________________ सामायारी 773 - अभिधानराजेन्द्रः - भाग 7 सामायारी एतावता दशविधसामाचारीमभिधायौघसामाचारी विवक्षुरिदमाहपुटिवल्लम्मिचउन्मागे, आइचम्मि समुहिए। भंडयं पडिलेहित्ता,वंदित्ता य तओ गुरुं|| पुच्छिन्ना पंजलिउडो, किं कायव्वं मए इहं? इच्छं निओइउं भंते ! वेयावच्चे व सज्झॉए।६।। वेयावचे निउत्तेणं, कायव्वमगिलायओ। सज्झाए वा निउत्तेणं, सव्वदुक्खविमुक्खणे॥१०॥ 'पुव्विल्लम्मि' त्ति पूर्वस्मिश्चतुर्भागे आदित्ये समुत्थिते-समुद्गते, इह च यथा दशाविकलोऽपि पटः पट एवोच्यते, एवं किञ्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तः, ततोऽयमर्थः-- बुद्ध्या नभश्चतुर्धा विभज्यते, तत्र पूर्वदिक्संबद्ध किञ्चिदूननभश्चतुर्भागे यदाऽऽदित्यः समुदेति तदा पादोनपौरुष्यामित्युक्तं भवति, भाण्डकं-पतद्ग्रहा-धुपकरणं प्रतिलेख्य-सामयिकपरिभाषया चक्षुषा निरीक्ष्योपलक्षणत्वात्प्रमृज्य च वन्दित्या च-नमस्कृत्य ततः-इति प्रतिलेखनानन्तरंगुरुम्-आचार्यादिकं, किमित्याह-पृच्छेत्-पर्यनुयुञ्जीत प्रक्रमाद्गुरुमेव 'पंजलिउड' त्ति प्राग्वत्कृत प्राञ्जलिः, यथा-किं कर्त्तव्यम्' अनुष्ठेयं 'मये' त्यात्मनिर्देशः इह-अस्मिन् समये इति गम्यते, कदाचिद् गुरवो मन्येरन्स्वाध्यायवैयावृत्त्ययोरन्यतरस्मिन्नेवास्य नियोगे वाञ्छेत्यतो ब्रूयात्'इच्छामि णियोइउं' ति अन्तर्भावितण्यर्थत्वान्नियोजयितुं युष्माभिरात्मानमिति शेषः 'भंते' ति भदन्त ! 'वेयावचे' ति वैयावृत्त्ये लानादिव्यापारे वाशब्दो भिन्नक्रमस्ततः 'सज्झाए' त्ति आर्षत्वात्स्वाध्याये वा, इह च पात्र-प्रतिलेखनानन्तरं गुरुं पृच्छेदिति यदुक्तं तत्प्रायस्तदैव बहुतरवै-यावृत्त्यविधानसम्भवात्। यद्वा-पूर्वस्मिन्नभश्चतुर्भागे आदित्ये समुत्थिते इय समुत्थिते, बहुतरप्रकाशीभवनात्तस्य, भाण्डमेव भाण्डकं ततस्तदिव धर्मद्रविणोपार्जनाहेतुत्वेन मुखवस्त्रिकावर्षा-कल्पादीह भाण्डकमुच्यते, तत्प्रतिलेख्य वन्दित्वा चततो गुरुं पृच्छेत् शेषं प्राग्वत्। उपलक्षणं चैतद्-यतः सकलमपि कृत्यं विधाय पुनरभिवन्दनापूर्वक प्रष्टव्या एव गुरव इति, एवं च पृष्ट्वा यत्कर्तव्यं तदाह-वैयावृत्त्ये नियुक्तेनव्यापारितेन कर्त्तव्यं प्रक्रमात् वैयावृत्त्यम्, ‘अगिलायउ' त्ति अग्लान्यैव शरीरश्रममविचिन्त्यैवेति यावत्, स्वाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे, सकलतपः कर्मप्रधानत्वादस्य, स्वाध्यायोऽग्लान्यैव कर्त्तव्य इति प्रक्रम इति सूत्रत्रयार्थः। इत्थं सकलौघसामाचारीमूलत्वात्प्रतिलेखनायास्तत्कालं सदाविधेयत्वाद् गुरुपारतन्त्र्यस्य तचा भिधायौत्सर्गिकं दिनकृत्यमाहदिवसस्स चउरो भागे, कुज्जा भिक्खू वियक्खणो। तओ उत्तरगुणे कुजा, दिणभागेसु चउस्सु वि।।