________________ संखडि 54 - अभिधानराजेन्द्रः - भाग 7 संखडि श परिव्राजकाः, दश श्वेतपटाः, एवमादिगणनया यत्र दीयते सा प्रगणिता। 'सक्खेत्ते' ति सक्रोशयोजनक्षेत्राभ्यन्तरवर्तिनी 'अखेत्ते' त्ति सचित्तपृथिव्यादावक्षेत्रे अस्थण्डिले स्थिता वा 'बाहिर' ति / सक्रोशयोजना क्षेत्रबहिर्वत्तिनी, आधारा नाम चरकपरिव्राजकादिभिराकुला, अविशुद्धेन पृथिव्यप्कायादिसंसक्तेन पथा गमनं यस्यां साऽविशुद्धपथगमना। यत्र स्तेनश्वापदादयो दर्शनादिविषयाश्च प्रत्यपाया भवति सा सप्रत्यपाया। सा च जीवितभेदाय चरणभेदाय वा भवेदिति द्वारगाथासमासार्थः। अथैनामेव प्रतिपदं विवृणोतिआचंडाला पढमा, वितियापासंडजातिणामेहिं। सक्खेत्ते जा सकोस, अक्खेत्ते पुढविमाईसु॥१०३७|| प्रथमा यावन्तिकी; सा आ चण्डालात् यावन्तः केचन नटिकाकापटिकादयो भिक्षाचरा यावदपश्चिमश्चाण्डालस्तावतां दातव्यमिमिलक्षणा / द्वितीय प्रगणिता प्रकर्षेण पाषाण्डिनो जात्या नाम्ना वा गणयित्वा यत्र दीयते / तत्र जाति प्रतीत्य गणनादश भौताः, दश भागवताः, दश श्वेताम्बरा इत्यादि। नाम प्रतीत्य गणना, यथा-अमुकः श्वेलपटःअमुकश्च रक्तपट इत्यादि / स्वक्षेत्रसंखडी नाम या सक्रोशयोजनक्षेत्राभ्यन्तरे भवति / अक्षेत्रसंखडी तु या सचित्त-वनस्पतिकायादिष्वनन्तर वा प्रतिष्ठिता। एतासु गच्छतः प्रायश्चित्तमाहजावंतिगाएँ लहुगा,चउगुरु पगणीऍ लहुग सक्खेत्ते। मीसगसचित्ताणंतर,परंपरे कायपच्छित्तं / / 1038|| यावन्तिकायां चतुर्लघवः, प्रगणिताया चतुर्गुरवः, स्वक्षेत्रसंखड्यां गच्छतश्चतुर्लघु, अक्षेत्रसंखडयां मिश्रसचित्तानन्तरपरम्परप्रतिष्ठितायां कायप्रायश्चित्तम् / तत्र पृथिव्यादिषु प्रत्येकवनस्पतिपर्यन्तेषु मिश्रेषु परम्परप्रतिष्ठितायां लघुपञ्चकम्, अनन्तरप्रतिष्ठितायां मासलघु। एतेष्वेव सचित्तेषु परम्परप्रतिष्ठितायां मासलघु, अनन्तरप्रतिष्ठितायां चतुर्लधु अनन्तरवनस्पतिषु च / तान्येव प्रायश्चित्तानि गुरुकाणि कर्त्तव्यानि। बहि वुडिअड्डजोयण, गुरुगादी सत्तहिं भवे सपदं। चरगादी आइण्णा, चउगुरु हत्थाइभंगोय॥२०३६।। क्षेत्राद्वहिः संखड्यां गच्छतश्चतुर्लघु, ततः परमर्द्धयोजनवृद्ध्या चतुर्गुरू क मादौ सप्तभिर्वृद्धिभिः स्वपदं पाराशिकम् / तद्यथाक्षेत्रबहिरड़योजने चतुर्गुरू, योजने षड्लघ् सार्द्धयोजने षड्गुरु, द्वयोर्योजनयोश्छेदः, अर्द्धतृतीययोजनेषु मूलम, त्रिषु योजनेषु नवमम्, अर्द्धचतुर्थयोजनेषु पाराशिकम्, तथा या च परिव्राजककार्पटिकादिभिराकुला सा आकीर्णा, तां गच्छतश्चतुर्गुरूकम्। तत्र चातिसम्मर्दन हस्तपादपात्राणां भङ्गो भवेत्। अथाऽविशुद्धपथगमनादीनि द्वाराणि व्याख्यातिकाएहिँ विसुद्धपहा, सावयतेणा पहे पवायाओ। णबंभवतावा, तिविधा पुण होंति पत्तस्स।।