________________ सामाइय 748 - अभिधानराजेन्द्रः - भाग 7 सामाइय ताकृतत्वम्, परगुणत्वाद्वा परगुणमाश्रित्य कृताकृतत्वमिति। अथवा-अन्यथाऽपि सामायिकस्य कृताकृतत्वं वक्तव्यम्, कथम ? इत्याहदव्वाइचउक्कं वा,पडुच कयमकयमहव सामइयं / एगपुरिसाइओ कय-मकयं नाणानराईहिं // 3381 / / अथवा-द्रव्यादिचतुष्कं द्रव्यक्षेत्रकालभावचतुष्टयं प्रतीत्यकृतमकृतं च सामायिक भावनीयम तथाहि-एक विवक्षितं पुरुषद्रव्यं प्रतीत्य कृतं सामायिकम,सादिसपर्यवसितत्वात्, नानापुरुषद्रव्याण्याश्रित्य पुनरकृतम्,अनाद्यपर्यवसितत्वादिति / आदिशब्दात-भरतैराबतक्षेत्राणि प्रतीत्य कृतम्। महाविदेहक्षेत्रेष्वकृतम्, अवच्छिन्नप्रवाहत्वेन नित्यत्वादिति तथा, उत्सर्पिण्यवसर्पिणीकालमाश्रित्य कृतम्, व्यवच्छिद्यमानत्वनानित्यत्वात् / नोउत्सर्पिण्यवसर्पिणीकालं त्वाश्रित्याकृतम, अव्यवच्छिन्नत्वेन नित्यत्वात् भावं त्वेकपुरुषोपयोग प्रतीत्य कृतम, नानापुरुषोपयोगानाश्रित्य पुनरकृतम्। इत्येवं वा कृताकृतं सामायिकमिति। तदेवमुक्तं कृताकृतद्वारम्। अथ 'केन कृतम्' इति द्वारं विवरीषुराहकेण कयं ति य ववहा-रओ जिणिंदेण गणहरेहिं च / तस्सामिणा उ निच्छय-नयस्स तत्तो जओऽणन्नं / / 3382 / / पाठसिद्धा। अत्राक्षेपपरिहारी प्राहनणु निग्गमे कयं चिय, केण कयं तं ति का पुणो पुच्छा। भण्णइ स बज्झकत्ता, इहंतरंगो विसेसेणं / / 3383 / / आह-ननु 'उद्दसे निवसे य निग्गने' इत्यत्र सामायिकस्य निर्गम भण्यमाने महावीरात तन्निर्गतम् इत्यादि- प्रतिपादनेन केन कृतं तत् इत्येतद् गतमव-उक्तार्थमेव, पुनरपीह का पृच्छा? भण्यतेऽनोत्तरमस तीर्थकरादिः सामायिकस्य बाह्यकर्ता तत्रोक्तः, इह तु विशेषाणान्तरङ्गकर्ता जिज्ञासितः / स च नैश्चयिकः सामायिकानुष्ठाता साध्यादिद्रष्टव्यः सामायिकपरिणामानन्यत्वादिति। परिहारान्तरमाहअहवा सततकत्ता, तत्थेह पउज्जकारगोऽभिमओ। अहवेह सव्वकारग-परिणामाणन्नरूवो त्ति॥३३८४।। अथवा तत्र निर्गम भगवास्तीर्थकरः स्वयबुद्धत्वात् स्वतन्त्रकर्ता अभिहितः, इह तस्यैव भगवतस्तीर्थकरस्य यः प्रयोज्यः- प्रबोधनीयः सन कारकः साध्वादिः स करताऽभिमतः। अथवा-इह कर्ता सर्वकारकपरिणामानन्यरूपोऽभिमतः, स च साध्वादिरेव सामायिकानुष्टाता मन्तव्यः, तथाहि-सामयिकं कुर्वन्नसो कर्ता, क्रियमाणत्वेन च कर्मरूपात सामायिकादनन्यत्वात् कर्म, सामायिक येनाध्यवसायन कारणभूतेनासौ करोति तस्मादनन्यत्वात करणम / गुरुणा चारम सामायिक प्रदीयत इति सम्प्रदानम, सामायिक चास्मात शिष्यप्रशिष्यपरम्परया प्रवर्तिष्यत इत्यपादानम,स्वपरिणामे च सामायिकमव्यय छिन्न घरतीत्यधिकरणमित्येवं सर्वकारकपरिणाभानन्यरूपः कर्ता भवत्य साविति आह-ननु यद्यन्तरङ्गः