________________ सावग(य) 780 - अमिधानराजेन्द्रः - भाग 7 सावग(य) श्रावकधर्म वक्ष्य इति यदुक्तं,तत्र श्रावकशब्दार्थमाहपरलोयहियं सम्मं, जो जिणवयणं सुणेइ उवउत्तो। अइतिव्वकम्मविगमा, सुक्कोसो सावगो एत्थ।।२।। यो जिनवचनं शृणोति स श्रावक इत्येवमिह क्रियाभिसंबन्धः / तत्र य इति सामान्यनिर्देशः / तेन यः कश्चित्प्राणी, न पुनर्नियतकुलोत्पन्न एव, यथा ब्राह्मणकुलोत्पन्न एव ब्राह्मणो भवतीति , क्रियाविशेषनिबन्धनत्वात् श्रावकत्वस्येति। ननु श्रवणमात्रनिबन्धनं श्रावकत्वमेवं स्यात्तच्च सर्वस्य श्रोत्रेन्द्रियलब्धिमतः संभवति, विशिष्टं च तदिष्यत इत्याशङ्कायामाहजिनवचनमाप्तागर्भ, न पुनर्यत्किञ्चनानाप्तवचनं वा, तस्याप्रमाणतया विवक्षितार्थासाधकत्वेन श्रवणानुचितत्वात् / किं भूतं तदित्याहपरलोको जन्मान्तरं प्रधानं जन्म वा तस्मै हितं पथ्यं परलोकहितम्। जिनवचनाराधनाद्धि परलोकोऽनुकूल एव भवतीति / स्वरूपप्रतिपादनपरं चेदं विशेषणं, परलोकहितस्य जिनवचनस्य सर्वथैवाभावेन व्यवच्छेद्याभावात् / अथवा-यजिनवचनमिहलोकहितं निमित्तशास्त्र ज्योतिषप्राभृत (योनिप्राभृत) प्रभृतिकं तद्व्यवच्छेदार्थमेतद्भविष्यति। यद्यपि ज्योतिषप्राभृतादिकमभिप्रायविशेषतः परलोकहितं, तथापि तन्मुख्यवृत्त्येहलोकहितमेव। अथाभिप्रायविशेषतोऽपि यत्परलोकहित तत्परलोकहितमेव, एवं तर्हि सर्वाण्यपि कुशासनानि तथा भवन्तु, किमेकमेव जिनवचनं परलोकहितमित्युच्यते, सर्वेषामपि तेषां विवक्षया परलोकहितत्वेनेष्टत्वात्, यदाह- "जे जत्तिया य हेऊ, भवस्स ते चेव तत्तिया मोक्खे / गणणाईया लोया, दोण्ह वि पुण्णा भवे तुल्ला / / 1 // " 'अतोऽनेन विशेषणेन यत्सांक्षात्परलोकहितं साधुश्रावकानुष्ठानगर्भ जिनवचनं तच्छृण्वञ् च्छावको भवती त्यभिहितम् / अत एवान्यत्र पूज्यैरेवोक्तम्- "संपन्नदंसणाई, पइदियहं जइ जणा सुणेई य / सामायारिं परमं, जो खलु तं सावयं बिति / / 1 // " कथं शृणोतीत्याहसम्यग-शठतया, प्रत्यनीकादिभावेन शृण्वन्नपि न श्रावको भवतीति भावः। अथवा ननु कपिलादिवचनमपि परलोकहितं भवति, कथमन्यथाऽभिधीयते- 'जावंति बंभलोओ चरगपरिव्वायउववाउ त्ति' अतस्तत्यागेन कथं जिनवचनमेव शृण्वन् श्रावको भवतीत्या-शङ्कायामाहसम्यक् समीचीनमत्यन्तं परलोकहितमिति यावत्। यथा हि जिनवचनं साक्षात्पारंपर्येण वा मोक्षहेतुतया सम्यक् परलोकहितं, न तथा कपिलादिवचनमिति भावः / शृणोत्याकर्णयति / किंभूतः सन्नित्याह-- उपयुक्तो दत्तावधानोऽनुपयुक्तश्रवणं हि नार्थवदत एव तन्निषेधार्थमुक्तम्- "निहाविगहापरिव-जिएहि गुत्तेहिं पंजलिउडेहिं / भत्तिबहुमाणपुव्वं, उवउत्तेहिं सुणेयव्वं / / 1 / / " एवंविधे श्रवणे हेतुमाह-अथवा ननु व्यवहारेणोपयुक्तोऽशठश्च जिनवचनमभव्याऽपि कस्याचिदवस्थायां शृणोति, तत्कथमसौ श्रावकः स्यादित्याशङ्क्याह-अतितीवस्यात्युत्कटस्य कर्मणो ज्ञानावरणीयमिथ्यात्वादेविंगमो विनाशोऽतितीव्रकर्मविगमस्तस्मात्। न हि तीव्रकर्मविगममन्तरेणोक्तविशेषणश्रवणसंभवः। पातनान्तरपक्षे तु उक्तविशेषणवतः शृण्वतोऽप्यतितीव्रकर्मविगम एव विवक्षितश्रावकत्वं भवति / यदाह- "सत्तण्हं पगडीणं अब्भं-तरओ उ कोडिकोडीए। काऊण सागराणं, जइ लहति चउण्ह-मण्णयरं / / 1 // " स इत्यनन्तरोद्दिष्टः। 