________________ सामाइय 752 - अभिधानराजेन्द्रः - भाग 7 सामाइय साणाइयस्स सोउं, कुलालघडदण्डमाणं व // 3423 / / पविभागमपेच्छंतो, पुच्छइ को कारओ करें तोऽयं / किं कम्मं जं कीरइ, तो तेण सद्देण करणं च // 3424 / / द्वे अपि गतार्थे / अत्राक्षेपमाहकिं कारओ य करणं, च होइ कम्मं च ते चसद्दाओ। अन्नमणन्नं भण्णइ, किंचाह न सव्वहा जुत्तं / / 3425 / / कारकः करणं चशब्दात् कर्म च 'ते' तव सूरे ! परस्परं किमन्यद भिन्नम, अनन्यदभिन्नमिति? भण्यतेऽत्रोत्तरम्-कि चातः? किमनेन तव पृष्टन? इति / अत्राह परः-अन्यत्वमनन्यत्वं वेति, द्वयोरेकमपि सर्वथा न युक्तमिति। अवान्यत्वे तावददूषणमाहअन्नत्ते समभावा-भावाओ तप्पओयणाभावो। पावइ मिच्छस्स व से, सम्मामिच्छाऽविसेसोऽयं / / 3426 / / / कर्मभूतस्य सामायिकस्य कर्तुर्जीवादन्यत्वे मिथ्यादृष्टेरिव 'से' तस्य कर्तृजीवस्य सामायिकजन्यसमभावाभाव एव स्यात्,अन्यायाविशेषात् / ततश्च तत्प्रयोजनभूतस्य मोक्षसुखस्याभाव एव प्राप्नोति / अपरं चअयं कृतसामायिकः सम्यग्दृष्टिः, अयं तु मिथ्यादृष्टिः, इत्ययमविशेष एव स्यात्, उभयोरपि सामायिकरयान्यत्वाविशेषादिति। पर एवाचार्यमाशङ्कतेअहवा मइमिन्नेण वि, धणेण सधणो त्ति होइ ववएसो। सधणो य धणाभागी, जह तह सामाइयस्सामी॥३४२७॥ अथवा-अत्र सूरे ! तवेयं मतिः स्यात्, भिन्नेनापि धनेन सधनः' इति व्यपदेशो लोके भवति,अपरं चासो सधनो धनाभागी धनफलभोवता यथा दृश्यते तथा भिन्नस्यापि सामायिकस्य स्वामी सामायिकवास्तत्फलभोक्ता भविष्यति, न्यायस्य समानत्वादिति / तदेतत्परः परिहरतितं न जओ जीवगुणो, सामइयं तेण विफलया तस्स। णन्नत्तणओ जुत्ता, परसामइयस्स वाऽफलया।॥३४२८|| तदेतत् सूरे ! त्वदुक्तं न, यतो जीवगुणः सामायिकम, तेन जीव / गुणस्य साभायिकस्य गुणिनो जीवादन्यत्वे विफलतानिष्फलत! युक्ता, धन तु धनिनो गुणो न भवति, तेन तस्य भिन्नस्यापि सफलताऽस्विति भावः / यथा परसामायिकस्य विवक्षितजीवमपेक्ष्यान्यन्वादफलतेति / अपि चजइ भिन्नं तब्भावे, वि तओ (सो) तस्स भावरहिओ त्ति। अन्नाणी चिय निच, अंधोवसमं पईवेण // 3426 / / यदि कर्तुर्जीवादभिन्न सामायिकम, तदा तदभावेऽपि भिन्नसम्यक्त्वादिसामायिकप्रस्तावेऽपि तकोऽसो कर्तृजीवस्तल्स्वभावरहितः सभ्यक्त्वादिसामायिकस्वभावरहित इति वृत्वाऽज्ञान्येव स्यात. यथा भिन्न प्रदीपेन समं वर्तमानोऽपि स्वस्वभावभूतचक्षुर्विकलोऽन्ध इति। अथानन्यत्वपक्ष दूषयन्नाह एगत्ते तन्नासे, नासो जीवस्स संभवे भवणं। कारगसंकरदोसा, तदिक्कया कप्पणा वावि॥