________________ सामाइय 746 - अभिधानराजेन्द्रः - भाग 7 सामाइय तमेव दर्शयतिकरणे भए य अंते, सामाइयसव्वए अवज्जे य। जोगे पच्चक्खाणे, जावज्जीवाएँ तिविहेण / / 1016 / / आव०१०। (करणव्याख्या करण' शब्दे तृतीयभागे 366 पृष्ठे गता।) किं सामायिकं कस्मिन् करणेभावसुयसद्दकरणे, अहिगारो एत्थ होइ कायव्वो। नो सुयकरणं गुणगँ-जणे य जहसंभवं होइ।। आ० म०१ अ०। अथ विनेयः पृच्छति ननूक्तस्वरूपाणां नामादीनां षण्णां करणभेदाना / मध्ये सामायिककरणमिद किं भवत्?-कस्मिन् भेदेऽवतरेत? इत्यर्थः / अत्रगुरुराहसव्वं पिजहाजोगं, नेयं भावकरणं विसेसेणं / सुयबद्धसद्दकरणं, सुयसामइयं न चारित्तं // 3361 / / इदं सामायिककरणं सर्वगपि षड्विधमपि नामादिकरणं ज्ञेयम्-सर्वेष्वपि नामादिभेदेष्ववतरेदित्यर्थः / कथं? यथायोग-यथासम्भवम् / तत्र सम्यक्त्वश्रुततपःसंयमादिगुणाना जीवद्रव्यपर्यायत्वात्, पर्यायस्य च द्रव्यानन्यत्वाद द्रव्यकरणमिदं भवत्येव / एवं नामादिकरणताऽप्यस्य यथाराम्भवं भावनीया। भावकरणं त्विदं विशेषतो भवति, सम्यक्त्वादिसामायिकानां जीवभावत्वादिति / आह-ननु भावकरणं पूर्व बहुभेदमुक्तम्, तत् किं सर्वेष्वपि भावकरणभेदेषु सर्वमपि सामायिकमवतरति? नेत्याह-'सुए' त्यादि, श्रुतकरणं तथा बद्धश्रुतकरणम्, शब्दकरण च श्रुतसामायिकमेव भवति, तस्यैवैतद्भेदरूपताघटनात . न तु चारित्रसामायिकम, तस्यैतद्रूपासम्भवादिति। चारित्रसामायिक तर्हि कस्मिन् भावकरणभेदेऽवतरति? इत्याहगुणकरणं चारित्तं, तवसंजमगुणमयं ति काऊणं / संभवओ सुयकरणं,सुपसत्थं झुंजणाकरणं / / 3362 / / कया कयं केण कयं,केसु व दव्वेसु कीरई वावि / काहे व कारओ नय-ओ करण कइविहं कहं च // 3263 / / गुणकरण चारित्रसामायिकं गुणकरणलक्षणे नोश्रुतभावकरणे प्रथमभेद एतदवतरतीत्यर्थः, तपः-संयमगुणात्मकमिति कृत्वा सम्भवतोयथासम्भवं श्रुतकरणमप्येतद् भवति / प्रशस्तवापायाश्चारित्रभेदभूताया वाक्समितरत्रावतारदिति। तथा, सुप्रशस्तं योजनाकरणमिति नोश्रुतभावकरणद्वितीयभेदेऽप्येतदवतरतीत्यर्थः, सुप्रशस्तमनोवाककायरूपत्वाच्चारित्रस्य। इति गाथार्थः। (विशे०) कृताकृतादिभिर्निरूपयन्नाह- 'कयाकयमित्यादि ननुकरणक्रियायाः पूर्व सामायिक किं कृतं क्रियते, अकृतं वा? उभयथाऽपि वक्ष्यमाणदोषः / अत्रोत्तरमाह... 'कयाकय तिनैकान्तेन कृतं क्रियते, नाप्यकृतम्, किन्तुकृताकृतं क्रियत इति। तथा, केन कृतमिति वक्तव्यम्। तथा, केषुद्रव्येष्विष्टादिपु क्रियते। कदा वा कारकोऽस्य भवति। 