________________ सामाइय 744 - अभिधानराजेन्द्रः - भाग 7 सामाइय पशेव रज्जूः स्पृशतीति निगद्यते? सत्यम् किन्त्यच्युतगवेयका-- पान्तरालमपेक्ष्यान्यत्र षड् रज्जवः पठ्यन्ते, इह त्वच्युतदेवलोकमपेक्ष्य पश्चेति वृद्धसम्प्रदायः / अधस्तु घण्टालालान्यायेनापि तं परिणाममपरित्यज्य देशधिरतान गच्छन्ति अत ऊर्ध्वलोक एक्त स्पर्शना दर्शिता नाधस्तादिति / तदेव क्षेत्रमधिकृत्य स्पर्शना प्रोक्ता। अथ भावमधिकृत्य तामुपदर्शयन्नाहसव्वजीवेहि सुयं, सम्मचरित्ताइँ सव्वसिद्धेहिं / भागेहि असंखिजे-हि फासिया देसविरई उ॥२७८३।। इह जीवा द्विविधाः संसारस्थाः, सिद्धाश्चा संसारस्था अपि द्विविधाःसंव्यवहारराशिगताः, असंव्यवहारराशिगताश्च / तत्र संव्यवहारराशिगतैः सर्वैरपि जीवैः सामान्येनाक्षरात्मकं श्रुतं स्पृष्टम्, द्वीन्द्रियादिभावस्य सर्वेरपि तैः स्पृष्टत्वात, तत्र च सामान्य श्रुतसद्भावात् / संव्यवहारराशिगतविशेषणं चेह पूर्वटीकाकारः कृतम् इति नास्माक स्वमनीपिका सम्भावनीयेति। सम्यक्त्वचारित्रे तु सर्वैरपि सिद्धैः पूर्व स्पृष्ट, तत्स्पर्शनामन्तरण सिद्धत्वायोगात् / देशविरतिस्तु सर्वसिद्धानां बुद्धिपरिकल्पितरसङ्ख्यातैर्भागः पूर्व स्पृष्टा,एकेन तु तदसङ्ख्येय-भागेनासौ प्राग्न स्पृष्टा, यथा मेरुदेवीस्वामिन्या। इह च सम्यक्त्वादयो जीवपर्यायत्वाद, भावाः, ततस्तेषां स्पर्शनाभावः स्पर्शनोच्यते इति नियुक्तिगाथाद्वयार्थः। (74) सामायिकपदव्याख्या-तत्रेद सूत्रम-- करेमि भंते ! सामाइयं सव्यं सावजं जोगं पच्चक्खामि जाव जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स मंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। आव० 110 / अथ सूत्रस्पर्शिका नियुक्तिर्वक्तव्या, ततः पूर्वोक्तिमुपसंहरन्नु-- तरवक्तव्यसम्बन्धनार्थ भाष्यकारः प्राहइइ एस उवग्घाओ--ऽभिहिओ सामाइयस्स तस्सेव। अहुणा सुत्तप्फासियाँ, निज्जुत्ती सुत्तवक्खाणं // 2800 / / इति पूर्वोक्तक्रमेणैष उपोद्घातोऽभिहितः सामायिकस्य अथ तस्यवाधुना सूत्रस्पर्शिका नियुक्तिरुच्यते-सूत्रव्याख्यानमभिधीयत इत्यर्थः। ननु सूत्रस्पर्शिकनियुक्त्या सूत्रं स्पृश्यते। तच वसति भवति? इत्याहसुत्तं सुत्ताणुगमो, तं च नमोक्कारपुव्वयं जेण। सो सव्वसुयक्खंध-भंतरभूउ त्ति निहिट्ठो // 2801 / / 'करेमि भंते ! सामाइयं' इत्यादिसूत्रम्, सूत्रानुगम एतद्- व्याख्यानरूपे प्रक्रान्त सति भवति। तच नमस्कारपूर्वकमेव पठ्यते। कथम्? इत्याह-- येन यस्मात् स नमस्कारः सर्वश्रुतस्कन्धाभ्यन्तर्भूतः पूर्वमिहेव निर्दिष्टः / ततो नमस्कारं व्याख्याय पश्चात् सामायिकसूत्र व्याख्यास्यत इति भावः / अन्ये तु सामायिकसूत्रादिनमस्कारं न मन्यन्ते, किन्त्वन्यदेव