________________ सामायारी 772 - अभिधानराजेन्द्रः - भाग 7 सामायारी गर, मुक्ति प्राप्ता इति भावः, उपलक्षणत्वाच्च तरन्ति तरिष्यन्ति चेति सूत्रार्थः। राथाप्रतिज्ञातमाह-- पढमा आवस्सिया नाम, बिइया य निसीहिया। आपुच्छणा य तइया, चउत्थी पडिपुच्छणा / / 2 / / पंचमा छंदणा नाम, इच्छाकारो अछट्ठओ। सत्तमो मिच्छकारो य, तहक्कारो, य अट्ठमो // 3 / / अब्भुट्ठाणं नवमा, दसमा उवसंपया। एसा दसंगा साहूणं, सामायारी पवेइया ||4|| सूत्रत्रयं स्पष्टमेव, नवरं व्रतग्रहणादप्यारभ्य कारण विना गुर्वधग्रहे आशातनादोषसम्भवान्न स्थेयं, किन्तु ततो निर्गन्तव्यं, न च निर्गमनमावश्यकी विनेति प्रथमभावश्यकी, निर्गत्य च यत्रारपदे रथेयं तत्र नैषेधिकीपूर्वकमेव प्रवेष्टव्यमिति तदनु नैषेधिकी, तत्रापि तिष्ठतो भिक्षाटनादिविषयाभिप्रायोत्पत्तौ गुरुपृच्छापूर्वकमेव तत्साधनमित्यनन्तरमापृच्छना, आपृच्छनायामपि गुरुनियुक्तेन पुनः प्रवृत्तिकाले कृचित्प्रष्टव्या एव मुरव इति तत्पृष्ठतः प्रतिप्रच्छना, कृत्वाऽपि गुर्वनुज्ञया भिक्षाटनादिकं ना मम्भरिणव भवितव्यमिति तदनु छन्दनाप्रागगृहीतद्रव्यजातेन शेषयतिनिमन्त्रणात्मिका, तस्यामपि प्रयोक्तव्य एवेच्छाकार इति तदनुतस्याभिधानम्, अयं चात्यन्तमवद्यभीरुणैव तत्वतो विधीयते, तेन च कथञ्चिदतिचार-सम्भवे आत्मा निन्दितथ्य इति तदनु मिथ्याकारः, कृतेऽपि च तस्मिन बृहत्तरदोषसम्भवे गुरूणामालोचना दातव्या, तत्र च यदा-दिशन्ति गुरवस्तत्तथेति मन्तव्यम इति तथाकारः, तथेति प्रतिपद्य च सर्वकृत्येषूद्यमवता भाव्यमिति तदनु उद्रूपमभ्युत्थानम. उद्यम-वताच ज्ञानादिनिमित्तं गच्छान्तरसड़क्रमोऽपि विधेयः तत्र चोप-- सम्पद्ग्रहीतव्येत्यनन्तरमुपसम्पदुक्ता। उपसंहारमाह.. एथा - अनन्तरोक्ता दशाडाइच्छादिदशावयवा साधूना-यतीना सामाचारी प्रवेदितातीर्थकरादिभिरुक्तेति सूत्रत्रयगर्भार्थः। एतामेव प्रत्यवयवं विषयप्रदर्शनपूर्वक विधेयतयाऽभिधातुमाहगमणे आवस्सियं कुज्जा, ठाणे कुज्जा निसीहियं / आपुच्छणा सयंकरणे, परकरणे पडिपुच्छणा / / 5 / / छंदणा दव्यजाएणं, इच्छाकारो असारणे। मिच्छाकारो अनिंदाए,तहक्कारो पडिस्सुए॥६|| अब्भुट्ठाणं गुरुपूया,अच्छणे उवसंपया। एवं दुपंचसंजुत्ता, सामायारी पवेइया // 7 / / गमने-तथाविधालम्बनतो बहिनि:सरणे आवश्यक अशेषा - वश्यकर्त्तव्यव्यापारेषु रात्सु भवाऽऽवश्यकी, उका हि... ''आकस्सिया उ आव--स्सएहिं सव्वहिं जुत्तजोगरस" त्यादि, तां कुर्याद-विदध्यात, स्थीयतेऽस्मिान्नति स्थानम्-उपाश्रयस्त--रिमन प्रविशन्निति शेषः, कुर्यात, कां? नषधिकीम्, निषेधनं निषेधः-पापानुनय आत्मना व्यावर्तन तस्मिन् भवा नेषधिकी, निषिद्धात्मन एतत्संभवात्, उक्तं हि"जो होइ निसिद्धप्पा, निसीहिया तस्स भावओ होइ'' इत्यादि, आडिति-सकलकृत्याभिव्याप्त्या प्रच्छना आप्रच्छना-इदमाहं कुर्या न वेत्येवंरूपा ता स्वयमित्यात्मनः