________________ सामाइय 755 - अभिधानराजेन्द्रः - भाग 7 सामाइय "ज सो उप्पायव्वय-धुवधम्माणतपजाओ ||4|| सव्वं चिय पइसमय, उप्पजइ णासए य णिचं च / एवं चेव रः सुहृदु-क्खबंधमोक्खाइसब्भावो / / 5 / / एग चेव य वत्थु, परिणामवसेण कारगंतरयं / पावइ तेणादोसो, विवक्खया कारग जं च / / 6 / / कुंभोऽवि नजमाणी, कत्ता कम्म स एव करणं च। णाणाकारगभावं, लहइ जहेगो विवक्खाए |7|| जह वा नाणाणण्णो, नाणी नियओवओगकालम्मि / एगोऽवि तस्सभावो, सामाइयकारगो चेवं ।।दा' साम्प्रतं परिणामपक्षे सत्येकत्वानेकत्वपक्षयोरवि रोधेन कर्तृकर्मकरणव्यवस्थामुपदर्शन्नाहएगत्ते जह मुडिं, करेइ अत्यंतरे घडाईणि / दव्वत्थंतरभावे, गुणस्स किं केण संबद्धं ?||1036 / / एकत्वे-कर्तृकर्मकरणाभेदे कर्तृकर्मकरणभावो दृष्टः, यथा-मुष्टिं करोति; अत्र देवदत्तः कर्ता, तद्धस्त एव कर्म, तस्यैव च प्रयत्नविशेषः करणमिति तथाऽर्थान्तरे-कर्तृकर्मकरणानां भेदे दृष्ट एव तद्भावः / तथा चाऽऽह-घटादीनि यथा करोतीति वर्तते / तत्रापि कुलालः कर्ता, घटः कर्म, दण्डादि करणमिति / इह च सामायिकं गुणो वर्तत, स च गुणिनः कथशिदेव भिन्न इति / विपक्षे बाधामुपदर्शयति द्रव्यात सकाशाद, गुणिन इत्यर्थः, एकान्तेनैवार्थान्तरभावभेदे सति, कस्य? गुणस्य, कि केन संबद्धमिति? न किञ्चित् केनचित् संबद्ध, ज्ञानादीनामपि गुण वात्तेषामपि चाऽऽत्मादिगुणिभ्य एकान्तभिन्नत्वात्, संवेदनाभावतः सर्वव्यवस्थानुपपत्तेरिति भावना / एवमेकान्तेनानन्तिरभावेऽपि दोषा अभ्यूह्या इति गाथार्थः / कण्ठतस्तावदुक्ते चालनाप्रत्यवस्थाने, अत एव चात्र पुनरुक्तदोषोऽपि नास्ति, अनुवादद्वारेण चालनाप्रत्यवस्थानप्रवृत्तेरित्यलं प्रसङ्गेन / ७७)अथौघ-भवजीवितयोविवरणमाहआउस्सद्दव्वतया,सामन्नं पाणधारणमिहोहो / भवजीवियं चउद्घा,नेरझ्याईण जावत्था / / 3512 / / आयुषः-आयुमात्ररूपस्य कर्मणः संबन्धीनि यानि सन्ति जीवस्य सतावतींनि द्रव्याणि तान्यायुःसद्व्याणि तद्भाव आयुःसद्दव्यता तया आयुः सद्रव्यतया संसारे परिभ्रमतो जीवस्य यत् सामान्य प्राणधारणं यदाश्रित्य सिद्धा एव मृता उच्यन्ते, न संसारिणः, तदिह संसारिणां जीवितसामान्यमात्ररूपमोघ ओघजीवितमुच्यत इति / भवन्ति प्राणिनोऽस्मिन्निति भवः-संसारस्तत्रावस्थिति हेतुभूत भवजीवित, तचतुर्धा / किं पुनस्तत्? इत्याह-नारकादीनां या जन्मनः प्रथम-समयाचरमसमयं यावदवस्थाऽवस्थितिरवस्थानां तद्धेतुत्वात् सा भवजीवितमिति। ___ तद्भवजीवितं भोगजीवितं चाहतब्भवजीवियमोरा-लियाण जं तब्भवोववन्नाणं / चक्कहराईणं भो--गजीवियं सुरवराणं च // 3513 / / पुनःपुनस्तत्रैव विवक्षिते भवे