________________ सामाइय 736 - अभिधानराजेन्द्रः - भाग 7 सामाइय नाजीवो नाभावो, सो चिय सामाइयं तेण / / 2635 / / यतो-यस्मात सम्यक्त्वश्रुतसामायिकाभ्यां श्रद्धत्ते जानाति च जीव एव नाजीवादिः, प्रत्याचक्षाणश्च चारित्रीयतो जीव एव भवति नाजीवो नाप्यभावः, श्रद्धानज्ञानप्रत्याख्यानानां प्रेक्षावत्येव संभवात, अजीवाऽभावयोश्च प्रेक्षाभावात् तेन तस्मात् स एव जीवः सामाथिक नाजीवादिरित। त खलु पच्चक्खाणं इत्यादेयाख्यानमाहसामाइयभावपरिणइ, भावाओ जीव एव सामइयं / सद्धेयनेयकिरिओ-वओगओ सव्वदव्वाइं॥२६३६|| 'खलु शब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः' इत्युक्तमेव / ततश्च सामायिकभावपरिणतिभावात् सामायिक-परिणामानन्यत्वाजीय एव सामायिकम् / तस्य च जीवपरिणति-रूपस्य सामायिकरय को विषयः? इत्याह--सर्वद्रव्याणि / कुतः? 'सद्धेयनेयकिरिओवओगओ' त्ति यथासंख्यं सम्यक्त्व- श्रुतचारित्रसामायिकानां श्रद्धेयत्वेन शेयत्वेन, प्रवृत्तिनिवृत्ति-क्रियया च सर्वद्रव्याणामुपयोगात्, इति गाथाद्वयार्थः।। (71) तत्रै कस्मिन्नपि तावद् महावतात्मके चारित्रसामायिके नियुक्तिकृदेव साक्षात सर्वद्रव्योपयोगं दर्शयति-- पढमम्मि सव्वजीवा, वीए चरिमे य सव्वदव्वाइं। सेसा महव्वया खलु, तदेगदेसेण दव्वाणं / / 2637 / / प्रथमे प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने सर्वजीवावसस्थावरसूक्ष्मतरभेदा विषयत्वेन द्रष्टव्याः, तदनुपालनरूपत्वात् तस्येति / तथा, द्वितीये मृषावादनिवृत्तिरूपे, चरमे च परिग्रहनिवृत्ति रूपे महाव्रते सर्वद्रव्याणि विषयत्वेन द्रष्टव्यानि / कथम्? 'नास्ति पशास्तिकायात्मको लोकः' इति मृषावादस्य सर्वद्रव्यविषयत्वात, तन्नित्तिरूपत्वाच द्वितीयव्रतस्य / तथा, मूच्छद्विारेण परिग्रहस्यापि सर्वद्रव्यविषयत्वात, चरमव्रतस्य च तन्निवृत्तिरूपत्वादशेषद्रव्यविषयतेति / 'सेसा' इत्यादि खलुशब्दोऽवधारण, तस्य च व्यवहितसम्बन्धः / ततश्च शेषाणि महाव्रतानि द्रव्याणां तदेकदेशेनैव 'भवन्ति' इति क्रियाध्याहारः / तेषां द्रव्या-णामेकदेशस्तदेकदेशस्तनैद हेतुभूतेन विषपत्वेन भवन्ति, न तु सर्वद्रव्यैरिति भावः / कथम? इति चत् / उच्यत-तृतीयस्य ग्रहणी-यधारणीयद्रव्यादतादानविरतिरूपत्वात्, चतुर्थस्य तु ''रूवेसु वा स्वसहगेसु वा दव्वेसु'' इत्यादिवचनाद् रूप-रूपसहगतद्रव्यसम्बन्ध्यबहाविरतिरूपत्वात्, षष्ठस्य च रात्रिभोजनविरमण स्वरूपत्यादिति / एवममीषां सर्वद्रव्यैकदेशविषयता इति नियुक्तिगाथार्थः। कुतः पुनरेवम्? इत्याशक्य भाष्यकारोऽप्याह... जं सव्वजीवपालण-विसयं पाणाइवायवेरमणं / मिच्छा मुच्छोवरमा, सव्वद्दव्वेसु विणिउत्ता॥