________________ सामाइयकड 765 - अभिधानराजेन्द्रः - भाग 7 सामाइयकप्पट्ठि प्रतिदिनमुभयसन्ध्यं सामायिककरणं मासत्रयं यातत्तृतीयामुपासकप्रतिमा प्रतिपन्ने,स०११ सम०। प्रतिपन्नाद्यशिक्षाव्रते, पञ्चा० 1 विव०। (' उवासगडिमा' शब्दे द्वितीयभागे 1130 पृष्ट इयं प्रतिमोक्ता।) (सामायिककृतस्य का क्रिया क्रियत इति 'किरिया' शब्दे तृतीयभागे 547 पृष्ठे उवतम्।) सामायिककृतस्य प्रत्याख्यानभङ्गाःरायगिहे० जाव एवं वयासी-आजीविया णं भंते ! थेरे भगवंते एवं क्यासी-समणोवासगस्सणं भंते ! सामाइयकडस्स समणोवस्सए अच्छमाणस्स केइ भंडे अवहरेजा, से णं भंते ! तं भंड अणुगवेसमाणे किं सयं भंडं अणुगवेसइ परायगं भंडं अणुगवेसइ? गोयमा ! सयं भंडं अणुगवेसइनो परायगं भंडं अणुगवेसइ, तस्स णं भंते ! तेहिं सीलव्ययगुणवेरमणपच्चक्खाणपोसहोववासेहिं से भंडे अभंडे भवति? हंता भवति / से केणं खाइणं अतुणं भंते ! एवं वुच्चइ सयं भंडं अणुगवेसइनो परायगं भंडं अणुगवेसइ? गोयमा ! तस्स णं एवं भवति-णो मे हिरन्ने नो मे सुवन्ने नो मे कंसे नो मे दूसे नो मे विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमादीए संतसारसावदेखे, ममत्तभावे पुण से अपरिण्णाए भवति, से तेणटेणं गोयमा ! एवं वुचइसयं भंडं अणुगवसइनो परायगं भंडं अणुगवेसइ / (सू०३२८४) 'रायगिह' इत्यादि, गौतमो भगवन्तमेवमवादीत्-आजीविका: - गोशालकशिष्या भदन्त ! स्थविरान-निर्ग्रन्थान् भगवतः-एवं-वक्ष्यमाणप्रकारमादिषुः, यच्च ते तान् प्रत्यवादिषुस्तगौतमः स्वयमेव पृच्छन्नाह- समणोवासगस्स ण मित्यादि, 'सामायिय-कडस्स' त्तिकृतसामायिकस्यप्रतिपन्नाद्यशिक्षाव्रतस्य, श्रमणो-पाश्रये हि श्रावकः सामायिक प्रायः प्रतिपद्यते इत्यत उक्तं श्रमणो-पाश्रये आसीतस्येति, 'केइ ति–कश्चित्पुरुषः भड' ति वस्त्रादिकं वस्तुगृहवर्त्ति साधूपाश्रयवर्ति वा 'अवहरेज' त्ति-अपहरेत् 'से' त्ति–स श्रमणोपासकः 'त भंड' तितद्-अपहृतं भाण्डम 'अणुगवे--समाणे त्ति-सामायिकपरिसमाप्त्यनन्तरं गवेषयन् 'सभंड ति--स्वकीय भाण्ड परायगं' ति परकीयं वा? पृच्छतोऽयमभिप्रायः- स्वसम्बन्धित्वात्तत्स्वकीये सामायिकप्रतिपत्ती च परिग्रहस्य प्रत्याख्यातत्वादस्वकीयमतः प्रश्नः, अत्रोत्तरम्-- 'सभंड' ति-स्वभाण्ड, तेहिं ति-तैर्विवक्षितेर्यथाक्षयोपशमं गृहीतरित्यर्थः, 'सील' त्यादि, तत्र शीलवतानि-अणुव्रतानि गुणा-गुणव्रतानि विरमणानिरागादिविरतयः प्रत्याख्यानं-नमस्कारसहितादि पौषधापवास:पर्वदिनोपवसनं तत एषां द्वन्द्वोऽतस्तैः, इह च शीलव्रतादीनां ग्रहणेऽपि सावद्ययोगविरत्या विरमणशब्दापात्तया प्रयोजन तस्या एव परिगृहस्यापरिग्रहतानिमित्तत्वेन भाण्डस्या-भाण्डताभवनहेतुत्वादिति 'सेभंडे अभंड भवइ ति-तत्-अपहृतं भाण्डमभाण्ड भवत्यसंव्यवहार्यत्वात्। 