________________ संखडि 55 - अभिधानराजेन्द्रः - भाग 7 संखडि ति? ततः पृष्टः स्न्नेव ब्रूयात्-अतिक्रमिष्याम्यहं संखडीमग्रतो गमिष्यामीत्यर्थः / अथवा-अन्यापदेश करोति। अव्यक्तमपि प्रतिवचन दूत इति भावः। तहियं पुव्यं गंतुं, अप्पोगासास ठाति वसहीसु। जे य अविपक्कदोसा, ण णेति ते तत्थ अगिलाणो।।१०४६।। तत्र-संखडिग्रामे पूर्वमेव गत्वा या अल्पावकाशा वसतयस्तासु तिष्ठन्ति, विस्तीर्णावकाशासु पुनः स्थितानां गृहस्थादिभिः पश्चादागतैः सह त दासंखडादयो दोषाः, ये च तत्राविपक्वदोषा इन्द्रियकषायान् ग्रहीतुमसमर्था अपि "कचिदेव" आह चूर्णिकृत्- "अविपक्कदोसा नाम ज. असमत्था निगिहिउं इंदियकसाए" अधिको विषया वा तत्रालंकृतस्त्रीदर्शनादिसमुत्थदोषपरिजिहीर्षयाऽन्यग्लानकार्याभावेन निर्गच्छन्ति। अथ ग्लानस्य प्रायोग्यग्रहणे विधिमाहविणा विओभासितसंथवेहिं, जंलब्भती तत्थ तु जोगदव्वं। गिलाणभुत्तुव्वरियं वि (साहू), नभुजमाणा वि अतिक्कमंति॥१०४७।। अवभाषणमवभाषितं याचनमित्यर्थः, संस्तवनं -संस्तवो दातुगुणविकत्थनमतेन सहात्मना सम्बन्धविकत्थनं वा तासां विनाऽपितत्र संखड्यां यत्प्रीतियोग्यद्रव्यं लभ्यते तत्प्रथमतो ग्लानेन, तन्मध्याद्भुक्तं तत उद्दरितं भुजाना अपि साधवो, नाऽतिक्रामन्ति-न भगवादाज्ञा विलुम्पन्तिः ओभासियंजंतु गिलाणगट्ठा, तंमाणपत्तं तु णिवारयति। तुडमे व अण्णे व जया नुबेति। भुंजेत्थता कप्पति णऽण्णहा तु॥१०४८|| यत् पुनः प्रयोग्यद्रव्यं ग्लानार्थमवभाषितम्, तद्यदा मानप्राप्तवैयोपदिष्टपथ्यमा प्राप्तं भवति तदा निवारयन्ति, पर्याप्तमायुष्मन्नेतावता अतः परं ग्लानस्य नोपयोक्ष्यते, एवमुक्ते यदा ते गृहस्था एवं बुवते-यूयं या अन्येवा साधवो भुञ्जन्तु तदा ग्लानयोग्य प्रमाणादधिकमपि ग्रहीतुं कल्पते, नान्यथा। इदमेव स्फुटतरमाहदिणे दिणे दाहिसिथोवथोवं, दीहाउया तेण ण गिण्हिमोहि। जो हावइस्सामि गिलाणगस्स, तुज्झेवता गिण्हह गेण्हणे वा / / 1046 / / भी श्रावक ! ग्लानस्य दीर्घा-चिरकालस्थायिनी रूक-रोगः समस्ति अतो दिने दिने इदं ग्लानयोग्यद्रव्यं दास्यति तेन कारणेन वयमिदं न गृह्णीमः / ततो यदि ते गृहस्था बुवते वयं प्रतिदिनं ग्लानस्य प्रायोग्य न हापयिष्यामः यूयमपि च तावत्प्रसादं कृत्वा गृहीत एवमुक्ते प्रमाणप्राप्तादधिकस्याऽपि ग्रहण कर्त्तव्यम् / एवं तावत्साधूनां प्रवेशे लभ्यमाने / विधिरूक्तः। अथ यत्र साधवः प्रवेशं न लभन्ते तद्विषयं विधिमाहन विलब्भते पवेसो, साधूणं लडभए त्थ अजाणं। वावारण पडिकिरणा, पडिच्छणा चेव अजाणं / / 1050 / / यत्र- अन्तःपुरादी नाऽपि-नैव साधूनां प्रवेशो लभ्यते; किंतु लभ्यते तत्रार्यिकाणां प्रवेशः। कर्मकर्तर्ययं प्रयोगः। ततः षष्ठीविभ-क्तिरदुष्टा, तत्रार्यिकाणां व्यापारणा विधेया। ततस्ता अन्तःपुरादौ प्रविश्य प्रज्ञापयन्ति / तथाऽपि चेत् प्रवेशो न लभते, ततः अन्तः पौरकरणनिम्ना आर्यिका ग्लानप्रायोग्य गृहीत्वा साधूना पात्रेषु परिकिरन्ति / तत आर्यिकाणां हस्तात् ग्लानप्रायोग्यं प्रतीच्छन्ति। इदमेव स्पष्टयतिअलब्भमाणे जतिणं पवेसे, अन्तोउरे इन्भघरेसुवाऽवि। उज्जाणमाईसुवसंठियाणं, अज्जाउ कारैतिजतिप्पवेसं॥१०५१॥ राजादीनामन्तःपुरे वा अन्यगृहेषु वा यतीनां प्रवेशे अलभ्यमाने उद्यानादिषु वा यतीनां प्रवेशे अलभ्यमाने उद्यानादिषु वा संस्थिताना साधूनामनागन्तुकानामित्यर्थः, आर्यास्तत्र यतीनां प्रवेशं कारयन्ति / कथमिति चेदुच्यते-ता आर्यिका अन्तःपुरादौ गत्वा प्रज्ञापयन्तियथैते भगवन्तो महातपस्विनो निःस्पृहा एतेभ्यो दत्तं बहुफल भवति, एवमादिप्रज्ञापनया यदा तानि कुलानि भावितानि भवन्ति, तदा साधवः प्रविशन्ति। अथ तथाऽपि प्रवेशो न लभ्यते ततः किं कर्त्तव्यमित्याहपुराणमाईसुवणीणवेंति, गिहत्थभाणेसु सयं व ताओ। अगारिसका जतिसत्तएही, दुट्ठोवभोगेहि य आणति।।१०५२। आर्यिका गृहस्थभाजनेषु ग्लानप्रयोग्यं गृहीत्वा पुराणादिभिर्गृहस्थैः साधुसमीप नाययन्ति; प्रापयन्तीत्यर्थः। अथ तादृशो गृहस्थो न प्राप्यते ततः स्वयमेव ताः आर्यिका गृहस्थभाजनेषु गृहीत्वा साधुसमीपं नयन्ति। तथाऽगारिणः शङ्कां कुर्युः-नूनमेता गृहस्थभाजनेष्वेवंविधमुत्कृष्टद्रव्य गृहीत्वा केषांचिदविरतिकानां प्रयच्छन्ति ततो यतीनां सत्कानि यान्यधस्तादुपभोग्यानि-असम्भोग्यानि भाजनानि उपहतानीत्यर्थः तेषु गृहीत्वा साधूनां समीपमानाययन्ति वा। तेसामभावा अहवा वि संका, गिण्हंति भाणेसुसएसुताओ। अभोइभाणेसु उतेसिभोगो, गारत्थि तेसेव व भोगिसुंवा॥१०५३।। तेषां संयतभाजनानामभावात् ; अथवा- तेषु गृह्यमाणेषु गृहस्थानां शङ्का भवेत् , एतानि संयमभाजनानि, तदवश्य