१०४०।। दसणवादे लहुगा, सेसा वादेसु चउगुरु होति। जीवियचरित्तभेदा, विसचरगादीहिं गुरु काउं।।१०४१।। कायैः-पृथिव्यादिभिरविशुद्धः एष मार्गो यस्याः संखडेः सा तथा, अस्या च कायनिष्पन्न प्रायश्चित्त प्रत्यपायाश्च द्विविधाः / पथि वर्तमानस्य, तस्य प्राप्तस्य च / तत्र पथि श्वापदस्तेनकण्टकादयः, तत्र प्राप्तस्य तु त्रिविधाः प्रत्यपाया भवन्ति / दर्शनब्रह्मव्रतादिषु भेदात् / ततः सखडिं गतस्य चरकशाक्यादिभिया ग्रहणे दर्शनापायः, चरिकातापसीप्रभृतिभिरन्याभिर्वा मत्तप्रमत्तादिस्त्रीभिर्ब्रह्मव्रतापायः / आत्मापायस्तु पूर्वोक्त एव हस्तभङ्गादिकाः, एवं विधास्तत्सहिता सप्रत्यपायाः। अत्र च दर्शनापाये चतुर्लघुकाः। शेषेषु स्तेनश्वापदादिषु ब्रह्मव्रतात्मविषयेषु प्रत्यपायेषु चतुर्गुरवो भवन्ति / तथा सौगतोपासकादिदोषदुष्टा संखडिर्नवाचीर्णा, एतद्विपरीता आचीपर्णेति। द्वितीये पदे एतैः कारणैः संखडिमपि गच्छेत् - कप्पइ गिलाणगऽट्ठा, संखडिकगमणं दिवा व रातो वा। दव्वम्मि लभमाणे, गुरुउवदेसो त्ति वत्तब्वं // 1052 / / ग्लानार्थं संखडिगमनं दिवा वा रात्रौ वा कल्पते / तत्र च द्रव्ये ग्लानप्रायोग्ये लभमाने यावन्मात्रं ग्लानस्योपयुज्यते तावति प्रमाणप्राप्ते सति प्रतिषेधयन्ति। यद्यसौ दाता ब्रूयात्-किमिति न गृहीथ ? ततो वक्तव्यंभणनीयम्, गुरुवैद्यस्तस्योपदेशोऽयम्-यदेतावतः प्रमाणादूर्ध्व ग्लानस्य पथ्यादिकं न दातव्यम्। इदमेव भावयतिपुव्विं ता सक्खेत्तं, असंखडीसंखडीसु वा जतति। पडिवसभमलब्भंते, तो वच्चति संखडी जत्थ।।१०४३॥ ग्लानस्य प्रायोग्यं पूर्व तावत् स्वक्षेत्रे-स्वग्रामे असंखड्यां गवेषयितव्यम्-यद्यसंखड्यान प्राप्यते, ततः स्वग्राम एव याः संखड्यस्तासु यतते / तदभावे प्रतिवृषभग्रामेष्वपि, ततः संखड्यामपि। अथ तत्राऽपि न लभ्यते यत्र ग्रामादौ संखडी भवति तत्र व्रजन्ति। ताश्च संखड्यो द्विधासम्यगदर्शनभाविताः, तीर्थविषयाश्च / तत्र प्रथममाद्यासु गन्तव्यम्। यत आहउजिंतणायसंखडि-सिद्धसिलादीण चेव जत्तासु। सम्मत्तभाविएसुं, ण हुंति मिच्छत्तदोसाओ।।१०४४।। उज्जयन्ते ज्ञातसंखडे सिद्धशिलायाम् एवमादिषु सम्यक्त्वभावितेषु तीर्थेषु याः प्रतिवर्ष यात्राः संखडयो भवन्ति; तासु गच्छतो मिथ्यात्वस्थिरीकरणादयो दोषा न भवन्ति। एतेसिं असईए, इतरीओं वयंति तत्थिमा यतणा पुट्ठो अतिक्कमिस्सं कुणति व अण्णावदेसं तु // 1045 / / एतेषां सम्यक्त्व भावितानाम भावे इतरा अपि मिथ्यात्वभावित-तीर्थविषयाः संखडीवजन्ति / तत्र च गच्छत इयं यतना-यदि के नाऽपि पृच्छ्यन्ते -किं संखडी गमिष्यथं -