'उक्कोसो' त्ति उत्कृष्यत इत्युत्कर्ष उत्कृष्टः प्रधानो मुख्यश्रावकव्यपदेशभाजनत्वात्तस्य / यद्वा शुक्लःशुक्लपाक्षिकः अपार्थपुद्गलपरावर्ताभ्यन्तरीभूतसंसार इत्यर्थः। स उक्तस्वरूपश्रावकः शृणोतीति शब्दव्युत्पत्ति-विषयीभूतनामा / अवैतस्मिन् श्रावकधर्मविचारप्रक्रमेऽन्यत्र पुनर्विशेषणेन श्रवणेन श्रावणेन वा नामादिभेदभिन्नो वा श्रावको भवतीति गाथार्थः / पञ्चा०१ विव०। "यो ह्यभ्युपेतसम्यक्त्वो, यतिभ्यः प्रत्यहं कथाम्। शृणोति धर्मसंबद्धा-मसौ श्रावक उच्यते।" आव०६आव०६अ। सम्यग्दर्शनसंपन्नः प्रवचनभक्तिमान्षड्विधावश्यकनिरतः षट्स्थानकयुक्तश्च श्रावको भवति / ज्ञा०१ श्रु०१ श्रु० 16 अ०। यतिवचनामृतपाननिरते, भ०२ श०१ उ०। श्रमणोपासके, अनु०। स्था०। पञ्चा०। जिनशासनभक्ता--गृहस्थाः श्रावका भण्यन्ते। आव०४ अ० सावगा गहिताणुव्वता, अगहिताणुव्वता वा। नि० चू०१ उ०। बंभी पटवइया भरहो सा वगो जाओ। आ० म०१ अ० श्रावकाः धर्मशास्त्रश्रवणाद्ब्राह्मणाः। अनु०॥श्रावका ब्राह्मणाः , प्रथमं भरतादिकाले श्रावकाणामेव सतां पश्चाद् ब्राह्मणत्वभवनात् / अनु० / ज्ञा०। ('उसभ' शब्दे द्वितीय-भागे 1143 पृष्ठे स्पष्टमिदमुक्तम्।) अधुना श्रावकस्यैव निवासादिविषयां सामाचारी प्रतिपादयन्नाहनिवसिज्ज तत्थ सडो, साहूर्ण जत्थ होइ संपाओ। चेइयघराइ जत्थ य, तयन्नसाहम्मियां चेव // 336 / / निवसेत्तत्र नगरादौ श्रावकः साधूनां यत्रभवति संपातः। संपतनं संपातः आगमनमित्यर्थः / चैत्यगृहाणि च यस्मिस्तदन्यसाधर्मिकाश्चैव श्रावकादय इति गाथासमासार्थः / अधुना प्रतिद्वारं गुणा उच्यन्ते तत्र साधुसंपाते गुणानाहसाहूण वंदणेणं, नासइ पावं असंकिया भावा। फासुयदाणे निज्जर, उवग्गहो नाणमाईणं // 340 / / साधूनां वन्दनेन करणभूतेन किं नश्यति पापं गुणेषु बहुमानात्तथा अशङ्किता भावास्तत्समीपे श्रवणात्, प्रासुकदाने निर्जरा। कुतः? उपग्रहो ज्ञानादीनां ज्ञानादिमन्त एव साथव इति। उक्ताः साधुसंपाते गुणाः। चैत्यगृहे गुणानाहमिच्छादसणमहणं, सम्मइंसणविसुद्धिहे च। चिइवंदणाइ विहिणा, पन्नत्तं वीयरागेहिं // 341 / / मिथ्यादर्शनमथनं मिथ्यादर्शन-विपरीतपदार्थश्रद्धानरूपं, मथ्यते विलोड्यते येन तत्तथा, न केवलमपायनिबन्धनकदर्थनमेव किन्तु कल्याणकारणोपकारि चेत्याह- सम्यग्दर्शनविशुद्धिहेतु च / सम्यग्अविपरीतं तत्त्वार्थ श्रद्धानलक्षणं दर्शनं सम्यग्दर्शनं मोक्षादिसोपानं तद्विशुद्धिकरणं च / किं तच्चत्यवन्दनादि आदिशब्दात्पूजादिपरिग्रहः / विधिना-सूत्रोक्तेन प्रज्ञाप्त-प्ररूपितं वीतरागैरर्हद्भिः स्थाने शुभाध्यवसायप्रवृत्तेरेतच चैत्यगृहे सतिभवतीति गाथार्थः / उक्ताश्चैत्यगृहगुणाः। सांप्रत समानधार्मिकगुणानाहसाहम्मियथिरकरणं, वच्छल्ले सासणस्स सारो त्ति। मग्गसहायत्तणओ, तहा अणासोयधम्माओ॥३४२||