________________ सामायारी 771 - अभिधानराजेन्द्रः - भाग 7 सामायारी अगीतार्थस्य समाचारी कथ्यते, ततः प्रेष्यते, तदभावे योगी प्रेष्यते। | किंविशिष्टः? 'अणागाढ' त्ति अनागादयोगीबाहायोगी योग निक्षिप्य पारयित्वाभाजयित्वा प्रेष्यते, ततस्तदभावे क्षपकः प्रेष्यते, कथम्?'पारावे' त्ति भोजयित्वा, तदभावे वैयावृत्त्यकरः। एतदेवाह- 'वेयावचे' त्ति वैयावृत्त्यकरः प्रष्यते, 'दायण' ति स च वैयावृत्त्यकर: कुलानि दर्शयति, तदभावे 'जुअल' ति युगलं प्रेष्यते-वृद्धस्तरुणसहितः, बालस्तरुणसहितो वा, 'समत्थं वसहिअंब' त्ति समर्थे वृषभे प्रेष्यमाणे तरुणेन सह वृद्धेन वा सह, द्वितीयो वकारः पादपूरणः / आह- प्रथम बालादय उपन्यस्ताः, तत्कस्मात्तेषामेव प्रेषणविधिर्न प्रतिपादितः प्रथमम्? उच्यते, अयमेव प्रेषणक्रमः, यदुत प्रथममगीतार्थः प्रेष्यते, पश्चाद्योगिप्रभृतय इति आह- इत्थमेवोपन्यासः कस्मान्न कृतः? उच्यते,अग्णाहत्त्वं सर्वेषां तुल्य वर्तत, ताश्च योऽस्तु सोऽरतु प्रथममिति न कश्चिद्दोषः। ओघ०। (लब्धाया वसती संस्तारकविधिः 'संथारग' शब्देऽस्मिन्नेव भागे गतः।) (शकुनविचारः 'सउण' शब्देऽस्मिन्नेव भागे 5 पृष्ठे गतः।)(कायोत्सर्गविषयः 'काउस्सग्ग' शब्दे तृतीयभागे 417 पृष्ठे गतः।) (प्रत्युपेक्षणायां पौरुषीप्रमाणम् 'पोरिसी' शब्द पक्षमभागे उक्तम् / ) (स्थण्डिलद्वारविषयः थंडिल' शब्दे चतुर्थभागे 2370 पृष्ठे गतः।) (मार्गप्रत्युपेक्षणाद्वारम् ‘पडिलेहणा' शब्दे पक्षमभागे 351 पृष्ठे गतम् / ) (पिण्डनिक्षेपः 'पिंड' शब्दे पञ्चमभागे 617 पृष्ठे गतः।) (लेपपिण्डव्याख्या लेव' शब्दे षष्ठे भागे गता।) (पात्रकद्वारम् ‘पत्त' शब्दे पञ्चमभाग 362 पृष्ठे गतम्।) (एषणाविषयः 'एसणा' शब्दे तृतीयभागे 52 पृष्ठ गतः।) (भावद्वारं 'भाव' शब्दे पञ्चमभागे गतम्।) (भिक्षाविषयः 'गोयरचरिया' शब्दे 3 भागे 1004 पृष्ठे गतः।) (भोजनविधिः 'भोयण' शब्दे पञ्चगभाग गतः / ) (ग्रासैषणाविधिः 'एसणा' शब्द तृतीयभाग 67 पृष्ठे गतः।) (परिस्थापनिकाविधिः 'परिझवण' शब्द पश्चमभागे 570 पृष्ठ गतः) एसा परिठवणविही, कहिया भे धीरपुरिसपन्नत्ता। सामायारी एत्तो, वुच्छं अप्पक्खरमहत्थं / / 625 / / सुगमा। इदानीं सामाचारी व्याख्यायतेसन्न तो आगतो चर-मपोरिसिं जाणिऊण ओगाढं / पडिलेहणमप्पत्तं, नाऊण करेइ सज्झायं / / 626 / / एवं च साधुः सञ्ज्ञां प्युत्सृज्यागतः पुनः चरमपारुषी चतुर्थप्रहरं ज्ञात्वा अवगाढम् - अवतीर्ण, ततः किं करोतीत्यत आह-प्रत्युपेक्षणां करोति, अथासौ चरमपौरुषी नाद्यापि भवति ततोऽप्राप्तां चरमपौरुषी मत्वा स्वाध्याय तावत्करोति यावच्चरमपौरुषी प्राप्ता। ओ०। (स्वाध्यायविषयः 'सज्झाय' शब्देऽरिम्मन्नेव भागे गतः।) एसा सामायारी, कहिया भे धीरपुरिसन्नत्ता। एत्तो उवहिपमाणं, वुच्छं सुद्धस्स जह धरणा।।