SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ सामाइय 753 - अभिधानराजेन्द्रः - भाग 7 सामाइय एवं चेव य सुह दु-क्ख बंधमोक्खाइसब्भावो // 3435 / / प्रागसकृद् भावितार्थवेति! यदप्युक्तम् कारकैकत्वम् कारकैकता प्राप्नोति, अत्राप्याहएक चेव य वत्थु, परिणामवसेण कारगंतरयं / पावइ तेणादोसो, विवक्खया कारगं जं च // 3436|| एकमेव हि वस्तु परिणामवशेन कारकान्तरतां प्राप्नोति। तथाहि-एक एव देवदत्तः कटादिकर्तृत्वेन परिणतः कतो, स एव यज्ञदत्तादिप्रयोजककरणतया परिणतत्वात करणम्, दिदृक्षूणां दृश्यमानतया परिणतत्वात् कर्म, ताम्बूलादिदानग्रहणतया परिणतत्वात् सम्प्रदानम्, स एव निष्पन्नकटस्य मोचनेन परिणतत्वादपादानम्, कटक्रियाधारत्वेन च परिणतत्वादधिकरणमिति / एवमन्यत्रापि भावनीयम् / तेन कारकसंकरादिको न दोषः, विवक्षातश्च यस्मात्कारकाणि भवन्ति, तस्मात कल्पनायामप्यदोष एवेति। तथाहिकुंभो विसिज्जमाणो, कत्ता कम्मं स एव करणं च / नाणाकारयभावं, लहइ जहेगो विवक्खाए / / 3437 / / जह वा नाणाणन्नो,नाणी नियओवओगकालम्मि। एगो वि तिस्सहावो, सामाइयकारओ एवं // 3438 // कुम्भो विशीर्यमाणो विशरणक्रियायाः कर्तृत्वेन विवक्षितः कर्ता भवति। स एव च विशरणक्रियाव्याप्यत्वेन विवक्ष्यमाणः कर्म सम्पद्यते, तेन घटपर्यायेण कृत्वा विशीर्यते, इति करणत्वेन विवक्ष्यमाणः स एव करणं संज्ञायते / एवं यर्थकोऽपि पदार्थो विवक्षया नानाकारकभावं लभते, यथा वा मत्यादिज्ञानादनन्योऽमिन्नो ज्ञानीजीवो निजकात्मविषयः स्वसंवेदनरूरो य उपयोगस्तत्काल एकोऽपि त्रिस्वभावो भवति; तथाहि स्वोपयोग उपयुज्यमानाऽसौ कर्ता भवति, संवेद्यमानत्वेनतुकर्म, करणभृतज्ञानानन्यत्वाच्च करणमिति / एवं सामायिककारक एकोऽपि विवक्षया कर्तृकर्मकरणन्वभावो द्रष्टव्य इति। तदेव करणं व्याख्यातम्, तद्व्याख्याने च 'करोमि' इति सामायिकस्य प्रथमावयवो व्याख्यातः। विशे० आ० म० / आ० / आव०॥ अट्ठण्हं पयडीणं, उक्कोसठिईउ वट्टमाणो उ। जीवो न लहइ सामा-इयं चउण्हं पि एगयरं / / 10 / / सत्तण्हं पयडीणं, अभिंतरओ उ कोडिकोडीणं / काऊण सागराणं, जइ लहइ चउण्हमण्णयरं / / 106 / / प्रथमगाथा व्याख्या-अष्टानाम् इति--संख्या, कासाम्? ज्ञानावरणीयादिकर्मप्रकृतीनाम्, उत्कृष्टा चासौ स्थितिश्वोत्कृष्टस्थितिः तस्या वर्तमानो भवन जीव:- आत्मा न लभते-न प्राप्नोति, किं तत्?सामायिकंपूर्वव्याख्यातम्, किं विशिष्टम्?-चतुर्णामपिसम्यक्त्वश्रुतदेशविरत्सिर्वविरतिरूपाणाम् एकतरम्-- अन्यतमत इति यावत्, अपिशब्दात् मत्यादि च, न केवलं न लमते, पूर्वप्रति पन्नोऽपि न भवति, यतोऽवातसम्यक्त्वो हि न पुनस्तत्परित्यागेऽपि ग्रन्थिमुल्लङ्घय उत्कृष्टस्थितीः कर्मप्रकृतीः बध्नाति, आयुष्कोत्कृष्टस्थितौ पुनर्वर्तमानः पूर्वप्रतिपन्नको भवति, अनुत्तरविमानोपपातकाले देवो, नतु प्रतिपद्यमानक इति। तुशब्दाद् जघन्यस्थिती च वर्त्तमानः पूर्वप्रतिपन्नत्वान्न