करण-कस्यचिद्विवक्षित-कार्यस्य / निर्वर्तनं स्वयंकरणं तस्मिन, तथा परकरणे-अन्य-प्रयोजनविधान प्रति-प्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले प्रतिपृच्छत्येव गुरु, स हि कार्यान्तरमप्यादिशेत् सिद्ध वा तदन्यतः स्यादिति, उभयत्र या रखकरणपरकरणे उपलक्षणमिति-उच्छासनिः श्वासौ विहाय सर्वकार्येष्वपि स्वपरसम्बन्धिषु गुरवः प्रष्टव्याः, अतः सर्वविषयमपि प्रथमतः प्रच्छनमापृच्छत्युच्यते / तथा च नियुक्तिकृता सामान्य-नैवावाचि''आपुच्छणा तु कले" ति, तथा स्वपरसम्बधिनि सर्वत्रापि कृत्ये गुरुनियुक्तेन पुनः प्रवृत्तिकाले यद्गुरुप्रच्छनं सा प्रतिपृच्छा, तथा च"पुव्वनिउत्तेण होइ पडिपुच्छ' त्ति अविशेषेणैवोवत, छन्दना उक्तरूपा विधयेति शेषः एवमुत्तस्त्रापि,द्रव्य-जातेन तथाविधाशनादिद्रव्यविशेषण प्रारगृहीतेनेति गम्यते, सूचकत्वात्सूत्रस्य, तथा चाह- "पुव्वगहिएण छंदणं' ति, इच्छास्वकीयोऽभिप्रायस्तया करणं-तत्कार्यनिर्वर्त्तनमिच्छाकारः, 'सारणे' इत्यौचित्यत आत्मनः परस्य या कृत्य प्रति प्रवर्तन तत्रा-त्मसारणे यथेच्छाकारेण युष्मचिकीर्षित कार्यमिदमह करोमीति, अन्वाह च-"अहगं तुभ एयं करेमि कनं तु इच्छाकारण' ति, अन्यसारणे च मम पात्रलेपनादि सूत्रदानादि वा इच्छाकारण कुरुतेति, तथा चान्वाह-''जइ अब्भत्थिन्ज परं, कारण जाए करेज्ज से कोइ। तत्थ वि इच्छाकारो, ण कप्पइ बलाभिओगो उ॥१॥" तथा मिथ्येत्यलीक मिथ्याकरणं मिथ्याकार:-मिथ्येदमिति प्रतिपत्तिः सा चात्मनो निन्दा-जुगुप्सा तस्या, वितथाचरणे हि धिगिदं मिथ्यामया कृतमिति निन्द्यत एवात्मा विदितजिनवचनैः, तथाकरण तथाकार:इदमित्थं वैवेत्यभ्युपगमः, सच किं विषयः इत्याह-प्रतिश्रवण प्रतिश्रुतंगुरो याचनादिकं यच्छत्येवमेतदित्यभ्युपगमस्तस्मिन्, तथा चान्वाह"वायणपडिसुणणाए, उवएसे सुत्तअत्थकहणाए। अवितहमेय तितहा, अविकप्पेणं तहकारो ।।१।।"अभीत्याभिमुख्येनोत्थानम्-- उद्यमनमयुत्थानं तच्च 'गुरुपूय' ति सूत्रत्वाद् गुरुपूजायां, सा च गारवार्हाणाम्आचार्यग्लानवालादीनां यथोचिताहारभेषजादि-सम्पादनम्, इह च सामान्याभिधानेऽप्यभ्युत्थानं निमन्त्रणारूपमेव परिगृह्यते, अत एव नियुक्तिकृततत्स्थाने निमन्त्रणवाभिहिता 'छंदणा य निमंतणे'' ति। तथा 'अच्छणे' त्ति आसने प्रक्रमादाचार्यान्तरादि-सन्निधौ अवस्थाने उप–सामीप्येन सम्पादनं-गमनं सम्पदादित्वात्विपि उपसंपद-इयन्त काल भवदन्तिके मयाऽऽसितव्य-मित्येवंरूपा, च ज्ञानार्थतादिभेदेन त्रिधा, तथा चोक्तम्- "उवसंपया य तिविहा, णाणे तहदसणे चरित्ते य''ति एवम इत्युक्तप्रकारेण 'दुपंच- संजुत्त' ति आर्षत्वात् द्विपञ्चकरायुक्ता; दश-संख्यायुक्ता-मित्यर्थः, समाचरी प्रवेदयेत् कथयेत् आर्षत्वाद् गुरुः शिष्यायेति शेषः,अनेन च गुरुणा सदा तदुपदेशपरेणव भवितव्यमित्यर्थत उक्तम्, पठ्यते च- 'एसा दसंगा साहूण,सामारी पवेइयं ति, एतच्च स्पष्ट मिति सूत्रत्रयार्थः /