________________ सामाइय 746 - अभिधानराजेन्द्रः - भाग 7 सामाइय सद्धेय नेय किरिया, निबंधणं जेण सामइयं // 3386 / / अथवा-उपोद्घाते सर्वद्रव्याणि सामायिकस्य विषये भवन्तीत्युक्तम् / इह तु स एव सामायिकलाभः सर्वद्रव्येषु हेतुभूतेषु भवतीत्युच्यत इति। कथं पुनः सर्वाण्यपि द्रव्याणे सामायिकस्य हेतुर्भवन्ति? इत्याह - 'सद्धये' त्य दि श्रद्धेवानि च ज्ञेयानि च चारित्रक्रियाहेतुभूतानि च यानि द्रव्याणि तन्निबन्धनंत तुक येन सामायिकम्।नच श्रद्धेयादिभ्योऽन्यानि सर्वद्रव्याण ति, नापि विषय-हेतोरेकत्वसवगन्तव्यम्, विषयस्य गोधररूपत्वात,जीवघातनि-वृत्तेः सर्वजीववद्धेतोरुपष्टम्भकत्वात्, अन्नादिवदिते। अन्यदपि परिहारान्तरमाहअहवा कयाकयाइसु, कर्ज केण व कयं च कत्त त्ति। केसु त्ति करणभावो, तइयत्थे सत्तमि काऊं // 3360 / / अथवा-कृताकृतादिद्वारेषु प्रथमे कृताकृतद्वारे का यत क्रियते तत् कार्य सामायिकमुक्तम्, 'केन कृतम्' इति रा द्वितीयद्वारे सामायिकस्यैव कर्ता निर्दिष्टः, 'केषु' इति तृतीयद्वारे तु तृतीयार्थे सप्तमी कृत्वा करणमभिहितम्, कैर्द्रव्यैः करणभूतैः सामायिक क्रियत इति नोपोद्घातेन सह पौनरुन्त्यमिति। अथ कदा कारको भवति' इति नयर्निरूपयन्नाह-- उद्दिढे च्चिय नेगम-नयस्स कत्ताऽणहिजमाणो वि। जं कारणमुद्देसो, तम्मि य कज्जोवयारो त्ति / / 3361 / / इहोददिष्ट एव गुरुणा सामायिके नैगमनयस्यानधीयानोऽपि शिष्यस्तत्कर्ता भवति / आह-ननु कार्यस्य कर्ता भवति, कार्यं च सामायिकमुद्देशस्थले नारिन,तत्कथं तस्यासौ कर्ता भवति! इत्याह- 'जम्मि' इत्यादि, यस्मात् सामायिककारणमुद्देशः तस्मिश्चोद्देशलक्षणे कारणे कार्यस्य सामायिकन्योपचारः क्रियत इति सामायिकस्य कतोऽसौ भवतीति। सडग्रहव्यवहारनयमतमाहसंगहववहाराणं, पच्चासन्नयरकारणत्तणओ। उद्दिट्ठम्मि तदत्थं, गुरुपामूले समासीणो॥३३६२।। साहव्यवहारयोरुद्दिष्ट सामायिके तत्पठनार्थ गुरुपादमूले समासीनः / शिष्यः प्रत्यासन्नतरकारणत्वात् पूर्ववत तत्र सामायिककार्योपचारतः कर्ता भवतीति। ऋजुसूत्रमतमाहउज्जुसुयस्स पढंतो, तं कुणमाणो वि निरुवओगो वि। आसन्नासाहारण, कारणओ सद्दकिरियाणं / / 3363|| ऋजुसूत्रन्यानुपयुक्तोऽपि सामायिकपठन्, तथा कुर्वस्तदर्थ-क्रियामनुतिष्ठन रगमायिकस्य का भवति, सामायिकासन्नतरा साधारणकारणत्वास तद्विषयशब्दक्रिययोरिति / शब्दादिमतमाहसामाइओवउत्तो, कत्ता सद्दकिरियाविउत्तो वि। सद्दाईण मणुन्नो, परिणामो जेण सामइयं // 3364|| शब्दादिनयाना सामायिकोपयुक्तः शब्दक्रियावियुक्तोऽपि सामायिककर्ता भवति, येन यरमाद् मनोज्ञो विशुद्धपरिणाम एव तेषां सामायिकमिति। अथ पूर्वोक्तमुपसंहरन्नुत्तरगन्थसम्बन्धनार्थमाहकत्ता नयओऽभिहिओ, अहवा नयउत्ति नीइओ नेओ। सामाइयहेउपउ–जकारओ सो नओ य इमो॥