उत्पन्नास्तद्भवोत्पन्नास्तेषां तद्भवोत्प नानां यजीवितं तत्तद्भवजीवितमुच्यते। तचौदारिकशरीरिणां तिर्यगमनुष्याणामेवावगतन्तव्यम् / तत्रैकेन्द्रियाणा पुनः पुनस्तत्रैवैकेन्द्रियभव उत्पद्यमानानामनन्तानि भवग्रहणान्येतदुत्कृष्टतोऽवसेयम् / द्वीन्द्रियाणां तु संख्यातानि भवग्रहणानि / पञ्चेन्द्रियतिरश्वा मनुष्याणा च सप्ताष्टी वा भवग्रहणानीति मन्तव्यम्। जघन्यतस्तु सर्वत्र द्वे भवग्रहणे। वैक्रियशरीरिणां तु देवनारकाणामिद न संभवत्येव, पुनः पुनस्तत्रैवोत्पत्त्यभावादिति / चक्रधराऽऽदीनां तु भोगपुरुषाणां सुरवराणां च देवानां जीवितंभोगजीवितमिति / शेषजीवितानि तु त्रीण्याहसंजमजीवियमिसी-णं असंजमजीवियमविरयाणं / जसजीवियं जसोना-मओ जिणाईण लोगम्मि // 3514 / / पाठसिद्धा, नवरं 'इसीण' ति-ऋषीणाम् यतीनामिति / 'जसनामओ' त्ति-यशोनामकर्मोदयादित्यर्थः / नान्येषां मध्यात् किं जीवितमिहाधिकृतम्? इत्याहनरभवजीवियमहिगये , विसेसओ सेसयं जहाजोगं / जावजीवामि तयं, ता पचक्खामि सावज्जं // 3515|| भवजीवितरूपं नरभवजीवितं मनुष्यभवजीवितं विशेषतोऽत्राधिकृतम्, मनुष्याणामेव चारित्रसामायिकाधिकारात्, शेषं नामादिजीवित यथायोगं यद् यत्र युज्यते तत् तत्र योजनीयम् / ततश्च स एव मनुष्यः प्रतिजानीते-यावदनन नरभवजीवितेन जीवामि तावत तकं सावधयोग प्रत्याख्यामीति। अथवा-यावच्छब्दस्यार्थमाहजावदयं परिमाणे, मज्जायाएऽवधारणे चेइ / जावजीवं जीवण--परिमाण जत्तियम्मि त्ति // 3516 / / जावजीवमिहारे-ण मरणमजायओ न तं कालं। अवधारणे वि जाव-जीवणमेवेह न उ परओ // 3417 / / इह यावदयं शब्दस्त्रिष्वर्थेषु वर्तते; तद्यथा-परिमाणेमर्यादायाम, अवधारणे चेति / तत्र परिमाणार्थ तावदाह-यावज्जीवमिति / किमुक्तं भवति?-यावद मे जीवनपरिमाणमिहभवायुष्करय परिमाणं तावन्तं काल प्रत्याचक्ष इति / मर्यादार्थमाह--यावजीवमित्यादि / अत्र यावज्जीवमिति / किमुक्त भवति?-आरेण मरणमर्यादाया अर्वाक प्रत्याचक्षे, न पुनस्तत्कालं प्रत्याख्यानग्रहणकाल एव, किन्तु मरणसीमा यावत् प्रत्याख्यामीति / अवधारणेऽपि यावदिहभवजीवितं तावदेव प्रत्याचक्षे,न तु परतः, देवाद्यवस्थायामविरतत्वे प्रत्याख्यानभड़प्रसङ्गात् / 'परतो मुत्कलम्' इति विधिरपि न कर्त्तव्यः, भोगाशंसादोषानुषङ्गादिति रवयमेव द्रष्टव्यमिति / अत्राक्षेपपरिहारावाहजावजीवं पत्ते, जावज्जीवाएँ लिंगवच्चासो। भावप्पचयओ वा,जा जावज्जीवया ताए / / 3515 / / ननूक्तन्यायेन यावजीवमिति निर्देश प्राप्ते 'यावज्जीवया' इति निर्देशः किमर्थ भगवता सूत्रकृता विहितः?' इति शेषः / अत्र परिहारमाह-'लिंगवचासो' त्ति-लिङ्गव्यत्ययोऽत्र भ