११।। पढमं पोरिसि*सज्झायं, बीयं झाणं झियायई। तइयाए मिक्खायरियं, पुणो चउत्थीइ सज्झायं // 12 // सूत्रद्वयं स्पष्टमेव,नवरं चतुरो भागान् कुर्याद् बुद्ध्येत्युपस्कारः, 'तत' | इति चतुभकिरणादनन्तरमिति गम्यते उत्तरगुणान् मूलगुणापेक्षया स्वाध्यायादींस्तत्कालोचितान कुर्याद्-विदध्यात्, व दिनभागे। कमुत्तरगुणं कुर्यादित्याह-- प्रथमां पौरुषीं स्वाध्यायं-वाचनादिकं, सूत्रापौरुषीत्वाद्स्याः , कुर्यादितीहोत्तरत्र च क्रियान्तराभावेऽनुवय॑ते, द्वितीयां प्रक्रमात्पौरुषी ध्यनं 'झियायइ' त्ति ध्यायेत्, ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषय एव मानसादि-व्यापारणमुच्यते, ध्यायेदिति वाऽनेकार्थत्वाद्धातूनां कुर्यात्, इह च प्रतिलेखनाकालस्याल्पत्वेनाविवक्षितत्वादुभयत्र 'कालाध्वनोरत्यन्तसंयोगे'' (पा०२-३-५) इति द्वितीया, तृतीयायां भिक्षाचर्या, पुनश्चतुर्थ्यां स्वाध्यायम्, उपलक्षणत्वाततीयायां भोजनबहिर्गमनादीनि, इतरत्र तु प्रतिलेखनास्थण्डिलप्रत्युपेक्षणादीनि गृह्यन्ते / इत्थमभिधानं च कालापेक्षयैव कृष्यादेरिव सकलानुष्ठानस्य सफलत्वादिति सूत्रद्वयार्थः / उत्त०२६ अ० (पर्युषणाकल्पसामाचारी ‘पज्जुसवणा-कप्प' शब्दे पञ्चमभागे 252 पृष्ठे तथा रात्रिसामाचारी 'पइदिणकिरिया' शब्दे 5 पृष्ठे गता।) उपसंपदि मण्डल्यां च द्विविधा सामाचारीदुविहा सामाचारी, उपसंपदे मंडलीऍ बोधव्वा / ऑणॉलोइयम्मि गुरुगा, मंडलिमेरं अतो बोच्छं॥७८१।। सामाचारी द्विविधा-उपसंपदि, मण्डल्यां च बोद्धव्या / तत्रोपसंपत् त्रिविधा-ज्ञानोपसंपत्, दर्शनोपसंपत्, चारित्रोपसंपत् / आसां च सामान्यत इयं च सामाचारी गच्छान्त रदुिपसपदेः प्रतिपत्त्यर्थमायातः साधुः पर्यनुयोक्तव्यः / वत्स ! कस्त्वं कुतो गच्छादागतोऽसि, किंनिमित्तमिहायात इत्येवं यद्यपर्यनुयुज्य तस्योपसंपदं प्रतीच्छति तदा अनालोचिते अपर्यनुयुक्ते सति चत्वारो गुरुकाः, यदा-अनालोचिते-- आलोचनामदापयित्वा, यदि तं परिभुक्त वाचयति वा तदा चत्वारो गुरुकाः / अत्र च ज्ञानोपसंपदाऽधिकारः 'मण्डलिमेरं अतो बोच्छं' तिमण्डलीसूत्रार्थमण्डलीरूपा तस्याः सम्बन्धिनी मर्यादा सामाचारीमत ऊर्ध्वं वक्ष्ये / बृ० 1 उ०१ प्रक०। (सांभोगिकासांभोगिकयोः सह मिलितयोराचार्याद्योः सामाचारी 'उवसंपया' शब्दे द्वितीयभागे 668 पृष्ठे गता।) (गच्छवासिनां जिनकल्पिकानां च सामाचारी 'गच्छवासि' 'जिणकप्पिय' शब्दयोः।) (चतुर्विधा सामाचारी 'आयारविणय' शब्दे द्वितीय-भागे 360 पृष्ठे व्याख्याता / सा चैवम्- संयमसामाचारी, तपःसामाचारी, गणसामाचारी, एकान्तविहार-सामाचारी च / तत्रंसंयमः सप्तदशप्रकारः तस्य सामाचारी / तपो द्वादशविधं तस्य सामाचारी। गणस्य साधुसमुदायस्स सामाचारी एकान्तविहार सामाचारीएकान्तविहारप्रतिमास्वरूपा।) सांप्रतमुपसंहरन्नाहएवं सामाचारी, कहिया दसहा समासओ एसा। संजमतवडगाणं,निग्गंथाणं महरिसीणं // 722 // एवमेषा-सामाचारी दशधा-दशविधा समासतः संक्षेपेण कथिता / केभ्य इत्याह-संयमतपोभ्यामान्याः-समृद्धाः संयमतपआढ्यास्तेभ्यो निर्ग्रन्थेभ्यो महर्षिभ्यः।