किशिद युवते / किं पुनस्तत? इत्याह तं चावसाणमंगल-मन्ने मन्नंति तं च सत्थस्स। सव्वस्स भणियमंते, इयमाईए कहं जुत्तं / / 2802 / / तं च नमस्कारमुपोद्घातनियुक्तिशास्त्रस्यावसान गले केचिद् मन्यन्तै, न पुनः सूत्रादिम् / इदमुक्तं भवति-शास्त्रस्यादौ मध्येऽवसाने च मङ्ग लमिष्यते, तत्रोपोद्धातनिर्युक्तेरादौ नन्दिर्मङ्गलम् मध्ये तु जिनगणधरोत्पत्त्यादिगुणकीर्त्तनम्, अवसाने तु किलैप नमस्कारो मङ्गलमित्यन्धेषां बुद्धिः / सा च न युक्ताः / कुतः? इ याह- 'तं च सत्थस्से' त्यादि, इयमत्र भावना-यत्शास्त्रस्या-वसानमङ्गल तैर्गीयते, तद्भणितमेव भद्रबाहुस्वामिना सर्वस्यापि षडध्ययनात्मकस्यावश्यकशास्त्रस्यान्ते प्रत्याख्यानलक्षण मङ्गलम् / प्रत्याख्यानं हि तपः, तच धम्मो मंगलमुक्किट्ट" इत्यादिवचनाद् मङ्गलम्व / ततश्चेद नमस्कारलक्षण मङ्गलं सामायिक स्यादौ कथमभिधातुं युक्तम, अप्रस्तुतत्वात् ? अप्रस्तुतत्वं चेहादिमध्याऽवसानत्वाभावादिति पुनरपि परमतमाशङ्कय परिहरन्नाहहोजाइ मंगलं सो,तं कयमाईऍ किं पुणो तेणं। अथवा कयं पि कीरइ, कत्थावत्थाण मेवं ति।।२८०३|| अथ सामायिक स्यादौ निर्दिष्टत्वादादिमङ्गलमसौ नमस्कारो भवेदित्युच्यते, तदयुक्तम्, यतस्तदादि मङ्गलं कृतमेवा दौ नन्द्यभिधानतः,किं पुनरप्यत्र तेन विहितेन? अथ कृतमप्यादिगङ्गलं पुनरपि क्रियते, तद्येवं सति क्वावस्थानम् / पुनः पुनस्तत्कणप्रसाद - नवस्थाप्राप्तेन क्वचिदवस्थानं स्यादिति। तर्हि भवन्त एव कथयन्तु-किमिह नमस्कारख्याख्याने कारणम्? इत्युपसन्ने प्रेरक सूरिराहतम्हा सो सुत्तं चिय, तदाइभावादओ तयं चेव। पुव्वं वक्खाणेउं,पच्छा वोच्छामि सामइयं // 2804 / / तस्माद-नमस्कारस्तत्त्वतः सामायिकसूत्रमेव तदादिभावात्सामापिकादावुपन्याससद्भावात्, 'करेमि भंते ! सामाइय' इत्यादि सामायिकसूत्रावयववदिति / अतः परमार्थेन सामायिकसूत्रत्वाद् न पुनर्मङ्गलार्थत्वात्तमेव नमस्कारं पूर्वमादौ व्याख्या पश्चात् सामायिकार्थ वक्ष्यामि इति गाथापक्षकार्थः / विशे० / आ०म०। आ०चूछ। सम्प्रति सूत्रोपन्यासार्थ प्रत्यासत्तियोगतः परमार्थेन सूत्रस्पर्शिकनियुक्तिगतामेव गाथामाहनंदिअणुओगदारं, विधिवदुवग्घाइयं च नाऊण / काऊण पंच मंगल-मारंभो होइ सुत्तस्स / / नन्दिश्वानुयोगद्वाराणि च नन्द्यनुयोगद्वारं समाहारत्वादेकवचनं विधिवत यथावत उपोद्धातं च / 'उद्देसे निइसे य' इत्यादिलक्षणं ज्ञाचा पाठान्तर भणित्वा अन्यथा कृत्वा पञ्च मङ्गलानि; नमस्कारमित्यर्थः / किम्? आरम्भो भवति सूत्रस्य इह पुनर्नन्द्यापन्यासः किल विधिनियमख्यापनार्थः / नन्द्याहदि ज्ञात्वैव-भणित्वैव वा सूत्रस्यारम्भो भ्वति नान्यथेति / तथा उपोद्धातः- सकलप्रवचनसाधारणत्वेन प्रधनं प्रधानस्य