२६३८|| रूवेसु सहगएK, बंभवयं गहणधारणिज्जेसु / तइयं छट्टवयं पुण, भोयणविणिवित्तिवावारं // 2636 / / एवं चारित्तमयं पव्वद्दव्वविसयं तहसुयं पि। देसे देसोवरई,सम्मत्त सव्वभावेसु / / 2640 / / यद-यरमात बसस्थावरसुक्ष्मस्थूलसर्वजीवपालनविषयं प्राणातिपातविरतिबनम, तस्मात् प्रथम व्रते सर्वजीवा विषयाचेन सङ्ग्रहीताः। मिथ्या, अनृतम, भूपति पर्यायाः / मूछी, गृद्धिः, परिग्रह इत्येकार्थाः / उपरमाणमुपरमो, निरागः / अयं चौपरमशब्दः प्रत्येकमभिसम्बध्यते / ततश्व मिथ्योपरमो मृपा बादनियमो द्वितीय-व्रतमित्यर्थः / मूछोपरमः परिगहनियमशरमव्रतमित्यर्थः। एतौ मिथ्योपरम- मूझेपरमौ द्वितीयचरमव्रतविशेषो सर्वद्रव्येषु विनियुक्ती सर्वद्रव्याणि प्रत्येकं तयोर्विषय इत्यर्थः कथम्? इति चेत्। उच्यते-शून्यवादे सर्वद्रव्यापलापेन, अन्यथा प्ररूपणेन वा मृषावादस्य सर्वद्रव्यविषयत्वात्, द्वितीयव्रतस्य च सन्निवृतिरूपत्वात सर्वद्रव्यविषयता / पञ्चमव्रतस्यापि 'त्रिभुवनाधिपतिरहम' सर्वमपि मदीयम इत्येवंभूतमूर्छानिवृत्तिरूपत्वात् सर्वद्रव्यविषयतेति। रूपेषुतिर्यगमनुष्यदेवस्त्रीपण्डकादिलक्षणेषु मूर्तवस्तुषु, रूपसहगतेषु च स्तननयनजघनादिषु विषये तत्सेवानिवृत्तिरूपत्वेन ब्रह्म-व्रतम्चतुर्थव्रतं प्रवर्तते, न पुनः सर्वद्रव्येषु / तृतीयं त्वदत्तादानव्रतं ग्रहणीयधारणीयेषु मूर्तेषु ग्रहणधारणयोग्येषु हिरण्यद्रविणादिषु विषये तदपहारनिवृत्तिद्वारेण प्रवर्तते, न सर्वत्रा षष्टमपि रात्रिभोजनविरमणव्रत रात्रिभोजनविनिवृत्तिमात्रव्यापारपरतया न सर्वविषयम् / अतस्त्रयाणामध्येतेषा सर्वव्यैकदेशविषयतेति। एवमुक्तप्रकारेणेदं चारित्रसामाजिक सामान्येन सर्वद्रव्यविषयं व्रतविभागविशेषविषयमवगन्तव्यम् / तथा, श्रुतसामायिकमपि 'सर्वद्रव्येष्वसर्वपर्यायेषु श्रुतम्" इति वचनात सर्वद्रव्यविषयमवयम्। देशोपरतिर्देशविरतिसागायिकं तु तद्रूपत्वादव देशे सर्वद्रव्येकदेशविषयमेव मन्तव्यम् / सभ्यक्त्वसामायिक तु यथावस्थितरामस्तवर-तुस्तोमश्रद्धानरूपत्वात सर्वद्रव्यविषयमेव वोद्धव्यम् / अतरवीण्यपि सामायिकानि प्रत्येक समुदितानिच सर्वद्रव्यविषयाणीति सिद्धम / तत्सिद्धी च सिद्धमिदम- 'तं खलु पच्चयखाण आवाए रावदव्वाणं' इति। अथ परमतमाशड्यय परिहरन्नाहकिं तं ति पत्थुए किं, थविसयचिंताएँ भण्णइ तओ वि। सामाइयंगभावं, जाइ जओ तेण तग्गहणं / / 2641 // किं तत् सामायिकम? इति ज्ञेयत्वेन प्रस्तुते किमत्र विषयचिन्तया? इति प्रेर्य भण्यत-प्रतिविधीयत तकोऽपि विषयः सामायिकस्या भावं हेतुभावं याति यरगात, सेन तस्य विषयस्य ग्रहणमिह प्ररूपणं कृतमिति न तस्याप्रस्तुतत्वमिति। अथ वक्ष्यमाणनिक्तिगाथायाः प्रस्तावनामाहदवं गुणो त्ति भइयं, सामाइयं सव्वनयमयाधारं / तं दव्वपज्जवट्ठिय, नयमयमंगीकरेऊणं // 2642 / / इह सामायिक सर्वनयमताधारं सर्वनयविचारविषय इत्यर्थः, ततस्तन्भर्तन भाज्यं भजनीयं द्रव्य गुणो वा भवति / ततस्तद्द्रव्याथिकपर्यायास्तिकनयद्वयमतमङ्गीकृत्य विचार्यत इति गाथापकार्थः।