________________ सामाइय 760 - अभिधानराजेन्द्रः - भाग 7 सामाइय पादेये हेय इत्यर्थः, चशब्दः खलुभयोर्गहीतव्याऽग्रहीतव्ययोतित्वानुकर्षणार्थः, उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः ज्ञात एव ग्रहीतव्ये, तथा अग्रहीतव्ये-- तथोपेक्षणीये च, ज्ञात एव नाज्ञाते। अत्थम्मि' त्ति-अर्थ-ऐहिकामुष्मिर्क, तत्रैहिकः ग्रहीतध्यः-सचन्दनाङ्गनादिः, अग्रहीतव्यो-विषशस्त्रकण्टकादिः, उपेक्षणीयः-तृणादिः।आमुष्मिको ग्रहीतव्यः-सम्यग्दर्शनादिः, अग्रहीतव्यो-मिथ्यात्वादिः, उपेक्षणीयो-विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे 'जइअव्वमेव त्ति अनुस्वारलोपादयतितव्यम्, एवम्-अनेन क्रमेणैहिकामुष्मिकफलप्राप्त्यर्थिना सत्त्वेन यतितव्यमेव, प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः, इत्थ चैतदङ्गीकर्तव्यं, सम्यग्ज्ञाते प्रवर्तमानस्य फलविसंवाददर्शनात्। तथा चान्यैरप्युक्तम-''विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात् // 1 // " तथा-आमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञात एव यतितव्यम्, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम्- "पढम णाणं तओ दया, एवं चिटुइ सव्वसंजए / अन्नाणी किं काहिति, किं वा णाहिति छेय पावगं? ||1||" इतश्चैतदेवमङ्गी-कर्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रिया-ऽपि निषिद्धा तथा चागमः- "गीयत्थो य विहारो, बितिओ गीयत्थमीसओ भणिओ। एतो तइयविहारो, णाणुण्णाओ जिणवरेहिं / / 1 / / '' न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक् पन्थानं प्रतिपद्यत इत्यभिप्रायः / एवं तावत् क्षायोपशमिक ज्ञानमधिकृत्योक्तं, क्षायिका:प्यङ्गीकृत्य विशिफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भवाम्भोधितटस्तस्य दीक्षा प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावज्जीवा-जीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्मा-ज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम / 'इति जो उवएसो सो नयो नाम' ति-इति–एवमुक्तेनन्यायेन यः उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय इत्यर्थः। अयं च चतुर्विधे सम्यक्त्वादिसामायिक सम्यक्त्वसामायिक-श्रुसामायिकद्वयमेवेच्छति, ज्ञानात्मकत्वादस्य, देशविरतिसर्वविरतिसामायिके तु तत्कार्यत्वात् तदायत्तत्वान्नेच्छति, गुणभूते चेच्छतीतिगाथार्थः / / 1054 / / उक्तो ज्ञाननयः अधुना क्रियानयावसरः, तद्दर्शनं चेदम्-क्रियेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षगामेव स्वपक्षसिद्धये गाथामाह- ‘णायमि गिण्हियव्ये' त्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्याज्ञाते ग्रहीतव्ये, अग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्यर्थना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दृश्यते / तथा चान्यैरप्युक्तम्-- क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत्॥१॥" तथाऽऽमुष्मिकफलप्राप्त्यर्थिना क्रियैव कर्तव्या। तथा च-मुनीन्द्रवचनमप्येवमेव व्यवस्थितम् यत उक्तम्- "चेइयकुल-गणसंघे, आयरिआणं च पव्वयणसुए य। सव्वेसु वि तेण कयं, तव-संजममुञ्जमतेण // 1 // " इतश्चैतदेवमङ्गीकर्तव्य यस्मात् तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तम्, तथा चाऽऽगमः- "सुबहुं पि सुयमहीयं, किं काहि चरणविप्पमुदस्स? अंधस्स जहपलित्ता, दीवसयसहस्सकोडी वि / / 1 / / " दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः, एवं तावत् क्षायोपशमिकं चारित्रमगीकृत्योक्तं चारित्रं क्रियेत्यनर्थान्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्ट-- फलसाधकत्वं तस्या एव विज्ञेयम्, यस्मादहतोऽपि भगवतः समु-- त्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते यावदखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोगिरणमात्रकालावस्थायिनी सर्व--- संवररूपा चारित्रक्रिया नावाप्सेति, तस्मात् क्रियैव प्रधाना ऐहिकामुष्णिकफलप्राप्तिकारणमिति स्थितम्। इति जो उवएसो रग नओ नाम' ति-इति-एवमुक्तेन न्यायेन य उपदेशः क्रियाप्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः, अयं च सम्यक्त्वादौ चतुर्विध सामायिके देशविरतिसर्वविरति-सामायिकद्वयमेवेच्छति क्रियात्मकत्वादस्य, सम्यक्त्वसामायिकश्रुतसामायिके तुतदर्थमुपादीयमानत्वादप्रधानन्यानेच्छति, गुणभूते चेच्छतीति गाथार्थः // 1054 / / उक्तः क्रियानयः / इत्थं ज्ञानक्रियानयस्वरूपं ज्ञात्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह- किमत्र तत्त्वं? पक्षद्वयेऽपि युक्तिसम्भवात्, आचार्यः पुनराह'सव्वेसि पि' गाहा। अथवा-ज्ञानक्रियानयमतं प्रत्येकमाभेधायाधुना स्थितपक्षमुपदर्शयन्नाह सव्वेसिं पि नयाणं, बहुविहवत्तव्वयं निसामित्ता। तं सव्वनयविसुद्धं, जं चरणगुणट्ठिओ साहू // 1055 / / सर्वेषामपि मूलनयायाम, अपिशब्दात्-तनेदानां च नयानाम्-द्रव्यास्तिकादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एप उभयमेव वाऽनपेक्षामित्यादिरूपाम् / अथवा- नामादीनां नयानां कः के साधुमिच्छतीत्यादिरूपां निशम्य-श्रुत्वा तत् सर्वनर - विशुद्धसर्वनयसम्मतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात् सवनया एव भावनिक्षेपमिच्छन्तीति गाथार्थाः। आवा "भंत' इत्यतिदेशयन्नाहभंति त्ति पुव्वभणियं, तेणं चिय भणइ किं पुणो भणियं / सव्वत्थ सोऽणुवत्तइ, भणियं चादिप्पउत्तो ति॥३५६७॥ अणुवत्तणत्थमेव य, तग्गहणं नाणुवत्तणादेव। अणुवत्तंते विधओ, जमिह कया किं तु जत्तेणं / / 3568 // 'भंते' इति पदं पूर्वमेव भणित व्याख्यातम्, इति नेह व्याख्य यते। तेनैव कारणेन तेनैव हेतुना तर्हि परो भणति-यदि पूर्वमेवेद भणितम्, तर्हेि कि पुनरपीह भणितं सूत्रकृता? ननुसर्वत्र सूत्रान्ते यावदनुवर्तते एवासी, भणित चान्यत्र-'आदी प्रयुक्तोऽर्थः सर्वत्रानुवर्तते' इति। गुरुराह-- सत्यमेवैस्त, सूत्रान्तं यावदनु-वर्तनार्थमेव तस्य भदन्त शब्दस्य ग्रहणं तर ग्रहणमादी कृतम्, केवलं नानुवर्तनादेवनानुवर्तनमात्रादेव यस्मादधिकृता वेधयाऽनुवर्तन्ते भवन्ति, किन्तु यत्नेन कृतेन ते भवन्ति, तथा चोक्तं परिभाषाम