'सेकेणं ति अथ केन 'खाइ णं ति-पुनः 'अटेणं' ति-अर्थेन-हेतुना / 'एवं भवइत्ति एवंभूतो मनः परिणामो भवति–'नो मे हिरन्ने' इत्यादि, हिरण्यादि-परिग्रहस्य द्विविधं त्रिविधेन प्रत्याख्यातत्वात्, उक्तानुक्ता नुसंग्रहेणाह- 'नो में' इत्यादि, धनं-गणिमाति गवादि वा कनकं-- प्रतीतं रत्नानिकर्केतनादीनि मणयः- चन्द्रकान्तादयः मौक्तिकानि शडखाश्च प्रतीताः शिलाप्रवालानि-विद्रुमाणि / अथवा-शिलामुक्ताशिलाद्याः प्रवालानि-विमादुणि रक्त-रत्नानिपद्मरागादीनि तत एषा द्वन्द्वस्ततो विपुलानि--धनादीन्यादिर्यस्य स तत्तथा, 'संत' त्ति-विद्यमान 'सार' त्ति प्रधान 'सावएज' ति-स्वापतेय द्रव्यम् एतस्य च पदत्रयस्य कर्मधारयः, अथ यदि तद्भाण्डमभाण्ड भवति तदा कथ स्वकीय तद् गवेषयति? इत्याशङ्याह- 'ममत्ते' त्यादि, परिग्रहादिविषये मनोयाकायानां करणकारणे तेन प्रत्याख्याते ममत्वभावः,पुनः- हिरण्यादिविषये ममतापरिणामः पुनः अपरिज्ञातः-अप्रत्याख्यातो भवति, अनुमतेरप्रत्याख्यातत्वात, ममत्वभावस्य चानुमतिरूपत्वादिति / भ०५ श०५ उ०। ('जाया' शब्दे चतुर्थभागे 1454 पृष्ठे बहु वक्तव्यं गतम्।) सामाइयकप्पट्टिइ-स्त्री०(सामायिककल्पस्थिति) सामायिकम्-- संयमविशेषस्तस्य तदेव वा कल्पः करणम्- आचारः सामायिककल्पः / सच प्रथमचरमतीर्थयोः साधनामल्पकालच्छेदोपस्थाप-- नीयसद्धावात, मध्यमतीर्थेषु महाविदेहेषु च यावत्कथिकच्छेदोपस्थापनीयाभावाभावात्, तदेवं तस्यावस्थितिः-मर्यादा सामायिककल्पस्थितिः कल्पस्थितिभेदे, स्था०३ ठा०४ उ०। अथैनामेव यथाक्रम विवरीषुः प्रथमतः सामायिककल्पस्थिति विवृणोतिकतिठाणहितो कप्पो, कतिठाणेहि अद्वितो। वुत्तो धूतरजोकप्पो, कतिट्ठाणपतिद्वितो // 282 / / यः किल धूतरजाः-- अपनीतपापकर्मा सामायिकसाधूनां कल्प आचारी भगवद्विरुक्तः स कतिषु स्थानेषु स्थितः? कतिषु स्थानेषु अस्थितः? कतिस्थानप्रतिष्ठितश्वोक्तः? सूरिराहचउठाणे ठिओ कप्पो, छहि ठाणेहिं अट्ठिओ। एसो धूयरयोकप्पो, दसठाणपतिठिओ।।२८३।। चतुःस्थानस्थितः कल्पः षट्सु च स्थानेष्वस्थितस्तदेवमेवधूतरजाः सामायिकसंयतकल्पो दशस्थानप्रतिष्ठितः, केषुचित् स्थित्या केषुचित्पुनरस्थित्या, दशसु स्थानेषु पतिवदो मन्तव्य इत्यर्थः। इदमेव व्यक्तीकरोतिचउहि ठितो छहि अठितो,पढमा वितिया ठिता दसविहम्मि विहमाणा णिव्विसगा, जेहिं वहतेउ णिविट्ठा।।२८४|| प्रथमाः-सूत्रक्रमप्रामाण्येन सामायिकसयतास्ते चतुर्दा स्थानेषु स्थिताः, षटसुपुनरस्थिताः गाथायां सप्तम्यर्थे तृतीया। ये तु द्वितीयाः-छेदोपस्थापनीयसंयतास्ते दशविधेऽपि कल्पे स्थिताः। पश्चानतृतीयचतुर्थकल्पस्थित्योः कल्पशब्दार्थमाह- 'वहमाणा' इत्यादि। ये परिहारविशुद्धिक