________________ सामाइय 762 - अभिधानराजेन्द्रः - भाग 7 सामाइय तप्पडिवक्खच्चाओ, गम्मइ सामाइए वेवं / / 3580 // यथेह मासादिविरमणादनन्तरं 'व्युत्सृजामि' इति भणिते तत्प्रतिपक्षत्यागो मांसभक्षणनिवृत्तिरूपो गम्यते-अवसीयते-तथा संव्यवहारदर्शनात, प्रस्तुतसामायिकेऽप्येवमेवावगन्तव्यम्। इदमुक्तं भवति-राथा 'मसं सुराइयं पावखामि जावजीवाए चउन्विह तिविहेणं मणेणं वायाए कारणं न भुजेमि, न भुजावेमि, वोसिरामि' इति मासविरमणादनन्तरं 'व्युत्राजामि' इत्युक्ते 'मांसादिभक्षणरूपं तद्विपक्षं त्यजामि' इति गम्यते, एवमिहापि तस्स भते ! पडिकमामि निंदामि गरिहागि अप्पाणं इत्येतत्पर्यन्तेन सूत्रेण यत् सर्वसावायोगप्रत्याख्यानमुक्तम, तदनन्तरं 'युत्सृजामि' इत्युक्ते 'तद्विपक्षरूपं सावधयोगाविरमणं त्यजामि' इति गम्यत इति! अथका पुन: सर्वसावधयोगप्रत्याख्यानरूपस्य सामायिकस्य विपक्षः? इत्याशय तदुपदर्शनार्थमाहसम्मत्ताइमयं तं, मिच्छत्ताईणितव्विवक्खो य। ताण विवक्खो गम्मइ, पभासिए वोसिरामि त्ति // 3581 / / तच्च सामायिक 'सामाइयं च विविह सम्मत्तसुयं तहा चरितं च' इति वचनात् सम्यक्त्वश्रुताद्यात्मकम्। ततश्च मिथ्यात्वाऽज्ञानाऽविरतयरतद्विपक्षोऽवसेयः। ततः 'व्युत्गृजामि' इति प्रभाषिते तेषां मिथ्या वादीनां विसर्गरत्यागो गम्यत इति। तदेव निन्दामि गहामि व्युत्सृजामि' इति क्रियात्रयस्य विषयविभागों दर्शितः। अथवा-अतीतसावद्ययोगप्रायश्चित्तसंग्रहार्थमिदं क्रियात्रयमिति दर्शयन्नाहअहवा तिच्छियसाव-जयोगपच्छित्तसंगहत्थाय। संखेवओ विहाणं, निंदामिचाइसुत्तम्मि॥३५५२।। निंदा-गरहग्गहणा-दालोयण-पडिक्कमोभयग्गहणं / होइ विवेगाईणं,छेयंताणं विसग्गाओ॥३५८३|| अथवा- अतिक्रान्तसावद्ययोगप्रायश्चित्तस्य संक्षेपतः संग्रहार्थ 'निन्दामि' इत्यादिसूत्रेऽभिधानमिति। तच्च प्रायश्चित्तम्। 'अलोयणपडिक्कमणे, मीस विवगे तहा विउस्सग्गे / तव छय मूल अणवठ्ठया य पारंचिए चेव / / 1 / / " इति वचनाद् दशविधम् / तत्र निन्दागर्हयोर्गहणादालोचनप्रतिक्रमणाभयलक्षणस्याद्यप्रायश्चितत्रयस्थ ग्रहणम्, 'व्यवसृजामि' इति विसर्गग्रहाणात पुनर्विवेकादीनां छेदान्तानां यतुर्णा प्रायश्चित्तभेदानां ग्रहणं भवति / मतादयस्तु त्रयः प्रायश्चित्तभेदा इह न संभवन्ति, तेषां चारित्रोत्तीर्णजन्तुविषयत्वात् / इह तु प्रतिपन्नचारित्रसत्त्वप्रक्रमादिति तावद् वयमवगच्छामः, तत्त्वं तु केवलिनो बहुश्रुता वा विदन्तीति। तदेवं व्याख्यातं सामायिकसूत्रम्। तदव्याख्याने चावसितोऽनुगमः ! ततः पूर्वोक्तमुपसहर-नुत्तर-नयद्वारसंबन्धनार्थमाह एवं सुत्ताणुगमो, सुत्तन्नासो सुयत्थजुत्तीय। भणिया नयाणुजोग-द्दारावसरोऽधुणा ते य॥