________________ सामाइय 745 - अभिधानराजेन्द्रः - भाग 7 सामाइय च सामान्यग्रहणेऽपि भेदेनोपन्यासो भवति, यथा ब्राहाणा आयाता वशिष्ठोऽप्यायात इत्यनुयोगद्वारग्रहणन तस्य ग्रहणेऽपि पृथगुपन्यासः। संबन्धान्तरप्रतिपादनायैवाहकयपंचनमोकारो, करेइ सामाइयं तु सोऽभिहितो। सामाइयंगमेव य, जं सा सेसं अतो वोच्छं / / 1026 / / वृत्तः पञ्चनमस्कार येन स तथाविधः शिष्यःसामायिक करोतीत्यागमः। स च पञ्चनमस्कारोऽभिहितो यस्मादसौ नमस्कारः सामायिकाड़ मेव। सा च सामायिकाङ्गता प्रागेवोक्ता अत ऊर्द्ध शेषं सूत्रं वक्ष्ये। तच्चेदम्'कमि भंते ! सामाइयं सव्वं सावज जोग पच्चक्खामि / जायजीवाए तिविहं तिविहेणं मणणं वायाए कारणं / न करेमि न काखेमि करत पि अन्नं न समाजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं बोसि-रामि / इदं व सूत्रं सूत्रानुगम एव प्राप्तावसरे अहीनाक्षरादिगुणोपेत-- मुच्चारणीयम् / तद्यथा- अहीनाक्षरमनत्यक्षरम अव्याविद्धाक्षरमस्खलितनिलितमव्यत्ययमनामेडितं प्रतिपूर्ण प्रतिपूर्णधोष कण्ठोधविप्रमुक्त वाचनोपगतमिति। अमूनि च पदानि प्राग्व्याख्यातत्वान्न व्याख्यायन्त / एवंरूपे च सूत्रे उच्चारिते सति केषा -चिद्भगवता साधूनां केचन अर्थाधिकाराः, अधिगतीभवन्ति, केषा-चन त्वनधिगताधिगमनाय व्याल्या प्रवर्तते / तल्लक्षणं चेदम्- "संहिता च पदं चैव, पदार्थ: पदविग्रहः चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा / / 1 / / " तत्राऽस्खनितपदोच्चारणं संहिता / यथा- 'करेमि भंते ! सामाइयमि' त्यादि 'लाव वोसिरामि' / पदं पशधा, तद्यथा-नामिक नेपातिकमोपसर्गिकमाख्यातिक मिश्रं च / तत्र अश्व इति नाभिकम, खल्विति नैपातिकं, रीत्यौपसर्गिकं, धावतीत्या-ख्यानिक,संयत इति मिश्रम। अथवा-द्वि वेधं पदस्याद्यन्तम्,तिवाद्यन्तच 1 अत्र पशविधानि वा पदानि, तद्यथा-करोमि भयान्त ! सामायिकं सर्व सावा योग प्रत्याख्यामि यावज्जीवया त्रिविधं त्रिविधेनेति मनसा वाचा कायेन, न करोमि न कारयामि कुर्वन्तमपि अन्यं न समनुजाने, तस्य भ-यान्त ! प्रतिक्रमामि निन्दामि र हामि आत्मानं व्युत्सृजामीति पदानि / अधुना पदार्थः स चतुर्विधः / तद्यथा-कारकविषयः, समासविषयः, तद्धितविषयः, निरुवितविषयश्च / तत्र कारकविषयो यथा-पचतीति पाचकः / समासविषयो यथा-राज्ञः पुरुषो राज--पुरुषः / तद्धितविषयो यथावसुदेवस्यापत्यं वासुदेवः। निरुक्ति-विषयो यथा-भ्रमति रौति च भ्रमरः / तत्रापि डुवृजकरणे इत्यस्य मिप्रत्ययान्तरस्य कृत्रः, तनादेरुरिति उकार गुण च कृत करोमीति च भवति / अभ्युपगमश्चास्यार्थः / एवं प्रकृतिप्रत्ययविभागः सर्वत्र वक्तव्यः / इह तु ग्रन्थगौरवभयान्नोच्यते / भयं प्रतीतम, लक्ष्या--मो वा उपरिष्टात् अन्तोविनाशःभयस्यान्तो भयान्तः। अयमेव पदविग्रहः, पदपृथक्करणपदविग्रहः तस्य सम्बन्धिनं भयान्त ! सामायिक पदार्थः पूर्ववत् सर्वमित्यपरिशेषवाची शब्दः। अवद्यम-पाप सहावा रास्य येन वा सावद्यः,तं सपापमित्यर्थः, योग्यो व्यापारस्त प्रत्याख्यामि प्रतिशब्दः प्रतिषेधे, आड