लभते, आयुष्कजघन्यस्थितौ चव वर्तमानो न पूर्वप्रतिपन्नो नापि प्रतिपहामानकः, जघन्यायुष्करय क्षुल्लकभवग्रहणाधारत्वात्, तस्य च वनस्पतिषु भावात्, तत्र च पूर्वप्रतिपन्नप्रति-पद्यमानकाभावात्, प्रकृतीनां च उत्कृष्टतरभेदभिन्ना खल्वियं स्थितिः-आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपभकोटीकोट्यः परास्थितिः सप्ततिर्मोहनीयस्य, नामगोत्रयोर्विशतिः, त्रयस्त्रिंशत्साग-रोपमाण्यायुष्कस्य,इति, जघन्या तु द्वादशमुहूर्ता वेदनीयस्य, नाम-गोत्रयोरष्टौ, शेषाणामन्तर्मुहूर्त (तत्त्वार्थ अ०८ सूत्राणि 15-16-17-18-16-20-21) इतिगाथार्थः। आहकिमेतायुगपदेव उत्कृष्टां स्थितिमासादयन्ति उत एकस्यामुत्कृष्टस्थितिरूपाया सजातायामन्या अपि नियमतो भवन्ति, आहोस्विदन्यथा वा वैचित्र्यमत्रेति / उच्यते-अत्र विधिरिति, मोहनीयस्य उत्कृष्टस्थिती शेषाणामपि षण्णामुत्कृष्टव, आयुष्कप्रकृतेस्तु उत्कृष्टा वा मध्यमावा, न तु जघन्येति / मोहनीयरहिताना तु शेषप्रकृतीनामन्यतमाया उत्कुष्टस्थितेः सद्भावे मोहनीयस्य शेषाणां च उत्कृष्टा वा मध्यमा वा, न तु जघन्येति प्रासङ्गिकम् / द्वितीयगाथाव्याख्यासप्तानामायुष्करहितानां कर्मप्रकृतीना या पर्यन्तवर्तिनी स्थितिस्तामङ्गीकृत्य सागरोपमाणां कोटीकोटी, तस्याः कोटीकोट्या अभ्यन्तरत एव तुशब्दोऽवधारणार्थः, कृत्वाऽऽत्मानमिति गम्यते यदि लभते-यदि प्राप्नोति, चतुर्गा श्रुतसामायिकादीनामन्यतरत्, तत एव लभते नान्यथेति। पाठान्तरं वा कृत्वा सागरोपमा स्थितिं लभते चतुर्णामन्यतरत् इत्यक्षरगमनिका। अवयवार्थोऽभिधीयतेसप्ताना प्रकृतीना यदा पर्यन्तवर्तिनी सागरोपमकोटीकोटी पल्योपमासङ्ख्येयभागहीना भवति, तदा घनरागद्वेषपरिणामो-इत्यन्तदुर्भयदारुग्रन्थिवत् कर्मग्रन्थिर्मवतीति / आह चभाष्यकार:- "गठि त्ति सुदुबभेओ, कक्खडघणरूढगूढगठि व्व। जीवरस कम्मजणिओ, घणरागद्दोसपरिणामो // 1 // " इत्यादि,तस्मिन् भिन्ने सम्यक्त्वादिलाभ उपजायते, नान्यथेति, तद्भेदश्च मनोविघातपरिश्रमादिभिः दुस्साध्यो वर्तते। तथाहि-स जीवः कर्मरिपुमध्यगतः तं प्राप्य अतीव परिश्राम्यति, प्रभूतकारातिसैन्यान्तकृत्त्वेन संजातखेदत्वात्. संग्रामशिरसीव दुर्जयापाकृतानेकशत्रुनरनरेन्द्रभटवत्। अपरस्त्वाह--कि तेन भिन्ने न? किंवा सम्यक्त्वादिनाऽवाप्लेन? यथाऽतिदीर्घा कर्मस्थितिः सम्यक्त्वादिगुणरहितेनैव क्षपिता, एवं कर्मशेषमपि गुणरहित एव क्षपयित्वा विवक्षितफलभाग भवतु। अत्रोच्यते-स हि तस्यामवस्थायां वर्तमानोऽनासादितगुणान्तरोन शेषक्षपणया विशिष्टफलप्रसाधनायालम, चित्तविधातादिप्रचुरविघ्नत्वात् विशिष्टाप्राप्तपूर्वफलप्राप्त्यासन्नत्दात प्रागभ्यस्तक्रियया तस्यावाप्तुमशक्यत्वाच्च / अनेकसंवत्सरानुपालिता चाम्लादिपुरश्चरणक्रियासादित गुणान्तरोत्तरसहायक्रियारहितविद्यासाधक-वत्तथा चाह- भाष्यकार:- "पाएणपुव्वसेवा, परिमउईसाहणम्मिगु
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy