________________ सामाइय 757 - अभिधानराजेन्द्रः - भाग 7 सामाइय म्यते / कुन इत्याह- 'करणजोगपरिणाम' त्ति करणं च योगश्च करणयोगौ तौ परिणामः-स्वभावी यस्यासी करणयोगपरिणामस्तगावस्त्तत्त्वं तस्मात् करणयोगपरिणामत्वाजीवस्य / स हि करणयोगपरिणामेन परिणमति / परिणामश्च परिणन्तुरनन्तिरम् / अतः करणयोगात्मता जीवस्य गम्यते, कदाचित् कथञ्चिद् नयान्तराद् निश्चयलक्षणं नयान्तरमाश्रित्येति यतः समये सिद्धान्तेऽभिहितम्। किम्? इत्याहआया चेव अहिंसा,आया हिंस त्ति निच्छओ एस। जो होइ अप्पमत्तो, अहिंसओ हिंसओ इयरो / / 3536 / / इह आत्मा मनःप्रभृतिना करणेन हननघातनाऽनुमतिलक्षणा हिंसा तन्निवृत्तिरूपामहिंसा च करोतीति व्यवहारः / अस्यां च गाथायां निश्चयनयनतेन आत्मैव हननादिलक्षणा हिंसा, स एव च तन्निवृत्तिरूपाऽहिंसेत्युक्तम् / तदनेनात्मनः करणस्य योगलक्षणस्य कर्मणश्चैकत्वमुक्त भवतीति अत्र परप्रेर्यमाशङ्कय परिहरनाहआहेगत्ते कत्ता, कम्मं करणं ति को विभागोऽयं / अण्णइ पजायंतर–विसेसणाओ न दोसो त्ति // 3537 / / आह पर:- नन्ववं त्रितयस्याप्येकत्वे कर्ता, कर्म, करण चेति को विभागः? -को भेदः? भण्यतेऽत्रोत्तरम-पर्यायान्तरेण विशेषणं पर्यायान्तरविशपणं तस्माददोषः / इदमुक्तं भवति-एक एव कर्ताऽऽत्मा व्यतिरिकः कथञ्चिद् भिन्नैः कर्मकरणादिपर्यायान्तरैर्विशिष्यत इति नोक्तदोष इति। पूर्व भावितमपीदं पुनरपि स्मारयन्नाह - एक पि सव्वकारग-परिणामाणन्नभावयामेइ / नाया नाणाणन्नो,जह विण्णेयाइपरिणामं // 3538 / / एकमपि घटादिक वस्तु सर्वकारकपरिणामलक्षणमन्यान्यभावताम् .. अन्यान्यनपतामेति, यथा ज्ञाता जीवो ज्ञानानन्यः सन् विज्ञेयादिपरिणाममेति / स एव हि स्वज्ञान उपयुज्यमानः कर्ता, करणभूतज्ञानानन्यत्वात स एव च करण, स्वयं संवेद्यमानस्तु स एव विज्ञेय इति सविस्तरेग प्रागुक्तमिति। ननु 'सर्व सावा योग प्रत्याख्यामि' इत्युक्तम, कः पुनरसी सावधो योगः? इ याह-- सय सावजो योगो, हिंसाईओ तयं सयं सव्वं / न करेमि न कारेमि य, न याणुजाणे करतं पि॥३५३६।। स च सावधो योगो हिंसा-ऽनृतस्तेयादिको मन्तव्यः तक सर्वमपि स्वयं न करोमि, न कारयाम्यन्यैः, एवं नानुजानामि कुर्वन्तमपीति / दिशेला आ० म०। आ० चू०। सामायिकसूत्रसग्रहः, तत्र 'करेमि भंत! सामाइय' ति पंच समिईओ गहिआओ, 'सव्वं सावज जोग पञ्चक्खामि' नितिणि गुती ओ गहियाओ, एत्थ समिईओ पवत्तणे निग्गहे य गुत्तीओ रिश, एयाओ अट्ट पवयमाथाओ जाहिं सामाइयं चोद्दसयपुध्याणि मायाणि, माउगाओ त्ति मूलं भणियं ति होइ'। इहैव प्रायः सूत्रस्पर्शनियुक्तिवक्तव्यताया उक्तत्वात् मध्यग्रहणे च तुलादण्डन्याये नाऽऽद्यन्तयोरप्याक्षेपादिदमाह- 'सुत्तप्फासिय-णिज्जु-त्ति वित्थरत्थो