आभिमुख्ये, ख्याप्रकथने, | तत:प्रत्याख्यामीति / किमुक्त भवति-सावद्ययोगस्य प्रतीपमभिमुखं ध्यापार करोभीति / अथवा- 'पञ्चवखामीति' प्रत्याचक्षे इति शब्दसंस्कारः। चड़ि व्यक्तायां वाचि। अस्य प्रत्याडपूर्वस्य प्रयोगः प्रत्याचक्षे इति / काऽर्थः प्रतिषधस्यादरेणाभिधानम् / करोमि यावजीवयेति च / यावच्छब्दः परिमाणमर्यादावधारणवचनः, तत्र परिमाणे यावन मम जीवनपरिमाण तावत्प्रत्याख्यामीति, मर्यादायां यावज्जीवनभिति, मरणं मर्यादीकृत्य, अवधारणे यावज्जीवनमेव प्रत्याख्यामि न तस्मात्परत इत्यर्थः। जीवनं जीवेत्यय क्रियाशब्दः। परिगृह्यते तया। अथवा-प्रत्याख्यानक्रिया परिगृह्यते / यावज्जीवो यस्यां सा यावज्जीवा तया त्रिविधमिति तिसो विधा यस्य सावधयोगस्य स त्रिविधः, स च प्रत्याख्ययत्वेन कर्म संपद्यतं कर्मणि च द्वितीया विभक्तिरस्ति / तं विविध मनोवाकायव्यापारलक्षणं 'कायवान् मनःकर्मयोग' इति वचनात् / त्रिविधनति करणे तृतीया / मनसा वाचा कायेन / तत्र 'मन्' बुद्धिमतिज्ञाने, मननं मन्यते वाऽनेनेति मनः / औणादिकोऽस्प्रत्ययः। तचतुर्दा। नामस्थापनाद्रव्यभावभेदात, नामस्थापने सुगमे। द्रव्यमनो ज्ञशरीरगव्यशरीरव्यतिरिक्त तद्योग्यपुद्गलमिदम्। भावमनो मनो जीव एका वच परिभाषणे,वचनम् उच्यते इति च वाक्, साऽपि चतुर्विधा नाभस्थापनाद्रव्यभावभेदात्। तत्र नामस्थापने सुगमे। द्रव्यवाग ज्ञशरीरभव्यशरीरव्यतिरिक्ताः शब्दपरिणामयोग्यजीवपरिगृहीता पुद्गलाः / भाववाक पुनस्तएव पुद्गलाः शब्दपरिणाममापन्नाः। तथा-- 'वे' वयने / क्यनं वीयते इति ता कायः, वीत्युपरामाधाना वा रांदोहकश्चादिरिति वेजो वकारस्य ककारः। पुद्गलान-अवयवान पुद्गलानामेवावयवरूपतया समानात जीवस्य निवासान प्रतिक्षणं केषांचित्पुद्गलानां शरणात् / कायः-शरीरम, सोऽपि नामस्थापनाद्रव्यभावभेदाचतुष्प्रकारः / तत्र नाम--स्थापन प्रतीते। द्रव्यकायो ज्ञशरीरभव्यशरीरव्यतिरिवतः शरीरत्वयोग्या अगृहीतास्तत्स्वामिना वा जीवेन मुक्ता यावन्तं परिणाम न मुशति तावद द्रव्यकायः / भावकायस्तु तत्परिणता जीवसंयुताश्च पुद्गलाः / अनेन त्रिविधेन कारणेन त्रिविधं पूर्वाधिकृतं सावध योग न करोमिन कारयामि कुर्वन्तमप्यन्यं न समनुजानामि-नानुमन्येऽहमिति, तस्यत्यधिकृतस्य सावधयोगस्य प्रतिक्रमामि-निवृत्ते निन्दामि-जुगुप्से गहें इति, स एवार्थः / किं त्वात्मसाक्षिका निन्दा। गुरुसाक्षिका गर्हेति। कि जुगुप्से इत्यत आह-आत्मान-मनतिसावद्ययोगकारिणं व्युत्सृजामि विविधार्थो विशेषार्थो वा विशब्द उच्छब्दो भृशार्थः, सृजामित्यजामि। विविध विशेषण वा भृशं त्यजामीति भावः / एवं तावत्पदार्थपदविग्रहों यथासम्भवमुक्तो। आ०म०१ अ०॥ अधुना चालनाप्रत्यवस्थाने वक्तव्ये। अत्रान्तरे सूत्रस्पर्श नियुक्तिरुच्यते। स्वस्थानत्वादाह नियुक्तिकारःअक्खलियसंहियादी,वक्खाणचउक्कए दरिसियम्मि। सुत्तप्फासियनिज्जु-त्ति वित्थरस्थो इमो होइ।।१०१६।। अस्खलितादी सूत्रे उच्चरिते सहितादौ च व्याख्यानचतुष्टये दर्शिते सति सूत्रस्पर्शनियुक्तिविस्तरार्थोऽयं भवतीति।