प्रयोज्यः सर्वकारकपरिणाभानन्यरुपश्च कर्ता साध्वादिरिह विवक्षितः, तर्हि 'जिनेन्द्रेण गणधरैश्च कृतं तत्' इति कस्मादुक्तम्, जिनेन्द्रगणधराणामिहाविवक्षितत्वात? सत्यम्। किन्तुजिनेन्द्रस्यापि सामायिकस्यान्तरङ्गकर्तृत्वं सर्वकारकपरिणामानन्यरूपकर्तृत्वं प्रायो न विरुध्यते, तेनापि तस्यानुष्ठितत्वात्, गणधराणां तु प्रयोज्यकर्तृत्वमपि युज्यत एव, जिनेन्द्रप्रयोज्यत्वात् तेषामिति / अतो जिनेन्द्रगणधराणाभप्युपन्यासोऽत्र न विरुध्यत इति / गत केन कृतम्' इति द्वारम्। अथ 'केषु द्रव्येषु तत् क्रियते' इति द्वारमभिधित्सुराहदव्वेसु केसु कीरइ, सामइयं नेगमो मणुण्णेसु / सयणाइएसु भासइ, मणुण्णपरिणामकारणओ।।३३८५।। नेगंतेण मणुन्नं, मणुन्नपरिणामकारणं दव्वं / वभिचाराओ सेसा, बिंति तओ सव्वदव्वेसु // 3386| केषु द्रव्येषु व्यवस्थितस्य सामायिक क्रियते–निर्वय॑ते? उत्रनैगमनयो भाषते- मनोज्ञेषु शयनाऽऽशनादिषु स्थितस्य तत् क्रियते. मनोज्ञपरिणामकारणत्वात्। तथा च कैश्चियुक्तम्-"मणुन्नं भोयणं भोच्चा, मणुन्न सयणासणं / मणुनम्मि अगारम्मि, मणुन्नं झायए मुणी।।१।।" इत्यादि। शंषास्तु संग्रहादयो बुवते-नैकान्तेन मनोज्ञ द्रव्यं मनोज्ञपरिणामकारण भवति, व्यभिचारात्, मनोज्ञेऽपिकस्यापि स्वाभिप्रायेण मनोज्ञपरिणामभावात, अमनोज्ञेऽपि च कस्यापि मनोज्ञपरिणामसद्भावात् / ततः सर्वद्रव्येषु व्यवस्थितस्य सामायिक क्रियते। अत्राक्षेपपरिहारावाहनणु भणियमुवग्घाए, केसुत्तीहं कओ पुणो पुच्छा? के सुत्ति तत्थ विसओ, इह केसु ठिअस्स तल्लाभो / / 3387 / / नन्पोद्घाते 'किं कइविह' इत्यादि गाथायां 'केषु सामायिक भवति' इति भणितभेव, इह कुतः पुनरपि पृच्छावसरः? नैवम्, नत्र हि केषु द्रव्यपर्यायाः सामायिकस्य विषये भवन्तीत्युक्तम्,तथा च तत्र निर्वचनम्'सव्वगयं सम्मत्त' इत्यादि। इह तु केषु द्रव्येषु स्थितस्य सामायिकलाभो भवतीत्युच्यत इति महान भेद इति। . यदि न पौनरुक्त्यम, तख्रन्यदूषणम्। किं तत? इत्या:तो किह सव्वद्दव्या, वत्थाणं जाइमित्तवयणाओ। धम्माइसव्वदव्वा-धारो सव्यो जओऽवस्सं॥३३८८|| ततस्तहि कथं सर्वद्रव्येष्ववस्थान सम्भवति, येनोच्यते- सेसा विति तओ सव्वदव्वेसु' इति / न हि सर्वेष्वाकाशादिद्रव्येषु कोऽयवतिष्ठत' इति / उच्यते?-जातिमात्रवचनात सर्वद्रव्यमात्रस्येह विवक्षणात्, * जातिमात्रंच सर्वद्रव्यैकदेशेऽपि प्राप्यत इति। ननु देशतोऽपि किं सर्वद्रव्या धारः कोऽपि प्राप्यते? उच्यते-प्राप्यत एव,यतो धर्मास्तिक याऽधर्मास्तिकायाऽऽकाशास्तिकायजीवपुद्गलाधारः सर्वोऽप्यवश्य जीवलोक इति परिहृतं प्रासनिक दूषणम्। अथ प्रस्तुतप्रेर्यस्य परिहारान्तरमाहविसओ व उवग्याए, केसु त्ति इहं स एव हेउ त्ति।