________________ सामाइय 763 - अभिधानराजेन्द्रः - भाग 7 सामाइय किं सर्वेषां भवति नेत्याह-वासीलोहकारोपकरणविशेषः, वासीव वासी अपकारकारी तां चन्दनमिवमलयजमिव दुष्कृततक्षणहेतुतयोपकारकत्वन कल्पयन्ति मन्यन्त वासीचन्दनकल्पाः, यदाह- "यो मामपकरीत्येष, तत्तेनोपकरोत्यसा / शिरामोक्षाद्युपायेन, कुर्वाण इव नीरुजम / / 1 / / " अथवास्यामपकारिणि चन्दनस्य कल्प इव छंद इव य उपकारित्वेन वर्तन्ते ते वासीचन्दनकल्पाः , आह च- "अपकारपरेऽपि परे, कुर्वन्त्युपकारमेव हि महान्तः। सुरभीकरोति वासी , मलयजमपि तक्षमाणमपि // 1 // " वास्यां वा चन्दनस्येव कल्प आचारो येषा ते तथा / अथवा-वास्यां चन्दनकल्पा:-चन्दनतुल्या ये ते तथा, भावना तु प्रतीतेव, तेषां वासीचन्दनकल्पानामुक्तमभिहितमाप्तैनन्येिषामेतत्सामायिकम् केषामेवं विशेषणानामित्याह-महात्मनाम्-उत्तमसत्त्ववतामिति। सामायिक फलतः स्वामितश्च निरूपितम् / अथ स्वरूपतस्तदेव निरूपयन्नाह / अथवा-मोक्षाङ्गं सामायिकं यत आहनिरवद्यमिदं ज्ञेय-मेकान्तेनैव तत्त्वतः कुशलाशयरूपत्वात्,सर्वयोगविशुद्धितः / / 2 / / निर्गतम् अवद्याद- गर्हितकर्मणो हिंसादिक्रोधादेरिति निरवयं स्वरूपेणेदं सामायिक ज्ञेयं-ज्ञातव्यम्। एकान्तनवसर्वथैवन पुनरंशनापि सावधं तथाविधस्य तस्याविशुद्धत्वात्, यदाह-''पडिसिद्धेसुरा देसे, विहिएसु य ईसिराग भावम्मि। सामाइयं असुद्ध, सुद्धं समयाण दोण्हं पि // 1 // " तत्तातः- परमार्थतो नतूपचारवृत्त्या उपचरित ह्यवस्तु तत्कार्याकरणात। कुत एतदेव-मित्याह-कुशलाशयरूपत्वात् शुभाभिसन्धिस्वभावतस्तस्य सर्वथा निरवद्यत्वाभावे हिकुशलाशयत्वं न स्यादिति ननु। ज्ञानदर्शनयोरप्येतदस्तीत्याह- सर्वयोगविशुद्धितः- समस्तमनोवाकायव्यापारशुद्धि भावान्नहि ज्ञानादिषु योगविशुद्धिरस्तीति। अथागतरूपसामायिकविलक्षणं शाक्यपरिकल्पितं कुश लचित्तं मोक्षाङ्गतया निषेधयन्नाहयत्पुनः कुशलं चित्तं, लोकदृष्ट्या व्यवस्थितम् / तत्तथौदार्ययोगेऽपि, चिन्त्यमानं न तादृशम्।।३।। सामायिक तावत् मोक्षाङ्ग, तत् पुनर्यदित्युद्देशे पुनरिति विशेषणार्थः, कुशल-शुभं चित्तं-मनः किं तत्त्वतः कुशल नेत्याह-लोकदृष्ट्या सामान्यजनदर्शनेन- लोकोत्तरजनदृष्ट्या तु तस्य विचार्यभाणरय कुशलाभासतैव व्यवस्थितम्-प्रतिष्ठितम्, तचित्तम्, 'तथे ति तथाविधस्य सामान्यबुद्धिजनसंमतस्यौदार्यस्योदारताया योगः-संबन्धः तदोदार्ययोगस्तत्रापि,आस्तां तदयोगोऽपि चिन्त्यमानं विचार्यमाणम्, न-नैव तादृशं सामायिकसदृशम्। यत्किल सामायिकादधिकतया संमतं परेषां तद्विचार्यमाणं तत्सममपि न भवतीति कथ तन्मोक्षाङ्ग मिति। अथ तदेव मायापुत्रीयकल्पितं कुशलचित्तमुपदर्शयन्नाह - मय्येव निपतत्वेतज्, जगदुश्चरितं यथा / मत्सुचारित्रयोगाच, मुक्तिः स्यात्सर्वदेहिनाम् / / 