गओ एवं' ति--सूत्रस्पर्श नियुक्तिविस्तरार्थो गतः, एवम्- उक्तेन प्रकारेणेति माथार्थः। साम्प्रतं सूत्र एवातीतादिकालग्रहणं त्रिविधमुक्तमिति दर्शयन्नाहसामाइअं करेमी, पच्चक्खामी पडिकमामि त्ति। पच्चुप्पन्नमणागय-अईअकालाण गहणं तु / / 1046 / / सामायिक करोमि, तथा प्रत्याख्यामि सावध योगमिति तथा प्रतिक्रमामीति प्राककृतस्य, इदं हि यथासङ्ख्यमेव प्रत्युत्पन्नानागतातीतकालाना ग्रहणमिति, उक्तं च-'अईयं जिंदइ पडुत्पन्न संवरेइ, अणागयं पच्चवखाइ'त्ति गाथार्थः / / 1046 // साम्प्रतं तस्य भदन्त ! प्रतिक्रमाभीत्येतद व्याख्यायते-तत्र 'तस्ये त्यधिकृतो योगः संबध्यते, ननु च प्रतिक्रमामीत्यस्याः क्रियायाः सोऽधिकृतो योगः कर्म, कर्मणि च द्वितीया विभक्तिरतस्तमित्यभिधेये तस्येत्यभिधीयते किमर्थमिति? आह--- प्रयोजनार्थ षष्ठी विवक्षातः प्रयुक्ता सम्बन्ध-लक्षणा, अवयवलक्षणा वा, योऽसौ योगस्विकालविषयस्तस्यातीतं सावद्यमंशमवयवं प्रतिक्रमामि न शेष वर्तमानमनागत वा / केचित पुनरविभागज्ञाः अविशिष्टमेव सामान्य योग सम्बन्धयन्ति, तन्न युज्यते, अविशिष्टस्य त्रिकालविषयस्य प्रतिक्रमणप्रयोजनाभावात्, ग्रन्थगुरुत्वापत्तेश्च अविशिष्टमपि संबध्य पुनर्विशषेऽवस्थापनीयस्तच्छब्द इति ग्रन्थगुरुता। यदेतत् प्रतिक्रमणमेतत् प्रायश्चित्तमध्ये पठितमतः प्रायश्चित्तमासेवितेऽतीतविषयमिति गतत्वादतीतप्रतिक्रमणमिति न वक्तव्यम्, इह पुनरुक्तत्व प्रसङ्गात्, यस्भादस्य प्रतिक्रमामीतिशब्दस्य कर्मणा भवितव्यमवश्यं,तय भूतं सावधयाग मुक्त्वा नान्यत् कर्म भवितुमर्हति, यस्मात्तस्येत्यवयवलक्षअया षष्ट्या सम्बन्धः। आह--यद्यवं पुनरुक्तादिभयादभिधीयते तत इदमपरमाशङ्कापदमिति दर्शयतितिविहेणं ति न जुत्तं,पडिपयविहिणा समाहि जेण। अत्थविगप्पणयाए, गुणभावणय त्ति को दोसो? ||1047 / / 'त्रिविध त्रिविधेन' त्यत्र त्रिविधेनेत्ययुक्तमिति, अत आहप्रतिपदविधिना समाहित येन, यस्मात् प्रतिपदमभिहितमेव,मनसा वाचा कायने ति। अत्रोच्यते, अर्थविकल्पनयागुणभावनयेति वा को दोषः? एतदुक्तं भवति-अर्थविकल्पसङ्ग्रहार्थ न पुनरुक्तम्। अथवा-गुणभावना पुनः पुनरभिधानाद्भवतीति नदोषः। अथवा--मनसा वाचा कायेनेत्यभिहिते प्रतिपदं न करोमि, न कारयामि, नानुजानामीति। 'यथासङ्ख्यमनुदेशः समानाना' मिति यथा-सइख्यकमनिष्ट मा प्रापदिति त्रिविधेनेकैकमुच्यते, त्रिविधभित्यत्राप्ययमेव प्रायः परिहार इति गाथार्थः // 1047 / / इन्यलं प्रसङ्गेन / प्रकृतं प्रस्तुमः- 'तस्य भदन्त ! प्रतिक्रमामी' त्यत्र भदन्तः पूर्ववद् अतिचारनिवृत्तिक्रियाभिमुखश्च तद्विशुद्ध्यर्थमामन्त्रयत इति, अत्राऽऽह-ननुपूर्वमुक्त एव भदन्तः स एवानुवर्तिष्यते,एवमर्थ चादौ