३३६५।। तदेवं सामाथिकस्य कर्ता नयतो-नयैरभिहितः / अथवा- 'कदा वा कारकः' इत्यस्माद नय इति पृथगेव द्वारम् / तत्र चायमर्थः-नयतोनीतितो विधिना सामायिकस्य हेतुःकर्ता सामायिकस्य प्रयोज्यकारको ज्ञेयः / कः पुनरसी नय इत्याह स चायम् / इति द्वात्रिंशद्गाथार्थः / विशे० / आ०म०। आ०चू०। सम्प्रति नय इत्येतद्द्वार विवरीषुराह-- आलोयणा य विणए, खित्तदिसामिग्गहे य काले य। रिक्खगुणसंपयाविय, अभिवाहारे य अट्ठमए / / 3366 / / विशेष इहाभिमुख्येन गुरोरात्मदोषप्रकाशनमालोचनानयः। आ०म०१ अ०। आवा अथालोचनानयं भाष्यकारो विवृण्वन्नाहसामाइयत्थमुवसं-पया गिहत्थस्स होज जइणो वा। उभयस्स पउत्ता लो-इयस्स सामाइयं देशा॥३३६७।। तत्र गृहस्थेआलोइयम्मि दिक्खा-रुहस्स गिहिणो चरित्तसामइयं / बालाइदोसरहिय-स्स देज नियमान सेसाणं॥३३६८|| स्पष्ट। नवरग, आलोचिते-आलोकिते विज्ञाते यथा द्रव्यतो ज्ञातोऽसौ; न नपुंसकादिः, क्षेत्रतस्तु विज्ञातो यथा नायमनार्यः, कालतस्त्ववगतो यथा शीतोष्णादिना नक्लाम्यति, भावतस्त्वव–बुद्धो यथा नीरोगानलसादिरूपः / ततश्चैवमालाकिते निश्चितेच दीक्षार्हस्य बालादिदोषरहितस्य गृहिणश्चारित्रसामायिकं दद्यादिति। ननु गृहस्थस्य सामायिकसूत्रार्थमुपसम्पदित्यवगम्यते, श्रमणस्य तु व्रतग्रहणकाल एवाधीतसामायिकत्वात् कथं तदर्थमुपसम्पद् भवेत्? इत्याहसामाइयत्थसवणो-वसंपया साहुणो हवेज्जाहि। वाघायमेसकालं, च पइसुयत्थं पि होजाहि / / 3366 / / यदा गुरु: सूत्रमात्रविदेव भवति, सूत्रं चादत्त्वा परलोकीभूतो भवेत्, तदा तच्छिष्यस्य साधोः सामायिकार्थश्रवणनिमित्तमन्यत्रोपसम्पद भवेत् / अथवा- 'सुयत्थं पि होज्जाहित्ति-व्याघातमेष्यत्कालं या प्रति तो प्रतीत्येत्यर्थः, सूत्रमात्रार्थमपि साधोरन्यत्रोपसम्पद् भवेत्। इदमुक्तं भवति- ग्लानभावेन व्यन्तरोपसर्गादिना वा व्याघातेन पतिते विस्मृते सामायिकसूत्रे, एष्यति वा दुःषमाकाले प्रज्ञामान्द्यादसमाप्त सामायिकसूत्रमात्रा अपि साधवो भविष्यन्तो निजगुर्वभावी भवनादिना कारणेन सर्वस्यापि सामायिकसूत्रस्य पठनार्थम, असमातस्य वा समाप्त्यर्थ मन्यत्र साधोरुपसम्पद् भवेदिति / तदेवं चारित्रसामा