३४८४|| अत्थाणुगमंग चिय, तेण जहासंभवं तर्हि चेव। भणिया तहावि पत्थुय-दारासुन्नत्थमुण्णेहं // 3585 / / एवमुक्तप्रकारेण सूत्रानुगमः सूत्रालापकाना च व्यासो निक्षेपः, सूत्रार्थयुक्तिश्च–सूत्रस्पर्शिकनियुक्तिश्चेत्यर्थः, भणिताः-प्रतिपादिताः। विशे०। (सामायिके नयौ ज्ञानक्रियात्मको ज्ञानक्रियादिशब्देषु) नवरमज्ञाननयः, अयं चतुर्विध सम्यक्त्वादिसामायिके सम्यक्त्व--सामायिके श्रुतसामायिकं वक्ष्यति,अस्य ज्ञानात्मकत्वात्, देशविरतिसामायिकसर्वविरतिसामायिक तु नेच्छतितयोस्तल्कार्यत्वात् गुणकृते वा इच्छति / उक्तो ज्ञाननयः / (आ० म०) क्रियानयः सम्यक्त्वादिके चतुर्विधे सामायिके देशविरति-सर्वविरतिरूपसामायिकद्वयमेवेच्छनि क्रियाप्रधानत्वादस्य, सम्यक्त्वे सामायिके तु तदर्थमुपादीयमानत्वनाप्रधानत्वान्नेच्छति गुणभूते वा इच्छतीति। आ० म०१ अ०। (78) आलोचनादीनि सामायिकवत एव भवन्तीति अतस्तरप्रश्रोत्तरपूर्व फलमाह सामाइएणं भन्ते ! जीवे किं जणयइ? सामाइएणं सावजजोगविरइं जणयइ ||8|| हे भदन्त ! सामायिकेन-समतारूपेण जीवः किं जनयति। गुरुराह-हे शिष्य ! सामायिकेन सावद्ययोगविरतिं जनयति कर्मबन्धकारणेभ्यः सपापमनोवाकाययोगेभ्यो विरतिं पश्वान्निवर्त्तनां जनयति / / 8|| उत्त० 26 अ०। सावद्ययोगविरतिप्रधाने आवश्यकस्य प्रथमे अध्ययनविशेष, पाला "सामायिकस्य विवृति, कृत्वा यदवाप्तमिह मया कुशलम् / तेन खलु सर्वलोको, लभतां सामायिकं परमम्॥१॥ यस्माज्जगाद भगवान्, सामायिकमेव निरुपमोपायम्।शारीरमानसाने-कदुःखनाशस्य मोक्षस्य // 2 // " आ० म०१ अ० राज्यादिदानपूर्वकं च जगद्गुरुः सामायिक प्रतिपन्नवानिति तत्स्वरूपनिरूपणायाहसामायिकं च मोक्षाङ्ग, परं सर्वज्ञभाषितम्। वासीचन्दनकल्पाना-मुक्तमेतन्महात्मनाम्॥१।। समस्य-रागद्वेषकृतवैषम्यवर्जितस्य भावस्थाऽऽया लाभः समायः स एव सामायिकं चारित्रं तच्च चशब्दात-ज्ञानदर्शने च / यदाह-"सम्यगदर्शनज्ञानचारित्राणि मोक्षपार्गः" अवधारणाद्वा चशब्दस्य, सामायिकमेव नतु परपरिकल्पित कुशलचित्तम्। अथवा-चशब्दः पुनरर्थः तस्य चैवं प्रयोगः, इह भगवता राज्यदानमहादानादीनि कृतानि सामायिक पुनस्तेषु मोक्षाङ्गम्-निर्वाणकारणम् / नन्वेवं ज्ञानादीना तदकारणत्वं स्यादित्यत आह-परं प्रधानमनन्तरमित्यर्थः, ज्ञानादीनां हि सामायिककारणत्वेन मोक्षकारणत्वम्, यदाह- ''णाणाहियस्स णाण, हुज्जइणाणापवत्तए चरणं ''तितत्कि स्वमतिविकल्पित नेति आहसर्वज्ञभाषितम् / अथवा-कथमिदमवसितमिति चेदत अह-यतः सर्वज्ञभाषितं समस्तवित्प्रणीतम्। मोक्षादयो हि भावा अतीन्द्रियास्ते च सर्वविद्वचनावसेया एव भवन्ति प्रमाणान्तरस्य तेष्वप्रवृत्तेः / एतच्च