'नयउ' ति-नेगमादिनयमानात्रोत्तरं / वक्तव्यम् / तथा, करणं कतिभेदमिति वाच्यम् / तथा, कथं केन प्रकारेणेद सामायिककरणं लभ्यते इति चाभिधानीयम्, इति 'नयुक्तिागाथासंक्षपार्थः। विस्तरार्थं तु भाष्यकार आहकिं कयमकयं कीरइ, किं चातो भणइ सव्वहा दोसो। कयमिह सब्भावाओ, न कीरइ चिरकयघडु व्व / / 3364 / / निच्चकिरियापसंगो, किरियावेफल्लमपरिणिट्ठा वा। अकयकयकञ्जमाण--व्ववएसा भावया निच्चे // 3365 / / किं कृतं क्रियते सामायिकम्, अकृतं वा ? किश्चातः? किमन्न प्रश्न? इति गुराणा प्रोक्ते भणति परः, सर्वथापक्षद्वयेऽपि दोषः-तभाहि-कृतं तावद् न क्रियते, सद्भावादग्रेऽपि विद्यमानत्वात्. चिरकृतघटवदिति / कृतस्य च करणे नित्य क्रियायाः करणस्य प्रसङ्गः क्रियायाश्च वैफल्यम, कृतत्वादेवेति। अथ कृतमपि क्रियते, तर्हि करणस्यापरिनिष्ठा कृतत्वाविशेषादिति / अपि च- 'कृतं क्रियते' इत्युच्यमाने वस्तुनः सर्वदेव सत्त्वमभ्युपगतं भवति. यच्च सर्वदा सत् तदाकाशवद् नित्यम् नित्येच वस्तुन्यकृतमिदम्. कृत वा, क्रियमाणं वा इत्यादिव्यपदेशो न भवति, अनित्यत्वप्रसङ्गादिति। अकृतपक्षमङ्गीकृत्याहअकयं पि नेय कीरइ, अचंताभावओ खपुप्फ व / निचकिरियाइदोसा, सविसेसयरा व सुत्तम्मि।।३३६६।। स्पष्टा। अथ क्रियमाणं क्रियते, तत्राहसदसदुभयदोसाओ, सव्वं कीरइन कज्जमाणं पि। इह सव्वहान कीरइ, सामाइयमओ कओ करणं? // 3367 / / तत् क्रियमाणं वस्तु सदाऽसद् वा परिकल्प्येत? यदि पत्, तहे कृतपक्षोक्ताः सर्वेऽपि दोषाः प्रसजन्ति / असत्त्वपक्षे त्टकृतपक्षदोषानुपनः / अथ सदसत् क्रियमाणमिष्यते,तदप्ययुक्ता, उभयपक्षोक्तदोषप्रसङ्गादिति। एवं सर्वथा सर्वप्रकारैः सामायिकं न क्रियत। अतः कस्मात् तस्य करणम् ? इति। अत्रोत्तरमाहनणु सव्वहा न कीरइ, पडिसेहम्मि वि समाणमेवेदं। पडिसेहस्साभावे,पडिसिद्ध केण सामइयं? // 3368 / / अह कयमकयं न कयं,न कज्जमाणं कहं तहावि कयं / पडिसेहवयणमेयं, तह सामाइयं पि को दोसो ? ||3366 / / ननु सर्वथा-सर्वप्रकारैः सामायिकं न क्रियते इत्येवं यस्त्वया प्रतिषेधो विधीयते, तत्रापि प्रतिषेधे समानमेवेदम। किमसी कृतः क्रियते,अकृतः, क्रियमाणो वेत्याधुक्तन्यायेन सोऽपि सर्वथा न क्रियते। अतः प्रतिषेधाभावे केन प्रतिषिद्ध सामायिकम्? न केनचित्, अतः क्रियतएवैतदिति।अथैव वर्ष प्रतिषेधवचनमेततकृतंवा सत, अकृतवा सदनकृतम,नापि क्रियमाणं कृत्तम्,