4 / / मयीति अनेन बोधिसत्त्व आत्मान निर्दिशति-एवशब्दाऽवधारणे, तेन मरयेव न पुनः परत्र निपततु-नितरामापद्यताम् एतत्प्रतिपाणिप्रत्यक्षमक्षूण सांसारिकासुखकारणं जगता-प्राणिनां दुश्चरित-हिंसादिनिबन्धन कर्ग जगददुश्चरितं, यथेत्युपदर्शनार्थः, तस्य चैव संबन्धः तत्तादार्ययोगेऽपि चिन्त्यमानं न तादृशं यथा एतन्मय्येवेत्यादि, तथा मन्सुचरितयोगात- मदीयाहिंसादिसदनुष्ठानसंबन्धाचशब्दः-- समुचये, मुक्तिः माक्षः स्याद-भवेत् सर्वदेहिना-सकलसंसारिणामिति कुशलचित्तमिति। कस्मादिदं तथौदार्ययुक्तमपि न सामायिकसदृशं भवतीत्याह.. असंभवीदं यद्वस्तु, बुद्धानां निर्वृतिश्रुतेः। संभवित्वे त्वियं न स्यात्, तत्रैकस्याप्यनिवृतौ / / 5 / / असंभवि-न संभवनस्वभावम् इदमनन्तरोदितं यद्-- यस्माद्वस्तु अन्यकृतकर्मणोऽन्यत्र संबन्धलक्षणोऽर्थः, कुत इत्याह- बुद्धानांबोधिसत्त्वानां निर्वृत्तिश्रुतेर्निर्वाणगमनश्रवणात् तदागमे, तथाहि"गङ्गाचालिकासमा बुद्धा निर्वृता'' इति तदागमः / अयमभिप्रायो यदि जगद दुश्चरितं बुद्धे न्यपतिष्य तदा तस्य निर्वाणं नाभविष्यत्, इष्यते च तत्तस्येत्यरामवीदं वस्तु। एतदेवाह-संगवित्वे तु भवनरवभावत्वे पुनरस्य वस्तुन इयं स्तूयमाना बुद्धनिर्वृतिर्न स्यात् न भवेत्तत्र तेषु जाग्रत्सु मध्य एवरयापि जगत आरता बहूनामनिर्वृतावनिर्वाणे सति अतोऽसंभवित्वादस्य वरतुन एतत्कुशलचित्तं न सामायिकसदृशमिति। यदि सामायिकसदृशं नेदं चित्त तर्हि किंविधमिद मित्याहतदेवं चिन्तनं न्यायात्, तत्त्वतो मोहसंगतम्। साध्ववस्थान्तरे ज्ञेयं,बोध्यादेःप्रार्थनादिवत्॥६॥ रादिति-यस्मादसंभवीदं वस्तु तस्मादेवमनन्तरोदितं मय्येवेत्यादिचिन्तनं ध्यान न्यायादुपदर्शितादसं भवित्वलक्षणान्न यावत्तत्वतः परमार्थचिन्तायां मोहसगते–मोहनीयकर्मोदयानुगतम्, मोहोदयाभावे हि समस्तविकल्पोत्कलिकावर्जितमेव चित्तं भवति / सरागावस्थायां पुनः स्यादप्येवंविधं चित्त साधुता च तस्य स्यादित्याह- साधुशोभनमनन्तरोदित प्रणिधानमवस्थान्तरे सरागावस्थायां न पुना रागक्षये नेयं -ज्ञातव्यग 1 किंवदित्याह- बोध्यादेरारोग्यबोधिलाभादरादिशब्दात समाधिवरपरिग्रहः, प्रार्थनादिवत्-याञ्चादि यथा / यदाह- 'आरुग्गबाहिलाभ, समाहिवरमुत्तम दितु' आदिशब्दाद्अर्हदादिरागपरिग्रहः, यदाह- 'अरिहंतेसुय रागो, रागो साहूसु बंभयारीसु / एस पसत्थो रागो, अजसरागाण साहूणं / / 1 / / ' अयमभिप्रायो यद्यपि प्रार्थनीयानामर्हता वीतरागतया बोधिलाभादिदानमसंभवितथापि रागवतो भगवत्सु भक्तिमावेदयतो भावोत्कर्षादिदं साध्वेव। आह च- 'भासा असच्चमोसा, नवरं भत्तीऍ भासिया एसा। नहु रखीणपेजदोसा, दंति समाहिं च लोहिं च / / 1 / / ' यदि च मोहसंगतमप्यौदार्यमात्रापक्षया मय्येवेत्यादिचिन्तनमनवा स्यात्तदैतदनवातरं भविष्यति, यथा