________________ सामाइय 756 - अभिधानराजेन्द्रः - भाग 7 सामाइय गवतोऽभिमतः,तेनेत्थं निर्देशः कृत इत्यर्थः / अथवा-यावजीवशब्दाद् भावप्रत्यय उत्पाद्यते, ततश्चेत्थं भावप्रत्यये उत्पादिते या यावज्जीवता' इति निष्पद्यते, तया यावजीवतया प्रत्याख्यामि' इति संबध्यत इति। नन्वित्थमपि 'यावज्जीवतया' इति प्राप्ते ‘यावज्जीवया' इति कथं भवति? इत्याहजावजीवतया इति, जावजीवाएँ वण्णलोवाओ। जावजीवो जीसे, जावज्जीवाहवा सा उ॥३५१६।। 'यावज्जीवतया' इति निर्देशे प्राप्ते यत् 'यावज्जीवया' इत्युक्तम, तत | तकारलक्षणवर्णलोपादिति द्रष्टव्यम्। तृतीयं परिहारमाह। अथवा-जीवन जीवो यावजीवो यस्यां सा यावजीवेति बहुव्रीहि-स्तया यावजीवया इत्येव द्रष्टव्यमिति। अत्र विनेयपृच्छामुत्तरं चाऽऽहका पुण सा संबज्झइ,पचक्खाणकिरिया तया सव्वं / जावज्जीवाएऽहं पच्चक्खामीति सावजं // 3520 / / का पुनः पूर्वोक्तबहुबीहावन्यपदार्थे संबध्यते? इत्याह-- प्रत्या- 1 ख्यानक्रियेति / तया यावज्जीवया प्रत्याख्यानक्रियया सर्व सावधयोगमहं प्रत्याख्यामि' इति संबन्ध इति। परिहारान्तरमाह... जीवणमहवा जीवा, जावजीवा पुरा व सा नेया। तीए पाययवयणे, जावजीवाइतइएयं // 3521 / / अथवा-जीवन जीवेति स्त्रीलिङ्गाभिधायक एवायं शब्दः साध्यते, न तु जीव इति पुंलिङ्गाभिधायकः / ततश्च यथा पुरा-पूर्व तथाऽत्राप्यर्थत्रयवृत्तिना यावच्छब्देन सह समासे सा यावज्जीवा ज्ञेया, तद्यथायावत्परिमाणा जीवा यावजीवा, एवं मर्यायदाऽवधारणयोरपि समासः कार्यः, तया यावज्जीवया प्रत्याख्यामि: प्राकृतवचने च पर्यन्त एकारनिर्देशेन तृतीयेयमवर्सयेति। विशे०। तदेवं मनःप्रभृति त्रिविध करणं व्याख्याय प्रस्तुतयोजनामाहतेण तिविहेण मनसा, वाया काएण किं तयं तिविहं / पुव्वाहिगयं जोगं,न करेमिच्चाइ सावज्जं ||3526 / / तेन यथोक्तस्वरूपेण त्रिविर्धन करणेन-मनसा वाचा कायेन; मनोवाक-कायलक्षणेनेत्यर्थः / किम्? अत आह-तक पूर्वाधिकृतं त्रिविधं सावध योग न करोमीत्यादि सबध्यते-'नकरेमि,न कारवेगि, करत पि अण्ण ण समणुजाणमि इति संबध्यत इत्यर्थः। अथवा, अन्यथा संबन्धयन्नाहपुव्वं व जमुदिढ तिविहं तिविहेण तत्थ करणस्स। तिविहत्तण विवरीयं, मणेण वायाए कारणं // 3530 // तिविहमियाणिं जोगं,पचक्खेयमणुभासए सुत्तं / किं पुणरुक्कमिऊणं, जोगं करणस्स निद्देसो ?||3531 / / / तो व जहुद्देसं चिय, निद्देसो भण्णए निसामेहि। जोगस्स करणतंतो-वदरिसणत्थं विवज्जासो॥