जम्मो मरणनिमित्तं, चवलाओ संपयाओ अ॥२॥ विसया य दुक्खहेऊ, संजोगे निअमओ विओगु त्ति / पइसमयमेव मरणं, इत्थ विवागो अ अइरुद्दो॥३॥ एवं पयईए चिअ, अवगयसंसारनिग्गुणसहावा। तत्तो अतव्विरत्ता, पयणुकसायप्पहासा य // 4 // सुकयन्नुआ विणीआ, रायाईणमविरुद्धकारी अ। कल्लाणंऽगा सड्ढा, धीरा तह समुवसंपन्ना शा" इति पृथक् पृथक् प्रतिपादितास्तथाऽप्येभिरेकविंशत्या गुणैः कतमधर्मस्याधिकारित्वमिति न व्यामोहः कार्यो , यत एतानि सर्वाण्यपि शास्त्रान्तरीयाणि लक्षणानि प्रायेण तत्तद्गुणस्याङ्गाभूतानि वर्तन्ते। / चित्रस्य वर्णकशुद्धिविचित्रवर्णतारेखाशुद्धिनानाभावप्रतीतिवत् / प्रकृतगुणाः पुनः सर्वधर्माणां साधारण-भूमिकेव चित्रकराणामिति सूक्ष्मबुद्ध्या भावनीयम् / यदुक्तम्-'दुविहं पि धम्मरयणं, तरइ नरो घित्तुमविगलं सो उ / जस्सेगवी-सगुणरय--णसंपका होइ सुत्थि त्ति / / 1 / / " ते च सर्वेऽपि गुणाः प्रकृते संविग्नादिविशेषणपदैरेव संगृहीता इति सद्धर्मग्रहणार्ह उक्तः // 20 // (ध०१ अधि० श्रा०1) एषां च भेदानां यथासंभवं ज्ञान-श्रद्धाचरणविधया सम्यक्त्वमुपयोगित्वमितिध्येयम्। इत्थं च देवा-दितत्त्वश्रद्धानविकलत्वे तथा-विधाजीविकादिहेतोः, श्रावकाकारधरणे द्रव्यश्रावकत्वमेव च पर्यवसन्नं, भावश्रावकत्वं तु यथोक्त-विधिप्रतिपन्नसम्यक्त्वादिर्यतिभ्यः सकाशान्नित्यं धर्मश्रवणादेव, यदुक्तमावश्कवृत्तौ- "यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम। शृणोति धर्मसम्बद्धा-मसौ श्रावक उच्यते॥१॥" अभ्युपेतसम्यक्त्व इत्यत्राभ्युपेताणुव्रतोऽपीति व्याख्यालेश इति। तचेहाधिकृतं, भावस्यैव मुख्यत्वात्, भावश्रावकोऽपि दर्शनवृतोत्तरगुणश्रावकभेदाद् त्रिविधः, तद्विस्तरस्तु व्रतभङ्गाधिकारे दर्शयिष्यते, आगमे चान्यथाऽपि श्रावकभेदाः श्रूयन्ते, तथा च स्थानाङ्गसूत्रम्-'चउव्विहा समणोवासगा पण्णत्ता, तं जहा--अम्मा-पिइसमाणे, भाइसमाणे, मित्तसमाणे, सवत्तिसमाणे / अहवा-चउव्विहा समणोवासगा पण्णत्ता,तं जहाआयंससमाणे, पडाग-समाणे, खाणुसमाणे, खरंटसमाणे।' इति परमेते साधूनाश्रित्य द्रष्टव्या इति न पार्थक्यशङ्कालेशः / एषामपि नामश्रावकादिष्ववतारणविचारे व्यवहारनयमते भावश्रावका एवैते, श्रावकपदव्युत्पत्तिनिमित्तमात्रयोगेन तथाव्यवह्रियमाणत्वात, निश्चयनयमते पुनः सपत्नीखरण्टसमानौ मिथ्यादृष्टिप्रायौ द्रव्यश्रावको, शेषास्तु भावश्रावकाः। यतस्तेषां स्वरूपमेवमागमे व्याख्यायते"चिंतिजइ कजाई, न दिट्ठखलिओ मि होइ निन्नेहो। एगंतवच्छलो जइ-जणस्स जणणीसमो सद्धो // 1 // हिअए ससिणेहो च्चिअ, मुणीण मंदायरो वियणकम्मे। भाइसमो साहूणं, पराभवे होइ सुसहाओ॥२॥ मित्तसमाणी माणा, ईसिं रूसइ अपुच्छिओ कज्जे। मन्नंतो अप्पाणं,मुणीण सयणाउ अब्भहिअं॥३॥ . थलो छिद्दप्पेही, पमायखलिआणि निच्चमुच्चरइ। सद्धो सवत्तिकप्पो, साहुजणं तणसमं गणइ॥४॥" तथा द्वितीयचतुष्के"गुरुभणिओ सुत्तत्थो, बिंबिज्जइ अवितहो मणे जस्स। सो आयंससमाणो; सुसावओ वन्निओ समए॥५|| पवणेण पडागा इव, भामिजइ जो जणेण मूढेणं। अविणिच्छिअगुरुवयणो, सो होइ पडाइआतुल्लो॥६|| पडिवन्नमसग्गाहो, न मुणइ गीअत्थसमणुसह्रो वि। खाणुसमाणो एसो, अप्पउसी मुणिजणे नवरं / / 7 / / उम्मग्गदेसओ णि-हवोऽसि मूढोऽसि मन्दधम्मोऽसि। इअसम्भं पि कहतं, खरंटए सो खरंटसमो।।८।। जह सिदिलमसुइदव्वं, लुप्पंतं पिहुनरं खरंटेइ।' एवमणुसासगं पिहु, दूसतो भन्नइ खरंटो॥