६६५।। सुगमा। उक्तं पिण्डद्वारम, (उपाधिद्वारम् 'उवहि' शब्द द्वितीयभागे / 1064 पृष्टे गतम्।) (नन्दिभाजनविषयः 'दिभायण' शब्दे चतुर्थभागे 1757 पृष्ठे गतः) (अनायतनद्वारम् अणाययण' शब्द प्रथमभागे 310 पृष्ठ गतम् / ) (आलोचनाविषयः 'आलोयणा' शब्दे द्वितीयभागे 400 पृष्ट गतः।) दशधा सामाचारीदसविहा सामायारी पण्णत्ता,तं जहाइच्छा मिच्छा तहकारो, आवस्सियों निसीहिया। आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा ||1|| उपसंपया य काले,सामायारी भवे दसविहा उ। (सू०७४६) स्था० 10 ठा० ३उ०। अनु०। आ० म०। (आसा व्याख्या स्वस्वरथाने।) दसविह सामायारी, जत्थ ठिए भव्वसत्तसंघाए। सिझंति य बुज्झंति य, ण खंडिजइ तयं गच्छे / / महा०४ अ०। तथा 'तव्वइरित्ते य णामणाईसु' त्ति सोपस्कारत्वान्नामनधावनादिषु सुकराणि यानि द्रव्याणि तानि तद्व्यतिरिक्तो द्रव्याचार उच्यते, यत उक्तम-- "णामणधोवणवासण-सिक्खावण-सुकरणविरोहीणि / दव्वाणि जाणि लोए, दव्यायार वियाणाहि / / 1 / / " भावे दशविष्या इच्छादिभेदेन सामाचार्या आचरणा, अत्र बहुलग्रहणात्स्त्रियां युट, एवमाप्रच्छनादिष्वपि, भावत्व तु जीवद्रव्यपर्यायत्वादस्येति। सम्प्रत्यध्ययननामान्वर्थमाहइच्छाइसामभेसुं, आयरणं वण्णिअंतु जम्हेत्थ / तम्हा सामायारी, अज्झयणं होइनायध्वं // 456 / / ‘इच्छादिसाम' त्ति सुव्यत्ययाद् इच्छादिसामसु एषु-अनन्तराभिहितेषु आचरणम-एतद्विषयमनुष्ठानं वर्णित-प्ररूपितम् तुः-पूरणे यस्मादत्राध्ययने तस्मात्सामाचारीतिसामाचारीनामकमिदमिति प्रक्रम अध्ययनं भवति- ज्ञातव्यम्, अयमाशयः-समाचारोऽत्र वर्ण्यते ततः समाचार भवमिति विवक्षायां शैषिकोऽण, कढितश्च स्त्रीलिङ्गता, तथा द 'टिडाणा (पा०४-१-१५) इत्यादिना डीपि सामाचारीति भवतीति गाथार्थः / गतो नामनिष्पन्न निक्षेपः। सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्सामायारि पवक्खामि, सव्वदुक्खविमुक्खणिं। जं चरित्ताण निग्गन्था, तिण्णा संसारसागरं / / 1 / / समाचरण-समाचाररतस्य भावो 'गुणवचनब्राहाणादिभ्य' इति (पा० 5-1-124) ष्यज तस्य च पित्करणसामर्थ्यात स्त्रियामपि वृत्तिरिति 'षिद्रौरादिभ्यश्च (पा०४-१-४१) इति डीषि सामाचारी तायतिजनतिकर्तव्यतारूपामहं प्रवक्ष्यामि सर्वदुःखविमोक्षणीम- अशेषशारीरमानसासातविमुक्तिहेतुम, अत एव यां सामाचारी चरित्वा.. आसेव्य 'ण' इति वाक्यालङ्कारे, निर्गन्थाः-यतयस्तीर्णाः संसारसा