३५३२।। देसियमेवं जोगो, करणवसो निययमप्पहाणो त्ति। तब्भावे भावाओ, तदभावे वप्पभावाओ / / 3533 / / अथवा- पूर्व सूत्रे यदुद्दिष्ट 'त्रिविधं त्रिविधेन' इति, तत्र करणस्य त्रिविधत्वम- 'मणेणं, वायाए,काएण' इति सूत्रगतेनैवावयवेन विवृतं व्याख्यातमिति / इदानीं तु त्रिविधं प्रत्याख्येयं योग सूत्रमनुभाषतेविवृणोति-'न करेमि.न कारवेमि' इत्यादिनैव सूत्रावयवेन। अत्राह परः-- ननु गद्येवम्,तर्हि किं पुनः कारणम्, येन योगमुत्क्रम्यातिलय करणस्य प्रथम निर्देशः कृतः ? उद्देशकाले हि प्रथम 'त्रिविधम्' इत्युद्देशाद् योग एव प्रथममुद्विष्टः, तदनन्तरं 'त्रिविधेन' इत्यभिधानात् पश्चात् करणस्योद्देशःकृतः। एवं चसति 'यथोद्देशं निर्देशः' इति न्यायादिह निर्देशोऽपि प्रथमं योगस्य, पश्चात करणस्य प्राप्नोति, तद्यथा--- करेमि, न कारवेमि, करंत पि अण्णं ण समणुजाणामि मणेणं वायाए कारणं' इति। नचैवं निर्दिष्टम्, व्य-त्ययाभिधानादिति। 'तो' त्ति-ततो न यथोद्देशमेव निर्देशोऽत्र संजातः, तत् किमत्र कारणमिति वाच्यम्? गुरुराह --निशमयआकर्णयभण्यतेऽत्र कारणम्- करणादिलक्षणस्य योगस्य करणतन्त्रोपदर्शनार्थ मनोवाक-कायलक्षणकरणायत्ततोप-दर्शनार्थ-मय व्यत्यासः कृत इति। एतदेव भावयति-देशितमुपदिष्टमेवं व्यत्यासकरणेन भगवता सूत्रकृता-योऽयं करणकरणादिव्यापारलक्षणो योगः स मनःप्रभृतिकरणवशस्तदायत्त इति नियतम्-निश्चितं स्वयमप्रधानः, तद्भावेकरणभाव एव भावात, तदभावेऽपि च करणाभावेऽवश्यमभावादिति। किमिति योगः करणभाव एव भवति.तदभावे तु न भवति? इत्याहतस्स तदाधाराओ,तकारणओ य तप्परिणईओ। परिणतुरणत्थंतर-मावाओ करणमेव तओ // 3534 / / तस्य-योगस्य तदाधारत्वात्-करणाधारत्वात्,तथा तद्--मनःप्रभृति करणमेव कारण यस्य स तत्कारणस्तद्भावस्तत्त्वं तस्मात्,कारणत्वात् तस्य योगस्य,तथा-तत्परिणतित्वात्- करणपरिणतिरूपत्वात्तस्य,तथा,परिणन्तुः करणस्याऽ-नन्तरत्वादनन्यत्वात तस्य, यतः करणमेव तकोऽसो योगः, ततस्तदात्मकत्वात्तद्भाव एव भवति, तदभावे तु न भवति। आह-यद्येवम्, उद्देशोऽप्येवं करमाद् न कृतः? उच्यते-- योगस्यापि प्रत्याख्येयत्वेन प्राधान्यख्यापनार्थमिति / तदेवं योगस्य करणात्मकत्वं दर्शितम्। अथ करणयोगयोः पुनः समुदितयोर्जीवात्मकत्वं दर्शयन्नाहएत्तो चिय जीवस्स वि, तम्मयया करण-जोगपरिणामा। गम्मइ नयंतराओ, कयाइ समए जओऽभिहियं / / 3535 / / यत एव परिणस्तु : परिणामो ऽनन्तरमुक्तम , अत एव जीवस्यापि तन्मयता स्वपरिणामरूपक रण यो गात्मता ग