३४३०।। सामायिकतद्वतोरकत्वेगऽनन्यत्वे तन्नाशेसामायिकनाशे समायिकवतो जीवस्यापि नाशः प्राप्नोति, घटस्वरूपनाशे घटस्येव संभवेवोत्पत्ती वा सामायिकस्य , जीवस्यापि भवनमुत्पत्तिमत्त्वं स्यात् / न च तस्य तदिष्यते, नित्यत्वात्. तथा-कर्तृकर्मकरणकारकाणां संकरदोषः, तदेकता वा स्यात, कल्पनामात्ररूपता वा कारकाणां भवेदिति। अत्राचार्य उत्तरमाहआया हु कारओ मे,सामाइयकम्म करणमाया या तम्हा आया सामा-इयं च परिणामओ इक्कं / / 3431 // आत्मैव तावत् सामायिकस्य कारकः कर्ता मे-मम, सामायिकमेव क्रियभाणत्वात् कर्म सामायिककर्म तदप्यात्मैव न पुनरतद्वयतिरि-- क्तमन्यत् किञ्चिदिति, चशब्दाद-मनःप्रभृतिकं करणभप्यात्मैव / तस्मादात्मा सामायिकं चशब्दात्-करणं चेति त्रितयमप्यतदेकमेव / कथम? परिणामतः आत्मपरिणामरूपत्वात् / नहि सामायिक मनःप्रभृतिकरणं वात्मपरिणामरूपत्वमतिक्रम्य वर्तते / अतस्त्रितयमपि परिणाम रूपतयेकमेवेदमिति। एतदेव व्याचिख्यासुराहजं नाणाइसभावं,सामइयं जोगमाह करणं च। उभयं च सपरिणामो, परिणामाणन्नया जं च / / 3432 / / यस्मात साभाथिकं सामान्येन ज्ञानदर्शनचारित्रस्वभावम, करणापि मनःप्रभृतिक योगमाह परमगुरुः, उभयं चैतदात्मनः स्वपरिणामः, परिणामतद्वतोश्च यस्मादनन्यरूपतैवेति। ततः किम्? इत्याहतेणाया सामइयं, करणं च चसद्दओ न भिन्नाई। नणु भणियमणण्णत्ते, तन्नासे जीवनासो त्ति॥३४३३।। तेन तस्मादात्मा सामायिकम्, चशब्दात्-करणं च मनःप्रभृति, न परस्परमेतानि भिन्नानि / आह-नन्वेवमनन्यत्वे 'तन्नाशे जीवनाशः' इत्यादिक दूषण भणितमेवेति। अत्र सूरिराहजइ तप्पञ्जयनासो, को दोसो होइ सव्वहा नत्थि। जं सो उप्पायव्वय-धुवधम्माणंतपञ्जाओ॥३४३४।। स चासौ सामायिकादिरूपः पर्यायश्च तत्पर्यायः- तत्पर्यायेण तत्पर्यायरूपेण नाशो जीवस्य तत्पर्यायनाशो यदि भवति, तदा भवतु नाम, को दोषः? यस्तु पर्यायविनाशे जीवस्य सर्वथा नाशः स नारित नेष्यते, यस्मादसी जीव उत्पादव्ययध्रौव्यधर्माऽनन्तपर्यायः / ततश्चैकस्य सामायिकादिपर्यायस्य नाशेऽपि कथं तस्य सर्वथा नाशः, शेषानन्तपर्यायैर्विशिष्टस्य तस्य सर्वदाऽवस्थानात् इति। न केवलमात्मा, किन्तु सर्वमपि वस्तु जैनानामुत्पादव्ययन्त्यितास्वरूपमेवेति दर्शयन्नाहसव्वं चिय पइसमयं, उप्पज्जइ नासए य निचं च।